________________
नवपद
सुसाधुजनाय श्रद्धापुलकिततनवः प्रयच्छन्ति ते स्वर्गापवर्गाद्यनुपमसुखभाजो भवन्तीति गाथासङ्क्षेपार्थः ।। विस्तरार्थ: कथानकाभ्यामवसेयः, तयोश्चाद्यं वृत्ति:मू.देव.
तावदिदम्वृ. यशो
विजयपुराभिधानपत्तने विजयसेननरपतौ नीत्या कोशकोष्ठागारादिसंपत्समृद्धं सप्ताङ्गं राज्यमनुपालयति धनवसुश्रेष्ठिन: पद्मश्रीभार्याया वसुदत्तनामा ॥२७॥
पुत्रोऽभवत्, तस्मिंश्च जातमात्र एव धनवसुश्रेष्ठी पञ्चत्वमुपजगाम, ततस्तदुपरमे दिवाकरास्तंगमने भुवनप्रकाशहेतुः किरणसम्पदिव क्षयमुपेयाय सकललक्ष्मी:, पाश्रीस्तु परिम्लानिमागताऽऽत्मनो निर्वाहं तत्रापश्यन्ती वसुदत्ततनूजमुपादाय धनमानविगमे विदेशगमनमेवोचितं मानधनानां न तु कर्मकरादिवृत्त्वा KS स्वदेश एवावस्थानमिति चिन्तयन्ती प्रययौ श्रीपुरनाम नगरं, स्थिता तत्र कञ्चन श्रेष्ठिनं समाश्रित्य, वसुदत्तस्तु कृतस्तद्गृह एव वत्सपालकः, तत्प्रसङ्गेन प्रातिवेशिकलोकवत्सकानां स एव चिन्तां कर्तुमारेभे, ततो व्रजत्सु केचिद्दिवसेषु वत्सचारणाय गतोऽन्यदा नगरबहिर्भुवं, ददर्श महामुनिमेकं ववन्दे भावसारं, तस्मिंश्च दिने तत्र नगरे पायसभोजिकामहोत्सवो जनस्य, ततोऽसौ वसुदत्तबालकः कस्याञ्चिद्वेलायां वत्सकांश्चारयित्वा यावद् गृहमायाति स्म तावद्ददर्श गृहे गृहे पायसं संस्क्रियमाणं, ययाचे च मातरं-अम्ब ! ममाद्य प्रदीयतां पायसं, सा च संस्मृत्य निजभर्तृकालं पश्य दुर्वारविधिविलसितं धनवसुश्रेष्ठिन: पुत्रो भूत्वा कथमेष परानुकम्पनीयामवस्थामवाप ?, न चेदं विजानाति मदीयमातुः कुत एतावती संप्रति प्राप्ति: ?, हा सत्यं कृतमिदमस्मत्तनयेन यदिदमुक्षुष्यते लोकैर्यथा-"तस्करा डिम्भरूपाणि, ब्राह्मणाः श्रमणा नृपाः । पञ्चाप्यते न जानन्ति, परपीडां कदाचन ॥१॥” इत्यादि चिन्तयन्ती रोदितुमुपचक्रमे, तदीयरुदिताकर्णनोपजातपरमकारुण्याश्च प्रातिवेशिकसीमन्तिन्य: समागत्य पप्रच्छुर्यथा-किं भगिनि ! एवं कहकहध्वानरुद्धगलसरणि रुद्यते भवत्या ?, किं न संपद्यते तव?, कथ्यतां यद्यकथनीयं न भवति, ततस्तया मद्भाग्यान्येव पृच्छत येषामीग्विलसितमित्यभिधाय कथितस्तनूजवृत्तान्त: ताभिरभाणि-यद्येवं मा रोदीः, संपादयिष्यामो वयमेवैतदुपस्करं, ततश्च कयाऽपि तन्दुला: कयाऽपि दुग्धं कयाऽपि गुडखण्डादि प्रदत्तमस्यै, भणितं चयथा प्रभाते पूरणीयास्त्वया पुत्रमनोरथा अनेनोपस्करण, द्वितीयदिने च प्रातरेव भणितो वसुदत्त:-वत्स ! अद्य त्वद्योग्यां क्षैरेयों करिष्याम्यत: शीघ्रमेवागन्तव्यं भवता, ततोऽसौ प्रहरद्वयसमये समायातो, गृहमुपविष्टो भोजनाय, भृत्वा भाजनं पायसस्य समर्पितं जनन्या, अत्रान्तरे समाययौ स एव श्री मासपारणके पूर्वदृष्टो महामुनिः, प्रविष्टः कथञ्चित्तदीयमेव वेश्म, विलोकितो वसुदत्तेन समुल्लसितभक्तिना, नूनं ममाप्यस्ति काचित् पुण्यभाजनता
॥२७॥ K ययेदृशी सामग्री संपन्ना, यत उक्तं- "केषाञ्चिच्चित्तवितं भवति भुवि नृणां दानयोग्यं न पात्रं, पात्रे प्राप्ते परेषां गुणवति भवतो नोचिते
Jain Educat
i onal
For Personal Private Use Only
www.library.oeg