________________
नवपदवृत्तिःमू.देव.KI
वृ. यशो ॥२२५॥
x
&
&
&
गङ्गासिन्धुप्रमुखचतुर्दशमहानदीप्रतिबद्धानेकसहस्रसङ्ख्यतटिनीसमूहरमणीयो जम्बूद्वीपनामा द्वीपः, तत्र योजनलक्षत्रमाणेन किरणनिकरप्रहतान्धकारपञ्चप्रकारसाररत्नोन्मिश्रजात्यजांबूनदमयेन भद्रशालवनोपशोभमानभूमिकेन नन्दनसौमनसाभिधानोद्यानद्वयालङकृतमेखलायुगलेन पण्डकवनखण्डमण्डितशिखरेण | महामेरुणाऽधिष्ठितमध्यं मेरुदक्षिणोत्तरपार्श्वविराजमाननिषधनीलवन्तपर्वताऽऽलग्नसमुत्थितचतुर्वक्षस्कारशिखरिसमुद्दीपितदेवकुरूत्तरकुरुक्षेत्रविभागं सीतासीतोदाभिधानमहानदीद्वितयोभयतटनिविष्टद्वात्रिंशद्विजयविभूषितं महाविदेहाभिधानं क्षेत्रं, तस्मिन् पुष्कलावतीविजये पुण्डरीकिणी नगरीविपणिपयविकीर्णस्वर्णरत्नप्रवालक्रमुकमलयजादिद्रव्यजातीविलोक्य । भवति मनसि नूनं पान्थसार्थस्य यस्यां, ननु भुवि नगरीयं सर्वलक्ष्मीनिवास: ।।१।। तस्यां च-स्वकुलगगनभानुर्भीतिवल्लीकृशानुनयविनयपटिष्ट: शिष्टचेष्टागरिष्ठः। अरिकरिवरकुम्भोद्भेदलीलायितेन, प्रकटितनिजनामा पुण्डरीको नृपोऽभूत्
२।। तस्य च कण्डरीको नामा लघुभ्राता युवराजः, तयोश्च स्वपुण्योदयानुरूपसंपद्यमानानवद्यसांसारिकसुखानुभवयो: नित्याऽनुपालयतोर्महीमतिचक्राम प्रभूतः कालः, अन्यदा च समाजगाम ग्रामनगरादिषु विहारक्रमेण बंभ्रम्यमाण: सुस्थिताचार्यस्तनगरी, समवसृतो बहिरुद्याने, विदिततदागमनवृत्तान्त: समं पुण्डरीकनरपतिना वन्दनादिनिमित्तं समाययौ नगरीलोकस्तत्समीपं, विधिवद्वन्दनापुरस्सरं च सूरिदत्तधर्मलाभाशीर्वादमुदितमानस: समुपविवेश यथास्थानं, सूरिणा प्रारब्धा धर्मदेशना, यथा-अनाद्यनन्तसंसारे, मिथ्यात्वादिवशीकृता: । प्राणिन: कर्म बध्नन्ति, ज्ञानावरणादिभेदवत् ।।१।। नरकादिभवे क्षिप्तास्तेन चात्यन्तवैरिणा । सहन्ते दु:खसनातं, छेदनाद्यमनेकधा ।।२।। तथाहि नारका दृष्ट्वा, घटिकालयवर्त्तिन: । उत्पत्तिसमये रौद्रैः, परमाधार्मिकासुरैः ।।३।।। आकृष्यन्तेऽतिनिस्त्रिंशमारटन्त: कटुस्वरम् । विपाट्यन्ते ततस्तीक्ष्णकरपत्रैः कपाटवत् ।।४।। शक्त्यादिभिर्विभिद्यन्ते, कल्प्यन्ते कल्पनीशतैः । हन्यन्ते मुद्गरैर्वास्या, तक्ष्यन्ते दारुवत्तथा ।।५।। भिन्नारिछन्ना हता एवं, पुन: संघटिताङ्गका: । दुरिदैवयोगेन, भूयो वीक्ष्य ततोऽसुरैः ।।६।। नीयन्ते शाल्मलीदेशमालिङ्ग्यन्ते च तास्तत: । वज्रयकण्टकभिन्नाङ्गाः, रसन्ति करुणस्वरम् ।।७।। तप्तवपु च पाय्यन्ते, संदंशविधृतानना: । दृढं भ्राष्ट्रे तु भुज्य(भृज्ज्य)न्ते, भक्ष्यन्ते निजमामिषम् ।।८।। तार्यन्ते च वसापूयरुधिरक्लेदकरमलाम् । वायध्वमिति जल्पन्तो, घोरां वैतरणी नदीम् ।।९।। असिपत्रवनं याताः, कथञ्चित्ते ततश्च्युताः । तत्रापि पतितैः पश्छिद्यन्ते शस्त्रसन्निभैः ॥१०॥ एवं तिसृषु पृथ्वीषु, परतस्तु परस्परम् । षष्ठी यावन्महादुःखं, नारकैरुपजन्यते ।।११।। अन्योन्यसंमुखाकारोपर्यधोभाववर्जिन: । पृथिव्यां बत सप्तम्यां, विद्यन्ते वज्रकण्डका: ।।१२।। तन्मध्ये नारका जाताः, निर्गन्तुं नk॥२२५ च पारिताः । उत्पतन्त: पतन्तश्च, तुद्यन्ते मरणावधि ।।१३।। अत्रान्तरे नृपतिराह-भगवन् ! नारकाणामतिप्रचुरदुःखता भगवता प्रतिपादिता, तत्र च
&&
&
&
28080
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org