SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ नवपदत्ति:मू.देव. वृ. यशो ।२४४।। KNI कथा अपिशमूलणदुक्खं वालय अचोऽची' ति लोपैन कर्मबन्धलक्षणो दारुणोदाम, 'रा बहुर्बन्धः' निवर्त्तनं निवृत्तिः- प्रत्याख्यानं न अनिवृत्तिः निवृत्तिः सैव प्रत्यय:- कारणं यस्यासावनिवृत्तिप्रत्यय: 'बहुः' प्रभूतो 'बन्धः' कर्मबन्धः, कोऽर्थः । गुणद्वार ?- ज्ञानबलेन ज्ञानवताऽप्यनङ्गीकृतप्रत्याख्यानेन कर्मबन्धो न निवारयितुं शक्यः, यद्यपि चैवं 'तथाऽपि' कश्चिन्महामोहग्रहगृहीतचित्तवृत्ति: 'न करोति' न गा.१०६ विधत्ते 'मानं' परिमाणं नियतत्वमिति योऽर्थः, "दिवा' दिवसे, चशब्दो भिन्नक्रमे, 'रात्रौ' रजन्यां चेत्यत्र योज्यते, केन हेतुना ? इत्याह-'प्रमादेन' कामदेवविकथानिद्रादिना, यश्च न करोति तस्यायमेव प्रभूतकर्मबन्धलक्षणो दारुणो दोष इति प्रकृतद्वारतात्पर्य, यद्वा जानन्तीति भिन्नमस्येति च, तेन च प्रकृतदेशावकाशिकं संबध्यते, 'अचोऽची' ति लोपेन च 'जाणंतस्से' ति रूपं भवति, यथा-"मोत्तूण पत्तनियरं जडाण नियपरिमलं समप्यते । सहस्सुम्मूलणदुक्खं वालय ! बालोऽसि किं भणिमो ? ॥१॥' अत्र 'सहस्सुम्मूलण'-त्ति 'अचोऽची' ति लोपः, अकरण इत्याध्याहारः, । अपिशब्द एवार्थे, स च बहुशब्दादग्रे दृश्यः, 'तहवि न करेइ माणं' ति, अत्रापि प्राकृते लिङ्गविभक्तिवचनानां व्यत्ययो बहुलमिति लक्षणेन 'करिती' ति द्रष्टव्यं, ततश्चायमर्थ:-अस्य देशावकाशिकस्याकरणे-ऽनिवृत्तिप्रत्ययो बहुरेव बन्धः, एवं जानन्ति तथाऽपि दिवा रात्रौ वा कदाचिदिति यावन्मानं न कुर्वन्ति प्रमादेन हेतुना, ये च जानन्तोऽपि न कुर्वन्ति तेनैवाविरतिप्रत्ययेन बन्धेन बध्यन्त इति दोषद्वारगाथाभावार्थो, न चानिवृत्तिप्रत्ययो बन्धोऽसिद्धः, तस्यागमसिद्धत्वात्, तथाहि-अप्रत्याख्यानस्य पूर्वभवशरीराद्यपि सर्वं मुक्तंलमेवागमे प्रतिपादितं, यदुक्तम्- "बद्धेल्लया य मुक्केल्लया य देहा | भवंमि जेऽणंता । तेसिमवोसिरियाणं बंधेणं घेप्पई जीवो ॥१॥' अत एव च दुष्कृतगर्हायां-"गहिऊणं मुक्काई जम्मणमरणेसु जाइं देहाइं। पावेसु पसत्ताई वोसिरियाई मए ताई ॥१॥" इति पूर्वभवशरीरव्युत्सर्जनं कारितमिति गाथार्थः ।। गुणद्वारे चाउम्मासिगऽवहिणा बहुयं गहियं न तस्स संपत्ती । एवं नाउं विहिणा संखेवं कुणइ राईए ॥१०६॥ चतुर्णा मासानां समाहारश्चतुर्मासं चतुर्मासेन निवृत्तश्चातुर्मासिक: स चासाववधिश्च चातुर्मासिकावधिस्तेन ‘चातुर्मासिकावधिना' मासचतुष्टयविहितमर्यादया 'बहुकं' प्रचुरं गृहीतं न 'तस्य' विवक्षितगृहीतस्य 'संप्राप्ति:' सम्यग् लाभ: ‘एवं ज्ञात्वा' इत्थमवगम्य विधिना “उवउत्तो गुरुमूले संविग्गो इत्तरं व इयरं वा । गिण्हइ पच्चक्खाणं'' इत्यादि शास्त्रान्तरोक्तेन विधानेन 'सक्षेपं' संवरणं 'करोति' विदधाति 'रजन्यां' रात्रौ, अयमत्र भावार्थ:चातुर्मासिकमासिकाद्यवधिना यत् कनकधनधान्यादि व्यवहरणीयतया मुक्तलीकृतं तस्य रात्र्यादौ विवक्षिते काले यदा व्यवहारो न संभवति तदा ॥२४४॥ गर्वादिसमीपे संवरणमेव विवेकिना कार्य, तेन कृतेनाश्रवनिरोधाद, अकृतेन त्वविरतिप्रत्ययबन्धभावादिति गाथार्थ: ।। अत्र च कामदेवो दृष्टान्तः, Sain E r national For Personal & Private Use Only Telibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy