________________
नवपदवृत्ति:मू.देव. वृ. यशो ॥२८३॥
दृष्टो, यथा-मया सुरशैल: श्यामायमानः सन् अमृतकलशैरभिषिक्तोऽधिकतरं दीपितुमारेभे, इतश्च तस्यामेव वेलायां तत्र वास्तव्यस्तथैव सुबुद्धिश्रेष्ठी सोमप्रभनृपश्च स्वप्नं दृष्टवन्तौ, तत्र-श्रेष्ठी दिनकरबिम्बं रश्मिसहस्राद् वियुज्यमानमलम् । श्रेयांसेनायोजितमपश्यदधिकं विराजन्तम् ।।१।। राजा तु दिव्यपुरुषं स्वप्नेऽद्राक्षीदरिप्रबलसैन्यैः । युद्धे परिभूतमथ श्रेयांसवितीर्णसाहाय्यम् ।।२।। शत्रुतति जितवन्तं प्रात: सर्वेऽपि सदसि संमिलिताः । | स्वप्नार्थमजानन्तो जल्पितवन्तो यथा किमपि ।।३।। कल्याणमहो? भविता श्रेयांसस्याधिकं तत: सर्वे । स्वं स्वं स्थानं जग्मुधृतिमन्तस्तेन वचनेन ।।४।। श्रेयांसकुमारोऽपि राजसभात: समागत: समारूढः स्वकीयं सप्तभूमिकं प्रासाद, तत्र गवाक्षगतो यावदक्षिपद्दिक्षु चक्षुस्तावद्ददर्श भगवन्तं त्रैलोक्यचूडामणिमिक्ष्वाकुकुलतिलकं भिक्षादानानभिज्ञलोकेन कन्याधनादिभिहे गृहे निमन्त्र्यमाणं गोचरचर्यया नगरमध्यमागच्छन्तं निजपितृपितामहमादितीर्थकरं संवत्सरोपवासशोषितशरीरं वृषभस्वामिनम्, एवंविधाकृतिरन्यत्रापि मया दृष्टपूर्वा क्वचिद् एवमीहापोहमार्गणापरायणस्योदपादि जातिस्मरणम्, अजनि च क्षणमात्र मूर्छा, सकर्पूरचन्दनरसाद्यभिषिक्तस्य व्यजनादिवातवीजितस्य च संपन्ना चेतना, तत: प्रासादादवतीर्णः प्राङ्गणभुवम्, अत्रान्तरे भगवानपि समागतस्तदीयमन्दिरद्वारम्, इतश्च समानीता: कैश्चिदिक्षुरससंपूर्णाः कुम्भा ढौकनीयकृते, समर्पिता: कुमारस्य, तेनाप्यादायैककलशं तन्मध्यात्स्वहस्तयुगलेन धन्योऽहं यस्यैतावती समग्राऽपि सामग्री संमिलिता, यत:-"क्व प्राप्तस्तीर्थनाथोऽर्थी, सत्पात्राधिपतिर्गृहम् ? । क्व वा प्राभृतमायातो, देय इक्षुरसोऽनघ: ? ॥१॥ उल्ललास कथं वा मे, भक्तिरत्रातिनिर्मला ? । अहो ! सत्पुण्ययोगेन, सोऽयं त्रितयमीलकः ॥२॥" इत्यादि चिन्तयता प्रणम्य तीर्थकरमवादि-यथा भगवन् ! उपादीयतामयं सर्वदोषविशुद्धो ममानुग्रहनिमित्तमिक्षुरसो यधुपकुरुते, परमेश्वरेण च विहितद्रव्याधुपयोगेनानुत्सुकमानसेन मौनस्थितेनैव प्रसारित: पाणिपुट:, पर्यस्त: श्रेयांसेन तत्रेक्षुरस:, स्वामिनस्त्वचिन्त्यतीर्थकरनामकर्मानुभावेन करपुटक्षिप्यमाणेक्षुरसस्य शिखैव ववृधे, न त्वधो बिन्दुरपि पपात, तदुपयोगेन समाश्वस्तशरीरो बभूव संवत्सरानशनोपतप्तकायस्तीर्थकरो, न चालक्ष्यत केनाप्याहारयन्नसौ, यतो जन्मप्रभृत्येवैते गुणास्तीर्थकृता, यथा-देहः प्रस्वेदामयविवर्जितो नीरजा सुरभिगन्धः । गोक्षीरसमं रुधिरं निर्विश्रसुधासितं मांसम् ।।१।। आहारो नीहारो लक्ष्यो नच मांसचक्षुषाऽमुष्यः । नि:श्वास: फुल्लोत्पलसमानगन्धोऽतिरमणीयः ।।२।। अस्मिंश्चावसरे हर्षभरनिभरैर्गगनवर्तिभिस्त्रिदशादिभिर्ममचे समं गन्धोदकेन पञ्चवर्णो वृन्तस्थायी कुसुमवर्षः, समाहताः सजलजलधरोदारगर्जितानुकारिनिजध्वानबधिरितभुवनविवरा दुन्दुभयः, कृतः पवनविलुलितध्वजाञ्चलचञ्चलश्चेलोत्क्षेप:, निपातिताऽर्द्धत्रयोदशकोटीप्रमाणा स्वप्रभाजालप्रकाशितदिगन्तरा रत्नवृष्टिः, उद्धृष्टं जयजयारवोन्मिश्रमहो !
Jain Educa
t
ional
For Personal & Private Use Only
ww
b
rary.org