________________
नवपदवृत्ति: मू. देव. वृ. यशो
।। २४२ ।।
वैद्यः स यवमात्रं विषमुपादाय राज्ञः समर्पितवान्, रुष्टो राजा तन्मात्रार्पणेन, इङ्गिताकारकुशलेन च वैद्येन सरोषं नरेन्द्रमवगम्यं भणितं, यथा-देव ! महाविषमेतद्, यवमात्रेणाप्यनेन भारशतानि भवन्ति यतः शतवेध्येतद् राज्ञोक्तं कः प्रत्ययः ?, वैद्येनोक्तम् - आनाय्यतां कश्चिन्मुमूर्षुर्गज:, ततस्तद्वचनानन्तरमेवानायितो भूपेनैको जराजर्जरो रोगविधुरो महाकरी, त्रोटयित्वा तत्पुच्छवालं दत्तं तत्स्थाने नखाग्रेण विषं वालाग्रमात्रं वैद्येन, तत्क्षणमेव समस्तशरीरे संचरितं विषं, पतितो निश्चेष्टो हस्ती, जातो नीलीरागरञ्जित इवातिनीलवर्ण:, भणितं वैद्येन देव ! एष सर्वोऽपि संपन्नो विषरूपो, योऽप्येन श्चशृगालादिर्भक्षयिष्यति सोऽपि विषीभविष्यति, एवंच शततमस्थानमप्येतद्वेधयतीति महाविषमेतत्, ततो राज्ञोक्तं - अहो भिषग्वर ! एवंविधमहाविषस्यास्यास्ति कश्चित्प्रतीकारः ?, भिषजोदितं देवं ! अस्ति, प्रतीत्युत्पादनार्थं नृपतेः पुनर्भणितं वैद्येन-देव ! समानाय्यतामन्यो बलिष्ठशरीरः कश्चिन्महास्तम्बेरमः, कृतं तद्वचस्तथैव भूपालेन, वैद्येनापि तथैव संचारितं विषं, तत्क्षणमेव चरितं विषं सर्वस्मिन्नपि तद्देहे, ततस्तक्तालमेव नियोजितस्तत्रैव देशेऽगदः, तेन चोत्सार्यानीतं विषमेकस्मिन् पादे, ततोऽपि पादाङ्गष्ठे, ततोऽपि तदग्र इति, ततस्तुष्टो राजा कृतवान् महाप्रसादं वैद्यस्य, सोऽपि तदनुभावेन संपन्न ऐहलौकिकसुखाभागी, एवं श्रावकोऽपि दिग्वतेन योजनशतादिक्षेत्रमानमवगृहीतवान्, देशावकाशिकेन तु तदेव सङ्क्षिप्य गव्यूतादिमानं चकार, ततोऽपि वा गृहदेहलीमर्यादमिति, अत्र च गजदेहतुल्यं दिग्व्रतमितिक्षेत्रं, विषचरणसमं त्वत्र श्रावकस्य गमनागमनादि, अगदसदृशं तु देशावकाशिकं, तेन तद्विषयं बहु बहुतरं निरुणद्धि ।। दृष्टिविषसर्पोदाहरणं यथा- कस्मिंश्चिदरण्ये दृष्टिविषसर्पः प्रतिवसति स्म, तद्वष्टेश्च महाविषत्वाद् द्वादश योजनानि विषयोऽभूत्ततोऽनेन द्वादशयोजनप्रमाणायां भूमौ यः कोऽपि कपोतिकादिः खचरः शशकादिः स्थलचरः स सर्वोऽपि विनाशितः, ततस्तेन पथा चटकोऽपि न संचरति, अन्यदा महामन्त्रवाद्येको निजमित्रमण्डलीपरिवृतः समागतस्तं प्रदेशं, पश्यति च सर्वतो निः सञ्चारमेनं पप्रच्छ च तत्प्रत्यन्तवर्त्तिनं कमपि लोकंकिं कारणमयं प्रदेश इत्थं निःसंचारो वीक्ष्यते ?, तेनोक्तं- अस्त्यत्रैको महादृष्टिविषो दन्दशूकः, तद्दृष्टेश्च द्वादश योजनानि विषयः, ततोऽनेन दवदग्धारण्यतुल्ये कृतेऽस्मिन् प्रदेशे मरणभयेन न कोऽपि संचरति, किं बहुना ?, चटकादिभिरपि स्वजीवितरिरक्षिषया परिहृतोऽयं देश:, तेनोक्तं-यद्येवं समस्ति मे गुरुपरम्परागत एको गारुडमन्त्रः तन्महात्म्यान्निरोधयाम्यहमेतावन्तमस्य दृष्टिविषयं ततो गत्वा सर्पसमीपदेशमसौ निरुरोध तद्विषयं द्वादशयोजनप्रमाणस्यास्य चकार योजनमात्रां सीमां, ततोऽपि सङ्क्षिप्य परिमितां परिमिततरां तावद् यावद् दृष्टिसमासन्नाङ्गुलादिमानामिति, उपनयस्तु पूर्ववदेव स्वबुद्ध्या कार्य इति ।। भेदद्वारे गाथा
Jain Education ternational
For Personal & Private Use Only
स्वरूप
द्वारं
॥२४२॥
www.jaihe brary.org