SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ नवपदत्तेःम.देव. यशो २८९॥ इति संस्तार:-कुशकम्बल्यादिरूपस्तत्प्रधाना दीक्षा-सर्वसंयमोपादानेन चित्तशिरस्तुण्डमुण्डनं संस्तारदीक्षा, प्रत्युपेक्षणादिक्रियाकलापासमर्थस्य अन्त: सर्वसावधनिवृत्तिप्रतिज्ञाऽध्यवसायेन बहिस्तु रजोहरणमुखानन्तकादिसाधुवेषधारणेन संस्तारकेऽवस्थानमित्यर्थः, सा ग्राह्येति शेषः, तथा चोक्तम्-"धर्मावश्यकहानौ वा मरणे वाऽप्युपस्थिते । संलिख्य तपसाऽऽत्मानं, संयमं प्रतिपद्यते ।।१।। अर्हतां जन्मनिर्वाणचैत्यस्थाने प्रतिश्रये । तदलाभे गृहेष्वेवारण्ये जन्तुविवर्जिते ।।२।।" इति उपलक्षणं चेयमनशनादेः, ततो जिनभवनादौ संस्तारदीक्षाग्रहोऽनशनादि वाऽङ्गीकार्य, इह चानशनस्य नियमात्सप्रतिकर्मत्वादेतदङ्गीकरण एव विशेषविधिमाह-'निज्जावया अडयाल' त्ति निर्यापयन्ति-अनशनिनं सुखे स्थापयन्तीति निर्यापका:-प्रतिचारका: 'तु' पुनरर्थे, कियन्तः? अष्टभिरधिका: चत्वारिंशदष्टचत्वारिंशत्, कार्या इति शेष:, किंरूपा एते कार्याः? इत्याह-'प्रियधर्मादिसमेताः' भावप्रधानत्वानिर्देशस्य प्रियधर्मत्वादिभिर्गुणैः समेतायुक्ताः, आदिशब्दाद् दृढधर्मत्वादयो गृह्यन्ते, तथा चोक्तं- “पासत्थोसन्नकुसीलठाणपरिवज्जिया उ गुणजुत्ता। पियधम्मवज्जभीरू अडयालीसं KA तु निज्जवगा ॥१॥ उव्वत्त १ दार २ संथार ३ कहग ४ वाई ५ य अग्गदारंमि। ६ भत्ते ७ पाण ८ वियारे ९-१० कहग ११ दिसा जे समत्था १२ य ॥२॥ एएसिं तु पयाणं चउक्कगेणं गुणिज्जमाणाणं । निज्जावगाण संखा होइ जहासमयणिट्ठिा ॥३॥" तत्र येऽनशनिनमुद्वर्त्तयन्ति परावर्त्तयन्ति च ते चत्वारः ‘उव्वत्त' त्ति प्रथमपदेन निर्दिष्टाः, ये चाभ्यन्तरद्वारमूले तिष्ठन्ति तेऽपि चतुःसङ्ख्या : 'दार' त्ति द्वितीयपदेन सूचिता: २, एवं 'संथार' त्ति संस्तारकर्तारः ३, “कहग' त्ति तस्यैव विदितवस्तुतत्त्वस्यापि धर्मकथका: ४, ‘वाइय' त्ति वादिनः ५ 'अग्गदारंमि' त्ति अग्रद्वारमूले ये तिष्ठन्ति ६, भत्ते' ति तदुचितभक्तानयनयोग्या: ७, 'पाण' ति पानानयनयोग्या: ८, "वियार' त्ति उच्चारपरिष्ठापका: ९, प्रश्रवणपरिष्ठापकाश्च १०, 'कहग' त्ति बहिर्धर्मकथका: ११, 'दिसा जे समत्था य' त्ति दिशासु पूर्वाद्यासु चतसृष्वपि ये समर्थाः सहस्रयोधिप्रभृतयः, एकैकसङ्ख्यया क्षुद्रोपद्रवनिवारणाय ध्रियन्ते तेऽनेनैव सूचिता: १२, अत्र चैके सूरय एवमाचक्षते-उच्चारप्रश्रवणयोर्द्वयोरप्येके परिष्ठापका इति चत्वार एवामी, तन्मतेन दिशासु प्रत्येकं द्वौ द्वौ द्रष्टव्याविति न यथोक्तसङ्ख्याबाधेति, अथैतावन्त एते कस्यचिन्न भविष्यन्ति तहकैकहान्याऽपि ते कर्तव्या यावज्जघन्यपदनैकोऽनशनिन: समीपमशून्यं करोति, अन्यस्तु भक्तपानाद्यर्थं पर्यटतीति द्वौ, एकेन तु निर्यापकेन न कर्त्तव्यैवानशनप्रतिपत्तिः, यदुक्तम्“एगो जइ निज्जवओ, अप्पा चत्तो परो पवयणं च । सेसाणमभावेऽविहु ता बीओऽवस्स कायव्वो ॥१॥" त्ति, य एवंविधसामग्र्या प्रियते तस्य किं स्यात् ? इत्याह-'चतुरङ्गाराधको मरण' इति मानुषत्वश्रुतिश्रद्धासंयमवीर्याख्यानि चत्वारि धर्मप्रतिपत्तेरङ्गानि-कारणानि तेषामाराधको ॥२८९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy