________________
नवपद-
व्यासार्थस्तूच्यते-'नमिऊण' नत्वा प्रणम्येत्यर्थः 'वद्धमाणं ति वर्धतेऽचिन्त्यमाहात्म्यैः सम्यग्दर्शनज्ञानचारित्रादिभिर्गुणैः स्वयमेव अस्य वा जन्मनि
व्यासाथस्तूच्या वृत्तिःमू.देव. ज्ञातकुलं कोशकोष्ठागारादिसम्पद्विशेषैर्वर्धत इति तद्वृद्धिहेतुत्वाद्वर्धमानः, इष्टदेवता चायं गुणप्रकर्षरूपत्वात्परमगत्यवाप्तेरिति, तं नत्वा कि ? वृ. यशो KA
'वोच्छ' मिति वक्ष्यमाणक्रियाऽभिसम्बन्धः, एतावता चेष्टदेवतास्तवे प्रतिपादिते प्रेक्षापूर्वकारिणः श्रोतारो निरभिधेयमिदमनभिमताभिधेयं वा तथा ॥३॥
निष्प्रयोजनमनिमतप्रयोजनं वेति मन्यमाना न प्रकरणश्रवणे प्रवर्तेरन् अतो-"मिच्छं सम्मं वयाई संलेहा नवभेयाई" इत्याभिधेयं 'सट्टाणमणुग्गहट्ठाए' इति प्रयोजनं चोक्तं, तत्र पर्यन्तोपात्तं 'नवभेदानि' इति पदं सर्वपदैरभिसंबध्यते, तेन मिथ्यात्वम्-अर्हत्प्रणीततत्त्वार्थाश्रद्धानहेतुर्नवभेदं, सम्यक्त्वम्अष्टादशदोषविहितशेषोऽर्हन् मे देवता अष्टादशसहस्रशीलाङ्गधारकाः साधवो गुरवो जिनोद्दिष्टा जीवादय एव तत्त्वानीतिश्रद्धानहेतुरात्मपरिणामः, KA तच्च नवभेदं, व्रतानीति-पञ्चाणुव्रतानि त्रीणि गुणव्रतानि चत्वारि शिक्षाव्रतानि विरतिरूपाणि प्रत्येकं नवभेदानि, संलेखना-मारणान्तिकी शरीरकषायादीनां झोषणां नवप्रकारां, सर्वाण्येतानि मिथ्यात्वादीनि प्रत्येकं 'नवभेदानि' नवद्वाराणि 'वक्ष्ये' अभिधास्ये, भेदाश्च नव उत्तरगाथायामभिधास्यन्ते, एषां च | मिथ्यात्वादीनामनेनैव क्रमेण भावात्प्रकरणकारेणैवमुपन्यासो विहितः, तथाहि-सर्व एवायं जीवो नारकतिर्यङ्नरामरगतिविविधविभीषिकारौद्रै शब्दादिपञ्चविधविषयसुखलम्पटप्राणिगणोपदर्शितनानाविधाधिव्याधिजीवमधुमक्षिकाकीर्णतुच्छतमकामसौख्यक्षौद्रे जन्ममरणप्रमुखदुःखश्वापदबिभीषणे संसारारण्ये | पूर्वमसुन्दराचरणकारणेन मिथ्यात्वकुटिलसहचरेणैव भ्राम्यते, न च तदा कश्चिदेवं जानाति-यदुतैष एवममैवंविधभीषणस्थाननिवासजनितानन्तदुःखसम्पातहेतुः, केवलं तमेव बहु मन्यते, पश्चाच्च कस्यचिज्जीवस्यानाभोगनिवर्त्तितागिरिसरिटुपलघोलनाकल्पयथाप्रवृत्तकरणमित्रकथिततद्दोषस्यैव तद्विभूतिमिवोत्कृष्टस्थिति सप्ततिसागरोपमकोटीकोटीलक्षणामपहतवतोऽतिचिरपरिचितोऽयं मे समस्तापहारेण माऽत्यन्तविलक्षो भूदितीव संचिन्त्य तस्य किञ्चिद्रविणशेषायमाणामेकां सागरोपमकोटीकोटी किञ्चिदूनां तथैव धृतवतो निवृत्तिनगरीनिवासार्थिनस्तन्मार्गनिवेदकाप्तुपुरुषयोगमभिलषतः प्राप्तावसरसमागतापूर्वकरणानिवृत्तिकरणसन्नरोपदर्शितोऽक्षेपतत्प्रापकः सम्यक्त्वसन्मार्गलाभो जायते, तदनन्तरं च पल्योपमपृथक्त्वमात्रे कालेऽतिक्रान्ते स्थूलप्राणातिपातादिदेशविरतिः संपद्यते, तथा चागमः-"संमत्तंमि उलद्धे पलियपुहुत्तेण सावओ होइ। चरणोवसमखयाणं सागरसंखंतरा हुंति ॥१॥" त्ति, प्राप्तसम्यक्त्वदेशविरतिश्च मरणान्तसंलेखनामाराधयत्यतो युक्त एवैवमुपन्यासः, 'मिथ्यात्वादीनि वक्ष्य' इत्येतावता च ग्रन्थान्तरोदितार्थानुवादकतया मा भूदनारम्भणीयत्वमस्येत्यभिप्रायवानाह-'नवभेदानी'ति, अयमर्थः-यद्यपि श्रावकप्रज्ञप्त्यादिप्रकरणेष्वपि मिथ्यात्वादयः पञ्चदश पदार्थाः कयाऽपि भङ्ग्या प्रतिपादितास्तथाऽपि
k87॥३॥
Jain Educati
o nal
For Personal & Private Use Only
www.aor brary.org