________________
नवपदवृत्ति: मू. देव. वृ. यशो
॥२२६॥
नरकोत्पत्तौ प्राणिनां किं मिथ्यात्वादय एव सामान्यप्रत्यया उतान्येऽपि विशेषप्रत्ययाः सन्ति ?, सूरिणोक्तं सन्ति विशेषप्रत्यया अपि तथा चागमः‘“महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पंचेंदियवहेणं जीवा नरयाउयं कम्मं निव्वत्तंति" तत एतदाकर्ण्य भूपतिः सत्रासं हा गतोऽस्मि तर्हि नरकं महारम्भतादिविशेषप्रत्ययानां राज्यनिबन्धनानां मयि सद्भावादिति विचिन्त्य प्रणामपूर्वं पुनरब्रवीन्मुनिं स्वामिन् ! अस्ति कश्चिदस्मादृशां नरकनिवारणोपायः ?, सूरिणाऽभिहितम्-अस्ति भागवती दीक्षा, राज्ञोचे-कीदृशी सा ?, ततः सुस्थिताचार्येण सविस्तरमष्टादशशीलाङ्गसहस्रपरिपालनस्वभावऽक्षेपमोक्षनगरप्रापिका प्ररूपिताऽर्हतां दीक्षा, हृष्टेन नरपतिनाऽभिदधे यद्येवं निवेश्य लघुभ्रातरं कण्डरीकं राज्ये गृह्णामि भवत्पादमूलेऽहमिमां, ततोऽतिहृष्टचेता उत्थाय भूयोऽभिवन्द्य भावसारं गुरून् गतो निजवेश्म, तत्राहूतः प्रस्तावे क्वचित् कण्डरीको, भणितश्च वत्स ! परिगृहाणामुं राज्यविस्तरम्, अहं तु त्वदनुमत्याऽङ्गीकरोमि महापुरुषनिषेवितमुत्तमं धर्मं, कण्डरीक आख्यद्-भ्रातः ! किमप्रस्ताव एव त्यज्यते राज्यं ?, पुण्डरीकेणोक्तं दुर्गतिहेतुत्वदोषतो, महारम्भतादिभिर्नरक इति व्याख्यातं सूरिभिः, ततो लघुभ्रात्राऽभिहितं-आर्य ! यदीदृशमिदं राज्यं तत्किं मह्यं प्रदीयते । तवाहमपि नानिष्टो, यतोऽभूवं कदाचन ॥१॥ राजोवाच-त्वमपरिकर्मितदेहः शक्नोषि न दुष्करं तपः कर्तुं । तेनानुपाल्य राज्यं पश्चिमवयसि व्रतं कुर्याः ॥ २॥ ततः कण्डरीकः -किमत्र परिकर्मणयायावत्साहसमालम्ब्य तात ! कार्ये प्रवर्त्यते । धीरैर्न दुष्करं तावत्किञ्चिदत्र विभाव्यते ||१|| यदुक्तम् सङ्कचति महीमण्डलमब्धिः शुष्यति लघुभवति मेरुः । साहसवशेन पुंसामनुकूलं भवति दैवमपि ॥ २॥ न चाहमप्यन्येन पित्रा जातः, तदवश्यं मया प्रव्रज्यैव ग्राह्येति प्रतिपादयन्निषिध्यमानोऽपि पुण्डरीकेण गत्वा सूरिसमीपं स्वीचकार व्रतं, पुण्डरीकस्तु ततः प्रभृति स्थितो विशेषेण श्रावकधर्मपरायणः सततमेव सर्वविरतिविषयां मनोरथमालामनुचिन्तयन् राज्य एव, कण्डरीकस्तु गृहीतद्विविधशिक्षः सुस्थिताचार्यैः समं विहरन् ग्रामारामनगराकरमण्डितां वसुमतीं निनाय कियन्तमपि कालं, अन्यदा तु तथाविधभवितव्यतावशेन गृहीतोऽसौ रौद्रव्याधिना कारितः स्वसामग्र्यनुरूप्यमौषधादि सूरिभिः, न जातो विशेष:, ततः समागतारतरयामेव पुण्डरीकिण्यामाचार्याः, आवासिताः प्राशुकोद्यानभूमौ विज्ञायागमनमाचार्याणां समाययौ राजा वन्दनानिमित्तम्, अभिवन्द्य परमभक्त्या सूरीन् पप्रच्छासौ-भगवन् ! क्वास्ते कण्डरीकमुनिः ?, सूरिणा निर्दिष्टं विद्यतेऽस्मिन्नेव पुरोऽवलोक्यमाने शून्योद्यानपालवेश्मनि राज्ञोक्तं किमिति युष्मत्पार्श्व एव नोपविष्टः ?, सूरिणाऽभ्यधायिकिञ्चिद्रोगवशग एष न शक्नोति महतीं वेलामुपविष्ट आसितुं, ततो राजा स्वयमेव गतस्तत्पार्श्व, वन्दित्वा पृष्टः शरीरवार्त्ता, कथिता तेन, तत आदिष्टा भूपतिना भिषग्वराः यथा प्रगुणीक्रियतामयं साधुः, औषधादिना येन प्रयोजनं तदस्माकं ज्ञाप्यं येन संपादयामः, तैरपि यथाऽऽदिशति देवस्तथा क्रियत इति
Jain Educaternational
For Personal & Private Use Only
दोषे
कण्डरीक
ज्ञात
६॥२२६॥
elibrary.org