________________
महाविमाने सुरत्वेन ||५|| तत्राजघन्योत्कृष्टं त्रयस्त्रिंशत्सागरोपमाण्यायुः परिपाल्य ततश्च्युतौ महाविदेहे सेत्स्यत इति । एवं सुखावलीनां हेतुः खल्वतिथिसंविभागोऽयम् । मोक्षफलः कर्त्तव्यो यथा कृतः शालिभद्रेण ॥ १ ॥ इति श्रीशालिभद्रकथानकं समाप्तमिति । यतनाद्वारमधुनोच्यतेजं साहूण न दिन्नं कहंचि तं सावया न भुंजंति । पत्ते भोयणसमए दारस्सऽवलोयणं कुज्जा ।। १२५ ।।
यत् 'साधुभ्यः' तपस्विभ्यः 'न दत्तं' नो वितीर्णं, कल्प्यमिति शेषः, 'कथञ्चित्' केनापि प्रकारेण, 'कहिंपी' ति पाठे क्वापि देशे काले वा, तत् 'श्रावका: ' यथावस्थितनामान: श्राद्धा:, तथा च श्रावकशब्दस्यैवं व्युत्पत्तिः श्रावकप्रज्ञप्त्यादिषु, यथा- "संपत्तदंसणाई पइदियहं जड्जणा सुणेई य। सामायारिं परमं जो खलु तं सावगं बिंति ॥ १॥” तथा “ श्रवन्ति यस्य पापानि, पूर्वबद्धान्यनेकशः । आवृतश्च व्रतैर्नित्यं श्रावकः सोऽभिधीयते ॥ १॥ न भुञ्जन्ते' नाभ्यवहरन्ति यदुक्तम्- “साहूण कप्पणिज्जं, जं नवि दिन्न कहिंपि किंचि तहिं । धीरा जहुत्तकारी सुसावगा तं न भुंजंति ॥ | १ || " ननु तत्र ग्रामादिक्षेत्रादौ यदि कथञ्चिद्व्रतिनो न भवन्ति तदा का वार्त्ता ? इत्याह- 'प्राप्ते भोजनसमये' जाते भुक्तिप्रस्तावे ' द्वारस्यावलोकनं कुर्यात्' गृहद्वारसंमुखं पश्येत्, यदीदृश्यवसरे कश्चित्तपोधनो धर्मबान्धवः समभ्येति तदा तस्मै ग्रास महती निर्जरा भवतीत्यभिप्रायवानिति गर्भार्थ:, न चेदमपि गाथाशकलं स्वमनीषया व्याख्यायते, यदाह धर्मदासगणिः - "पढमं जईण दाऊण अप्पणा पणमिण पारे । असई य सुविहियाणं भुंजइ य कयदिसालोओ || १||" त्ति प्रकृतव्रतयतना, भावना चेयं साधुदत्तशेषं श्रावकैर्भोक्तव्यं, साध्वभावे च भोजनवेलायां दिगालोकनं कार्यं, न त्वित्थमेव भोज्यमिति गाथाऽक्षरार्थः । संप्रत्यस्यैवातिचारद्वारगाथोपन्यस्यते
सच्चित्ते निक्खिवणं पिहृणं ववएसमच्छरं चेव । कालाइक्कमदाणं अइयारे पंच वज्जेज्जा ॥ १२६ ॥
'सचित्ते' सचेतने वस्तुनि पृथिव्यादौ 'निक्षेपणं' न्यसनं साधुदेयभक्तादेरदेयबुद्ध्या स्थापनमित्यर्थ, तथा 'पिधानं' स्थगनं सचित्तेनैव बीजपूरफलादिना, साधुदेयभक्तादेरदेयबुद्धयैवोपरि फलादिधरणं, तथा व्यपदेशश्च मत्सरश्च व्यपदेशमत्सरं समाहारत्वादेकवचनं, तत्र व्यपदेशो नाम | व्याजोक्तिः - परकीयमिदमन्नादिकमित्येवमदित्सया साधुसमक्षं भणनं, यद्वा मातुः पित्रादेर्वा पुण्यं मदीयदानेन भवत्विति भणनं व्यपदेशः, मत्सरस्तु| असहनं साधुभिर्याञ्चायां कृतायां कोपकरणं, तेन रङ्कणापि याचितेनेदं दत्तम् अहं तु किं ततोऽपि न्यूनः ? इति विकल्पो वा, 'चेव' त्ति समुच्चये, तथा कालस्य प्रस्ततसाधभिक्षावेलारूपस्यातिक्रमः - अदित्सयाऽनागतभोजनपश्चाद्भाजनद्वारेणोल्लङ्घनं कालातिक्रमस्तेन दानं कालातिक्रमदानं, अस्मिंश्च क्रियमाणे
Jain Education International
For Personal & Private Use Only
नवपदवृत्ति: मू. देव. वृ. यशो
।। २८१ ।।
॥२८१ ॥
www.jainerbrary.org