________________
नवपद
चि.मू. देव. व. यशो
। २९० ।।
Jain Edu
मरणकाले भवेदिति शेष इति गाथार्थ: ।। भेदद्वारमधुना
मरणं सत्तरसविहं, नाउं तत्थंतिमाइ मरणाई । पायवइंगिणिमरणं, भत्तपरिण्णं च कायव्वं ॥ १३०॥
मृतिः मरणं दशविधप्राणप्रहाणलक्षणं 'सप्तदशविधं' सप्तदशसङ्ख्यप्रकारमावीच्यादि, तदुक्तम् - " आवीइ १ ओहि २ अंतिय ३ वलायमरणं ४ वसट्टमरणं ५ च । अंतोसल्लं ६ तब्भव ७ बालं ८ तह पंडियं ९ मीसं १० || १|| छउमत्थमरण ११ केवलि १२ वेहाणस १३ गद्धपट्टमरणं १४ च । मरणं भत्तपरिण्णा १५ इंगिणी १६ पाओवगमणं १७ च ॥ २॥ 'आवीइ' त्ति वीचि:-विच्छेदो न विद्यते वीचिः यत्र तदवीचि तच्च तन्मरणं च मरणशब्दस्य प्रत्येकं सम्बन्धादवीचिमरणं, तच्च नारकादिचतुर्गतिवर्त्तिनां जीवानामुत्पत्तिसमयादारभ्यानुक्षणानुभवनेन निजनजायुः कर्मदलिकपरिशटनरूपं, ‘ओहि’त्ति अवधि:- मर्यादा द्रव्यादिरूपा तेन मरणमवधिमरणं, यन्नारकादिभवनिबन्धनायुः कर्मदलिकाद्यनुभवनपूर्वकं मृतस्य भूयोऽपि भवान्तरवर्त्तिनस्तदनुभवपुरस्सरं मरणं तद्द्रव्यावधिमरणं, न चासंभवि गृहीतोज्झितानां कर्मदलिकादीनां पुनर्ग्रहणं, परिणामवैचित्र्यात्, 'अंतियं' ति अन्ते भवमन्त्यं तच्च तन्मरणं चान्त्यमरणं, यदुपात्तनारकाच्चायुष्कर्मदलिकाद्यनुभवनेन विवक्षितभवे मरणे सति पुनस्तान्येवायुर्दलिकद्रव्यादीन्यनुभूय भवान्तरे मरणं न भवति तदन्त्यमरणं, 'वलायमरणं' ति भग्नव्रतपरिणतीनां व्रतिनां शुभाध्यवसायतो वलयता- व्याघुट्यमानानां मरणं वलन्मरणं, 'वसट्टमरणं च' त्ति दीपशिखावलोकनाकुलितपतङ्गस्येवेन्द्रियविषयवशार्त्तस्य मरणं वशार्त्तमरणं, 'अंतोसल्लं' ति मायानिदानमिथ्यादर्शनानि जीवस्य दुःखहेतुत्वाच्छल्यानीव शल्यानि तद्युक्तस्यानालोचिताप्रतिक्रान्तस्य मरणमन्तः शल्यमरणं, तदुक्तम्- "गारवपंकनिबुड्डा अड्यारं जे परस्स न कहंति । दंसणनाणचरित्ते ससल्लमरणं भवे तेसिं ॥१॥” परस्येत्याचार्यादेः । " एयं ससल्लमरणं मरिऊण महब्भए तह दुरंते । सुइरं भमंति जीवा दीहं संसारकंतारं ॥१॥” 'तब्भवति तद्भव एव मरणं तद्भवमरणं, विवक्षितभव एव मुक्तिगामिनां जीवानां यत्तदित्यर्थः, ते च गर्भजमनुष्याः सङ्ख्यातवर्षायुषः कर्मभूमिजा एव केचिदिति, 'बालं' ति बालमरणर्मावरतसम्बन्धि, 'तह पंडियं' ति तथा पण्डितमरणं यत्सर्वविरतानां, 'मीसं' ति मिश्रमरणं देशविरतानां, 'छउमत्थमरणं' ति छादयति-आवृणोति जीवस्य ज्ञानादिपरिणाममिति छद्म-घातिकर्म तत्र तिष्ठन्ति ये ते छद्मस्थास्तेषां मरणं छद्मस्थमरणं, मत्यादिज्ञानिमरणमित्यर्थः, 'केवलि' त्ति केवलं संपूर्णं ज्ञानं क्षायिकं तद्विद्यते येषां ते केवलिनस्तेषां मरणं केवलिमरणं, 'वेहाणसं' ति विहायो नभस्तत्र भवं वैहायसं, यदुद्बन्धनेन नभसि लम्बमानस्य मरणं तद्वैहायसमरणं, 'गद्धपट्टमरणं च त्ति यदुत्पतन्निपतद्गृधादिपतत्त्रिसंकुलायां प्रचुरतरकरंकसंकीर्णश्मशानभूमौ निपत्य
International
For Personal & Private Use Only
मरणभेदाः
गा. १३०
९॥२९०॥
helibrary.org