________________
नवपदवृत्ति:मू.देव. व. यशो ॥१॥
॥ अर्हम् ॥ पू.आ.श्री विजयकर्पूरसूरिभ्यो नमः
श्रीमद्देवगुप्तसूरिवर्यनिर्मितं श्री मद्यशोदेवोपाध्यायनिर्मितवृत्तियुतम् ।
(॥ श्रीमन्नवपदप्रकरणं ॥)
नमो जिनाय कल्याणकराय ।।
शुद्धध्यानधनप्राप्त्या, कर्मदारिद्र्यविद्रुतौ । निर्वृतिः साधिता येन, तं नमामि जिनप्रभुम् ।।१।। जयति जितकर्मशत्रुर्लब्धातुलमहिमकेवलपताकः । त्रिदशासुरकृतपूजः स तत्त्वनिर्वादको वीरः ।।२।। यस्याः प्रसादयानेन, लीलया ज्ञेयसागरम् । तरन्ति विबुधाः सा मे, सन्निधत्तां सरस्वती ।।३।। मम बुद्धिकुमुदिनीयं यत्सङ्गमशशधरोदये सद्यः । अलभत विकासमसमं तान् भक्त्या निजगुरूनौमि ।।४।। श्रीदेवगुप्तसूरिविरचितवान् नवपदप्रकरणं यत् । विवृति तस्य विधित्सुर्विज्ञपये सज्जनानेवम् ।।५।।
| ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org