SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति:मू.देव. ... यशो ॥२॥ वृत्तिर्यद्यपि विद्यतेऽत्र विहिता तैरेव पूज्यैः स्वयं, सङ्क्षेपेण तथापि सा न सुगमा गम्भीरशब्दा यतः । मंगलाभिधे विस्पष्टार्थपदप्रबन्धरुचिरा तेनेयमारभ्यते, किञ्चिद्विस्तरशालिनी तनुधियामिच्छानुवृत्त्या मया ॥६।। यादि यच्चासमञ्जसं किञ्चिज्जायतेऽत्र प्रमादतः । पुत्रापराधवत्सर्वं, तद्रुधैर्मम सह्यताम् ।।७।। निर्देशः इह चादावेव प्रकरणकारोऽभीष्टदेवतास्तवमभिधेयादित्रयं च प्रतिपादयितुकामो गाथामाहनमिऊण वद्धमाणं मिच्छं सम्मं वयाई संलेहा । नवभेयाई वोच्छं सट्टाणमणुग्गहठ्ठाए ॥१॥ न चैतद्वक्तव्यम्-अभीष्टदेवतानमस्कारस्यानर्थकत्वादप्रस्तुतत्वाच्च अभिधेयादीनां चानधिगतशास्त्रस्य प्रत्याययितुमशक्यत्वादयुक्तमादावेव तत्प्रतिपादनमिति, यतः शिष्टानामयमेव समयो यदुत तैरभीष्ठे वस्तुनि प्रवर्त्तमानैरवश्यमिष्टदेवतास्तवपूर्वकं प्रवर्त्तितव्यं, यथोक्तम्- "शिष्टानामेष समयस्ते सर्वत्र शुभे किल । प्रवर्त्तन्ते सदेवेष्टदेवतास्तवपूर्वकम् ॥१॥" इति, तथा च शिष्टसमाचारपरिपालनमस्य प्रयोजनमतोऽनर्थकत्वादित्यसिद्धो हेतुः, अप्रस्तुतत्वादित्यप्यसिद्धं, श्रेयोभूतस्य शास्त्रस्य संभाव्यमानविघ्नोपशान्तिहेतुतया नमस्कारस्य प्रस्तुतत्वात्, तथा चोक्तम्-"बहुविग्घाई सेयाई तेण कयमंगलोवयारेहिं । सत्ये पयट्टियव्यं विज्जाएँ महानिहीएव्व ॥१॥' अभिधेयादीनां चानवगतसकलशास्त्रस्याप्येतद्गणने निरस्तनिरभिधेयत्वाद्याशङ्कस्य प्रवृत्त्यङ्गत्वाद्युक्तमादावुपादानं, तथा चोक्तम्-"प्रेक्षावतां प्रवृत्त्यर्थं, फलादित्रितयं स्फुटम् । मङ्गलं चैव शास्त्रादौ, वाच्यमिष्टार्थसिद्धये ॥१॥" येऽपि शास्त्रे श्रोतृजनप्रवृत्त्यङ्गतया प्रयोजनं मुख्यमिच्छन्ति “अनिर्दिष्टफलं सर्वं, न प्रेक्षापूर्वकारिभिः । शास्त्रमाद्रियते तेन, वाच्यमग्रे प्रयोजनम् ॥१॥ सर्वस्यैव हि शास्त्रस्य, कर्मणो वाऽपि कस्यचित् । यावत्प्रयोजनं नोक्तं, तावत्तत्केन । गृह्यताम् ? ॥२॥" इत्युक्तिप्रामाण्यात् तेऽप्यभिधेयादित्रयमेव परमार्थतः प्रवृत्तिकारणमङ्गीकृतवन्तः, तथाहि-शास्त्रमनिर्दिष्टप्रयोजनं प्रेक्षावद्भिर्नाद्रियत | इति ब्रुवाणैरभिधेयमपि प्रयोजनाक्षिप्तत्वात् प्रवृत्त्यङ्गतयोपात्तमेव, नहि निरभिधेयस्य प्रयोजनं वक्तुं शक्यं, यदुक्तम्-"न चाप्यविषयस्येह, शक्यं वक्तुं प्रयोजनम् । काकदन्तपरीक्षादेस्तत्प्रयोगाप्रसिद्धितः ॥१॥" इति सम्बन्धस्त्वभिधेयप्रयोजनान्तर्गत एवेति पृथगनुक्तोऽपि सामर्थ्याद्गम्यते, यदुक्तम्-"शास्त्रं प्रयोजनं चेति, सम्बन्धस्याश्रयावुभौ । तदुक्त्यन्तर्गतस्तस्माद्भिन्नो नोक्तः प्रयोजनात् ।।१।।" अतोऽभिधेयादिप्रतिपादनमपि ॥२॥ शास्त्रादौ श्रोतृप्रवृत्त्यङ्गत्वादविरुद्धमेवेति । अस्याश्चाद्यपादेनेष्टदेवतानमस्कारः शेषपादत्रयेणाभिधेयप्रयोजने साक्षात् सम्बन्धस्त्वर्थादुक्त इति समुदायार्थो, Jain Educat lemaboral For Personal & Private Use Only wwityairnelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy