________________
नवपदवृत्ति:मू.देव.
वृ. यशो ||२४३॥
संवच्छाराइगहियं पभायसमए पुणोऽसि संखिवइ। राओ तंपिय नियमइ भेएण विसिद्भुतरमेव ॥१०३॥
संवत्सरो-वर्ष आदिः-पूर्वो यस्य कालावधेः स संवत्सरादिस्तेन गृहीतम्-उपात्तं संवत्सरादिगृहीतं, आदिशब्दाच्चतुर्मासिकादिग्रहः, 'प्रभातसमये' विभातकाले यद् दिक्परिमाणमिति शेषः, 'पुनरपि' भूयोऽपि 'संक्षिपति' संकोचयति सोऽयं देशावकाशिकभेद इति प्रक्रमः, अस्य चेयं भावना-केनापि श्रावकेण सुगुरुसमीपे पर्युषणावधि चतुर्मासकावधि वा दिक्परिमाणादि गृहीतं, तच्च संशय्योत्थानकाले नमस्कारावबोधपूर्वकं यदाऽनुस्मृत्य पुनरेवं विचिन्तयति अतिपुष्कलमिदं न मे प्रतिदिवसमेतावद् विषयीभविष्यति तस्मादद्यतनदिवसादौ सङ्कोचयाम्येतदहं, ततस्तथैवास्य सङ्कोचयत एको देशावकाशिकभेदः, अन्यश्च भेद एवं-'रात्रौ' रजन्यां स्वापकाले इति तात्पर्य 'तदपि नियमयति' यत्प्रातर्दिनादौ नियतं कृतं तदेव नियन्त्रयति, सक्षिप्ततरं करोतीत्यर्थः, कथं नियमयति ? इत्याह-'भेदेन' पृथिव्यादिग्रहणविकल्पेन 'विशिष्टतरमेव' प्रधानतरमेवेतिगाथार्थः ।। एतच्च यथा जायते तथा कथ्यते
एगविहं तिविहेणं सव्ववयाणं करेइ संखेवं । अहवा जहासमाही गंठीनवकारपरिमाणं ॥१०४॥
एकविधं' स्वयं न करोमीत्याद्येकप्रकारं 'त्रिविधेन' मनसा वाचा कायेनेत्येवंरूपेण 'सर्वव्रतानां' समस्ताणुव्रतादिविरतिविशेषाणां करोति' विदधाति 'सक्षेप' समासं, अन्यभङ्गोपलक्षणं चैतत्, एतदुक्तं भवति-य एकविधत्रिविधेन सर्वव्रतसङ्क्षेपं करोति तस्यानेनैव भङ्गकेनैतद्देशावकाशिकं जायते, सर्वव्रतसड्क्षेपरूपदेशावकाशिकस्यैतेन भङ्गेन गृहीतत्वान्, अन्यस्य त्वन्यथाऽपीति, 'अथवा' यद्वा 'यथासमाधि' 'समाध्यनतिक्रमेण, शक्त्यनुल्लङ्घनेनेति हृदयं, 'ग्रन्थिनमस्कारपरिमाणं' इति ग्रन्थिश्च नमस्कारश्च ग्रन्थिनमस्कारौ ताभ्यां परिमाणं-परिमितत्वं यस्य देशावकाशिकस्य तद् ग्रन्थिनमस्कारपरिमाणं, देशावकाशिकं करोतीति सम्बन्धः, साधुपर्युपासनादेवभवनावस्थानव्याख्यानश्रवणायुपलक्षणं चैतत्, तात्पर्यार्थस्त्वयं-यो महाधनाढ्यादि: कोऽप्यात्मनोऽतिव्याप्तिमालोच्य तत्परिहारार्थं यावदेव ग्रन्थिर्वस्त्राञ्चलादौ बद्ध आस्ते तावदेतत्परिमाणं ममैतावद्देशावकाशिकं, नमस्कारपरिमाणमिति यावन्नमस्कारमुच्चारयामि, उपलक्षणव्याख्यानाच्च यावत्साधून पर्युपासे इत्यादि, परिमाणं चेति तस्येत्थमपि देशावकाशिकं जायत इति गाथार्थः ।। एतदकरणे दोषमाह
जाणंतस्सवि एवं अनिवित्तीपच्चओ बहू बंधो। तहवि न करेइ माणं दिया य राओ पमाएणं ॥१०५॥ 'जानतोऽपि' अवबुध्यमानस्यापि, आस्तामजानतः, ‘एवं' पूर्वोक्तरूपेण देशावकाशिकाकरण इति शेष:, किमित्याह-'अनिवृत्तिप्रत्ययो
॥२४॥
Jain Educa
erabonal
For Personal & Private Use Only
___wwlscx brary.org