________________
नवपदवृत्ति: मू. देव. वृ. यशो
।। २८८ ।।
सूनुः संजातः, स च कालक्रमेण चक्री संपन्न, इतरेऽपि वैरसेनस्य सूनवः केशववर्जाः क्रमेण बाहुसुबाहुपीठमहापीठनामानो माण्डलिका राजानो जज्ञिरे, वैरसेनोऽपि प्रतिपन्नदीक्षो वज्रनाभस्य चक्रोत्पत्तिकाले केवलज्ञानमवाप्य धर्मतीर्थं प्रवर्त्तितवान्, केशवजीवस्तु वज्रनाभचक्रिणः सारथिर्बभूव, केनापि कालेन सोऽपि समं तैश्चतुर्भिर्भ्रातृभिः सारथिना च भगवतो वैरसेनतीर्थकरस्य स्वपितुरन्तिके दीक्षां प्रपेदे, तेषां च मध्ये वज्रनाभश्चतुर्दशपूर्वधर इतरे चैकादशाङ्गविद आसन्, प्रभूतकालं च श्रामण्यं परिपाल्याराधितसमाधिमरणा उत्पेदिरे च सर्वेऽपि सर्वार्थसिद्धे महाविमाने देवेत्वेन, स्थितिस्तत्र त्रयस्त्रिंशत्सागरोपमाणि, तत्क्षये च प्रथमं वज्रनाभजीवोऽजनि नाभिकुलकरसुतत्वेन, बाहुप्रभृतिजीवास्तु क्रमेण तस्यैव भरते बाहुबलिब्राह्मी सुन्दरीभावेन जाता:, सारथिजीवस्त्वहं श्रेयांसः समजनि, तदेवमहो लोकाः ! मया पूर्वमेव पुण्डरीकिण्यां वैरसेनस्तीर्थकरो दृष्टः, श्रुतं च तत्समीपे यथैष वज्रनाभो भारतक्षेत्रे तीर्थकरो भविष्यति, ज्ञातश्च तदा तदन्तिकप्रव्रजितेनैष दानादिविधि:, केवलमेतावन्ति दिनानि भवान्तरस्मरणं नासीत्, अद्य तु परमेश्वरावलोकनोपजातजातिस्मरणस्य सर्वमिदं प्रकटमभूत्, ततः कारितो मया भगवानेवं पारणकं, येऽपि सुरशैलादिस्वप्ना अस्मदादिदृष्टाः समागतेन मत्पित्रा विचारयितुमुपक्रान्तास्तेषां मध्ये तदेव पारमार्थिकं फलं यत्सवंत्सरानशनं शुष्यमाणमूर्त्तेः तातस्य पारणकविधापनेन कर्मशत्रुविजये साहाय्यकरणकमिति, एतच्चाकर्ण्य जनोऽभिवन्द्य तं स्थानमुपगतः स्वं स्वं श्रेयांसोऽपि च भक्त्या यत्र प्रतिलाभितो भगवान् मा क्रमिषीदत्र जनः पदानि तातस्य निजकपादाभ्यामिति तत्र दिव्यरत्नैः सत्पीठं कारयामास, पृष्टश्च जनेनोचे-नन्विदमादिकरमण्डलं, तदनु स्वस्वगृहेषु जनोऽपि च यत्र जिनः पारणं चक्रे तत्र तथाविधपीठं विधाप्य सन्ध्यात्रयेऽपि पूजयति, कालेन ख्यातिमगात् तच्चेहादित्यमण्डलकं, श्रेयांसः पात्रदानानुभावसंपद्यमानोत्तरोत्तरकल्याणकलापः सुचिरमनुभूयसांसारिकसुखं भगवत आदितीर्थकरस्य जातायां केवलज्ञानोत्पत्तौ भगवत्समीप एव गृहीतव्रतः परिपालयन्निरतिचारं श्रामण्यं क्षपकश्रेणिक्रमेण विधाय घनघातिकर्मक्षयमुत्पाटितविमलकेवलज्ञानः कालक्रमेण क्षपितभवोपग्राहिकर्मचतुष्को विहाय शरीरं गतो मोक्षम् ।। इति श्रेयांसकथानकं समाप्तम् ।।
प्रकृतद्वारगाथाभावार्थस्त्वयं यथा श्रेयांसेन भावनासारं पात्रदानमनुष्ठितं तथाऽन्येनाप्यनुष्ठेयमिति ।। व्याख्यातं नवभिरपि द्वारैरतिथिसंविभागव्रतं, तद्व्याख्यानाच्च समाप्तानि चत्वारि शिक्षापदानि, तत्समाप्तौ द्वादशापि व्रतानि भणितानि, सम्प्रति संलेखना नवभिद्वरैिर्वाच्येति प्रथमद्वारेण तावदभिधीयतेजिणभवणाइसु संथार दिक्ख निज्जावयाओ अडयाला । पियधम्माइसमेया, चउरंगाराहओ मरणे ।। १२९ ।। 'जिणभवणाइसु संथार दिक्ख' त्ति जिनभवनम् अर्हदाश्रयः आदिशब्दाज्जिनजन्मभूम्यादिग्रहस्तेषु जिनभवनादिषु संस्तीर्यते - स्वापार्थं वितन्यते
For Personal & Private Use Only
Jain Educatenational
स्वरूपं
गा. १२९ नियामकाः
॥२८८॥
www.brary.org