________________
नियुक्तिकारगाथाद्वयादस्मादवबोद्धव्यो, यथा “मित्ति मिउमद्दवत्ते छत्ति य दोसाण छायणे होइ । मित्ति य मेराएँ ठिओ दुत्ति दुगुंछामि नवपदत्ति:मू.देव.
अप्पाणं ॥२॥ कत्ति कडं मे पावं डत्ति य डेवेमि तं उवसमेणं । एसो मिच्छाउक्कडपयक्खरत्थो समासेणं ॥२॥" ति, 'करोति' व. यशो K
विदधति 'च:' समुच्चये 'अतिप्रसङ्गं' अत्यासक्ति पुन: पुनरतिचारकरणेन 'तस्य' एवंविधस्य प्राणिन: 'स्फुट' प्रकटं भवति' संपद्यते 'भङ्गः' विनाश; 1२४१॥ 'अत्र' सामायिकविषय इति गाथार्थः ।। भावनाऽधुना
सव्वं चिय सावज्जं तिविहं तिविहेण वज्जियं जेहिं । जावज्जीवं तेसिं नमामि भत्तीय पयकमलं ॥१०॥
'सर्व' निश्शेषं सूक्ष्मबादरभेदभिन्नं 'चिय' त्ति एवार्थे सर्वमेवेत्यर्थः ‘सावा' सपापं अनुष्ठानमिति गम्यते 'त्रिविधं' करणकारणानुमतिभेदं 'त्रिविधेन' मनसा वाचा कायेन, नवविधमिति तात्पर्य, 'वर्जितं' परिहतं यैः सुसाधुभिः, किं परिमितमेव कालं ?, नेत्याह-'यावज्जीवं' यावदिति KA मर्यादायां यावज्जीवनं यावज्जीवं, चरमोच्छ्वासं यावदित्यर्थः, तेषां सुविहितानां 'नमामि' प्रणिपतामि ‘भक्त्या' अन्तःप्रीत्या, न तूपरोधादिना, 7
बहुमानपुरसरमिति योऽर्थः, ‘क्रमकमलं' पादपङ्कजमिति गाथार्थ: ।। उक्तं सामायिकं नवभेदं, सम्प्रति देशावकाशिकस्यावसरः, तदप्येतैरेव नवद्वारैरभिधेयमिति प्रथमद्वारेण तावदाह
देसावगासियं पुण संखेवो जस्स पुव्वगहियस्स । जह विसपन्नगदिट्ठी संखिवई वाइओ कोई ॥१०२॥
पूर्वगृहीतप्राणातिपातादिव्रतपरिमाणैकदेशो देशस्तस्मिन्नवकाश:-अवस्थानं देशावकाशस्तेन निर्वृत्तं देशावकाशिकं, पुन:शब्द: पूर्वोक्तापेक्षया, सामायिकं तावत् 'सावज्जजोगविरई' त्यादिगाथया स्वरूपतो निरूपितं, देशावकाशिकं तु किंरूपमित्याह-देशावकाशिकं पुन:, स्वरूपेण ज्ञेयमिति शेषः, यत्र किमित्याह-सक्षेपणं सड्क्षेप: सङ्कोच इतियावत् 'यत्र' यस्मिन् ‘पूर्वगृहीतस्य' प्रागुपात्तस्य प्राणातिपातादिव्रतस्येत्यर्थाद्गम्यते, तत्सड्क्षेपस्यैवात्र सूत्रकृता देशावकाशिकत्वविवक्षणात्, “सव्ववयाणं संखेवकरणं देसावगासियं' ति वचनप्रामाण्याद्, अत्रैव निदर्शनमाह-जह विसपन्नगदिट्ठी संखिवई वाइओ कोऽवि' त्ति यथा यद्वद्विषं च-गरलं ‘पन्नगदृष्टिश्च' सर्पदृक् ते 'सङ्क्षिपति' सङ्कोचयति 'वातिकः' मन्त्रवादी स्थावरजङ्गमविषप्रतिकर्ता 'कोऽपि' अनिर्दिष्टनामेति गाथार्थः ।। भावार्थस्तु वृद्धसम्प्रदायादवसेय:, स चायम्-कश्चिद्राजा प्रतिपक्षमहाबलनृपतिभयेन स्वदेशवर्त्ति जलयवसादि विनिनाशयिषया
॥२४॥ निजमण्डले विषकरं पातितवान्, ततश्च कोऽपि पलदशकं कोऽपि पलविंशतिं कोऽपि पलपञ्चाशतं कोऽपि पलशतं विषस्यानीतवान्, अन्यश्च राज्ञ एव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org