SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ग्राहका एव न भवन्ति, यदुक्तम्-“काले दिण्णस्स पहेणयस्स अग्यो न तीरए काउं। तस्सेवाथक्कपणामियस्स गेण्हंतया नस्थि ॥१॥" नवपद भावनाद्वार वृत्ति:मू.देव. 'अथक्क'त्ति अप्रस्तावः, अत एवैवमुपदेश:- सत्पात्रं महती श्रद्धा, काले देयं यथोचितम् । धर्मसाधनसामग्री, नाल्पपुण्यैरवाप्यते ।।१।। एवं चैतान् र गा.१२८ 'अतिचारान्' प्रस्तुतव्रतमालिन्यरूपान् ‘पंचे 'ति पञ्चसङ्घयान् ‘वर्जयेत्' त्यजेत्, अतिचारभावना तु यदा अनाभोगादिनाऽतिक्रमादिना वैतानाचरति तदा श्रेयांसवृ. यशो ॥२८२॥ अतिचारा अमी, अन्यथा तु भङ्गा एवेति गाथार्थ: ।। इतोऽस्यैव भङ्गद्वारगाथा चरित्रं दाणंतरायदोसा न देइ दिज्जंतयं च वारेइ। दिन्ने वा परितप्पड़, किविणत्ताओ भवे भंगो ॥१२७।। ___दानस्यान्तरायो-विघ्नो दानान्तरायस्तस्य दोष: तद्धत्वन्तरायकर्मोदयलक्षणः, अथवा दानविघ्नहेतु: कम्मैव दानान्तरायशब्देनोच्यते, तत: स Kएव जीवदानाध्यवसायदूषणाद्दोषो दानान्तरादोषस्तस्मात् 'न ददाति' न प्रयच्छति, स्वीकृतेऽप्यतिथिसंविभागवत इति गम्यते, 'दीयमानं' दानयोग्यमन्नादि साध्वादीनां वितीर्यमाणम्, अन्येन दृष्ट्वेति शेष: वाशब्दो विकल्पार्थः, 'वारयति' निषेधयति, 'दत्ते' वितीर्णे सति वा पूर्ववत् ‘परितप्यते' किमेतन्मया दत्तं, बहु वा दत्तमित्येवं पश्चाद्यते, कस्मात् ?-'कृपणत्वात्' कार्पण्याद्धेतोः, यत्तदोर्नित्यसम्बन्धाद् य एवं करोति तस्य किमित्याह-'भवेत्' जायेत 'भङ्गः' विनाशः, प्रक्रान्तव्रतस्येति गम्यमिति गाथार्थ: ।। भावनाऽधुनोच्यते धण्णा य पुण्णवंता तेसिं सफलं च जीवियं लोए । सेज्जंसो इव दाणं भत्तीए देंति पत्तेसु ॥१२८॥ धनं लब्धारो धन्या:- समृद्धिमन्तः, 'च' समुच्चये, स चाग्रे योज्यः, न केवलं धन्याः, 'पुण्यवन्तश्च' सुकृतिनश्च ते इतिशेषः, तथा 'तेषां' प्राणिनां 'सफलं च' सप्रयोजनं च 'जीवितं' असवो 'लोके' जगति, ये इति तत्सम्बन्धादेव गम्यं, ये 'श्रेयांस इव' बाहुबलिपौत्रक इव दान 'भक्त्या' भावेन 'ददति' दिशन्ति 'पात्रेषु' संसारगर्त्तानिपतज्जन्तुजातमात्मानं च जिनवचनयथावस्थितानुष्ठायितया पान्ति-रक्षन्तीति पात्राणि-साधवस्तेष्विति गाथाऽक्षरार्थ:, भावार्थस्तु कथानकात्समधिगम्यः, तच्चेदम् भारतवर्षमध्यखण्डालङ्कारभूते गजपुराभिधानपत्तने सप्तमकुलकरनाभमरुदव्यास्तनूजस्य प्रथमवात्ततसकललोकनीते: श्रीमदादितीर्थकरस्य सुनन्दादेव्याश्च K पौत्र: स्वपितृवितीर्णतक्षशिलाराजधानीनायकस्य बाहुबलिन: पुत्र: सोमप्रभो नाम नरपतिरासीत्, तस्य चातिशायिरूपलावण्यसौभाग्यादिगुणगणावाप्तकीर्तिविस्तरो ॥२८२॥ विस्तरदमन्दराज्यलक्ष्मीसमुचितसमस्तशस्तलक्षणश्रेयांस: श्रेयांसनामाङ्गजो युवराजो बभूव, तेन च कदाचिद्रजन्याश्चरमयामे सुख शय्याप्रसुप्तेन स्वप्नो Jain EducaTemaboral For Personal & Private Use Only ww.ightibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy