________________
नवपद
वृत्ति: पू. देव. वृ. यशो
।। २५८ ।।
तओ भिक्खानियत्तेण पुच्छिओ गोयमसामिणा महावीरो भयवं ! ओहिण्णाणपरिमाणे किं आणंदो असब्भूयवाइति मं खामेउ ? अहं वा आणंद खामेमि ?, परमेसरेण भणियं खामसु गंतुं आणंदसावयं तुज्झ एत्थ अइयारो । गोयम ! जाओ विवरीयओहिपरिमाणकहणेण || १|| तो तक्खणंमि आणंदखामणं कुणइ गोयमो गंतुं । आणंदोऽविहु विहियाणसणो पत्तो सुरावासं ॥ २॥ आनन्दकथानकं समाप्तं एतच्च विस्तरत उपासकदशाङ्गे अधुनाऽस्यैव व्रतस्य यतनोच्यते
जहसत्तीए उ तवं करेइ पहाणाइ परिमियं चेव । दिय बंभयारि रत्तिं मियं च वावारसंखेवं ॥ ११६ ॥
शक्तिः सामर्थ्यं तस्या अनतिक्रमो यथाशक्ति तेन किमित्याह- 'तपः' अनशनादिरूपं करोति' निर्वर्त्तयति, 'तुः' पूरणे, भावार्थस्त्वयम्बह्वी स्तोका वा यावती तपः करणे शक्तिस्तस्या अनुल्लङ्घनेनानशनायामाम्लादि विदधाति, तथा 'स्नानं' शौचं तदादिर्यस्य विलेपनादेस्तत्स्नानादि तच्च 'परिमितं' परिमाणवत् करोति चकाराद्यातनया च भूप्रेक्षणजलगालनादिलक्षणया, यदुक्तं "भूमीपेहणजलछाणणाइ जयणा उ होउ पहाणंमि । " एवकारोऽवधारणेऽपरिमितादि व्यवच्छेदार्थ:, तथा 'दिवा' दिवसे ब्रह्मचारी 'रात्रौ' रजन्यां 'मितं च' सङ्क्षिप्तं च प्रहरादिमानेन गण्डपीलापूतिनिष्काशनमिवाब्रह्मासेवनं करोतिति प्रस्तावाद्गम्यते, तथा व्यापारा-गृहहट्टादिसत्काश्चेष्टाविशेषाः तेषां सङ्क्षेपणं सङ्क्षेपः समासस्तं करोतीति वर्त्तते, इह च 'जहसत्तीए उ तवं करेइ' इत्यनेनाहारपौषधस्य 'पहाणारं परिमियं चेवे' त्यनेन च शरीरसत्कारपोषधस्य 'दिय बंभयारि रत्ति मियं चा' नेन तु ब्रह्मचर्यपौषधस्य 'वावारसंखेव'- मेतेन चाव्यापारपोषधस्य यतना प्रतिपादिता, इयं च पौषधेऽगृहीतेऽपि गाथानिर्दिष्टविधिना वर्त्तमानस्य भवतीति गाथार्थ: ।। पौषधातिचारा इदानीमभिधीयन्ते
भावना अतिचा
राश्च
गा. ११६
११७
संथार थंडिलेऽवि य अप्पडिलेहापमज्जिए दो दो । सम्मं च अणणुपालणमड्यारे पंच वज्जेज्जा ।। ११७ ।।
संस्तीर्यते - स्वापार्थमास्तीर्यत इति संस्तारः स च स्थण्डिलानि च कायिकोच्चारभूमयः संस्तारस्थण्डिलं, समाहारत्वादेकवचनं तस्मिन् संस्तारस्स्थण्डिले 'अपिचे' त्यनेन पीठकाद्यपि सूच्यते, तत्र किमित्याह- अप्रत्युपेक्षाप्रमार्जिते द्वौ द्वावतिचारौ भवत इति गम्यते, प्रत्युपेक्षणं प्रत्युपेक्षाचक्षुर्निरीक्षणं न विद्यते सा यत्र तदप्रत्युपेक्षं तच्चाप्रमार्जितं च वस्त्राञ्चलादिनाऽकृतप्रमार्जनमप्रत्युपेक्षाप्रमार्जितं तस्मिन् अप्रत्युपेक्षाप्रमार्जिते, अनेन च. दुष्प्रत्युपेक्षदुष्प्रमार्जितेऽपीति द्रष्टव्यं संस्तारपदं च शय्यापदोपलक्षणं तेन शय्या वसतिः संस्तारकश्च यत्र सुप्यते अथवा सर्वाङ्गिकी शय्या अर्द्धतृतीयहस्तमात्रः
| ॥२५८॥
For Personal & Private Use Only
Jain Educat Memnational
www.brary.org