________________
नवपदवृत्ति:मू.देव. वृ. यशो ॥२५९।।
संस्तारकस्तस्मिन् द्वयेऽपि अप्रत्युपेक्षे दुष्प्रत्युपेक्षे वा सति निषदनादि कुर्वत एकोऽतिचारः, अप्रमार्जितदुष्प्रमार्जिते वाऽस्मिन्नेव द्वितीयः, स्थण्डिलेऽप्येवं KA द्वावतिचारौ, सर्वेऽपि मिलिताश्चत्वारः, दुष्प्रत्युपेक्षितं यच्चक्षुषाऽद्धनिरीक्षितादि क्रियते, दुष्प्रमार्जितं च वस्त्राञ्चलादिना न्यूनाधिकभावेन प्रमार्जितं, बहि:स्थण्डिलभूसङ्ख्या च चतुर्विंशत्यधिकसहस्रमङ्कतोऽपि १०२४, तथा चोक्तम्-“अणवायमसंलोए १, परस्सऽणुवघाइए २ । समे ३ अज्झुसिरे ४ यावि, अचिरकालकयंमि य ५ ॥१॥ विच्छिण्णे ६ दूरमोगाढे ७, नासण्णे ८ बिलवज्जिए ९ । तसपाणबीयहिए १०, उच्चाराईणि वोसिरे ॥२॥" एतैश्च दशभिः पदैरेकादिसंयोगेन यथोक्ता सङ्ख्या पूर्यते, तदुक्तम्-“एक्कगदुगतिवगचउरो पंचगछस्सत्तअट्ठनवदसगं । संयोगा कायव्वा दसहि सहस्सो चउव्वीसो ॥१॥" ति, तथा 'सम्यक्' अवैपरीत्येन 'अननुपालनं' अकरणं, तच्च पञ्चमोऽतिचारः, चकारस्य सम्यगननुपालनं चेत्यत्र व्यवहितसम्बन्धाद्, एतानतिचारान् पञ्च ‘वर्जयेत्' परिहरेत्, पौषधवतस्येति प्रस्तावाद् गम्यते। न च स्वमनीषिकया व्याख्याता एते, यदुक्तं नियुक्तिकृता-“पोसहोववासस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा न समायरियव्वा, तंजहाअप्पडिलेहियदुप्पडिलेहियसेज्जासंथारए १ अपमज्जियदुप्पमज्जियसेज्जासंथारए २ अप्पडिलेहियदुप्पडिलेहियउच्चारपासवणभूमी ३ अपमज्जियदुपमज्जियउच्चारपासवणभूमी ४ पोसहोववासस्स सम्म अणणुपालणयत्ति," इह च वृद्धोक्ता सामाचारी-कृतपौषधो नाप्रत्युपेक्षितं दुष्प्रत्युपेक्षितं शय्यासंस्तारकं पौषधशालां वा सेवते, दर्भवस्त्रं वा भूम्यां संस्तृणाति, कायिकाभूमेश्चागत: पुनरपि संस्तारकं प्रत्युपेक्षते, अन्यथाऽतिचार: स्यात्, एवं - पीठकादिष्वपि विभाषेति, एते च चत्वारोऽतिचाराः सर्वतोऽव्यापारपौषध एव भवन्ति, पञ्चमस्त्वाहारपौषधादीनां सर्वेषामपीति, अतिचारता चाद्यानां चतुर्णा प्रतीतैव, पञ्चमस्य तूपदर्श्यते-कृतपौषधोऽस्थिरचित्त: सन्नाहारे तावत्सर्वमाहारं तद्देशं वा प्रार्थयते, द्वितीयदिवसे वाऽऽत्मार्थमादरं कारयति, शरीरसत्कारे शरीरमुद्वर्त्तयति, दंष्ट्रिके केशान् रोमाणि वा शृङ्गाराभिप्रायेण संस्थापयति, दाहे वा शरीरं सिञ्चति, ब्रह्मचर्ये त्वैहलौकिकान् पारलौकिकान् । वा भोगान् प्रार्थयते, शब्दादीन् वाऽभिलषति, ब्रह्मचर्यपौषध: कदा पूर्णो भविष्यति, त्याजिता ब्रह्मचर्येणेति वा चिन्तयति, अव्यापारे सावद्यानि | व्यापारयति, कृतमकृतं वा चिन्तयतीत्येवं पञ्चातिचारविशुद्धोऽयमनुपालनीय इति गाथाभावार्थ: ।। भङ्गद्वारमितोऽभिधीयतेउवसग्गपरिसहदारुणेहि कम्मोदएहिं नासेज्जा । रयणं व पोसहं खलु अइक्कमाईहिं दोसेहिं ।।११८॥
॥२५९॥ उपसर्गाश्च-दिव्यादयः षोडश परीषहाश्च-क्षुदादयो द्वाविंशतिरुपसर्गपरीषहास्तैर्दारुणा:-रौद्रा ये ते उपसर्गपरीषहदारुणास्तैरुपसर्गपरीषहदारुणैः
Jain Educat
i onal
For Personal & Private Use Only
ww.wbrary.org