________________
प्रकृतं तु सामायिकस्थेन विकथादि न कार्य, स्वाध्यायादिपरेणासितव्यं, यदुक्तं-“विगहाइएहिं रहिओ, सज्झायपरो तया जईतुल्लो। इच्छियकालं । दोषद्वारं नवपदवृत्तिःमू.देव.
चिट्ठ पारेउं कुणइ वावारे ॥१॥" त्ति, न चेप्सितकालं तिष्ठेदित्युक्तरेव तदैव गृहीतं तदैव मुक्तं सामायिके कार्यम्, अनवस्थितकरणताप्रसङ्गात्। गा. ९६ वृ. यशो
K किं तर्हि ?, जघन्यतोऽपि घटिकाद्वयं सामायिके स्थेयमिति वृद्धोपदेशः, इह च नैगमसङ्ग्रहव्यवहारर्जुसूत्रशब्दसमभिरूद्वैवं भूतभेदाः सप्त मूलनया:, ॥२२४||
तेषु च को नय: किं सामायिकमिच्छतीत्येतदपि किञ्चिदुच्यते, तत्र नैगमस्तावद्यदैव सामायिकं गुरुणोद्दिष्टं यथा सामायिकसूत्रं पठ तदैव सामायिक KO मन्यते, सङ्ग्रहव्यवहारौ तु सामायिका) गुर्वन्तिकोपविष्टस्यैव सामायिकमभ्युपगच्छतः, ऋजुसूत्रमतं तु य: सामायिकाभ्युपगमसूचिका सामायिकगाथा KI | पठति चैत्यवन्दनं वा तदर्थं करोति तस्यैव सामायिकमभ्युपगच्छति, आसन्नासाधारणकारणत्वात्, शब्दादयः पुन: सामायिकोपयुक्तं समभावव्यवस्थितं
शब्दक्रियारहितमपि सामायिकं स्वीकुन्ति, तत्परिणामानन्यत्वात्, इति नयवादाश्चित्रा: क्वचिद्विरुद्धा इवाथ न विरुद्धा: । लौकिकविषयातीतास्तत्त्वज्ञानार्थमधिगम्या: अ॥१॥ न चैतेभ्यस्तत्त्वज्ञानं न संभवति परस्परविरुद्धार्थप्रतिपादकत्वादिति वाच्यं, तथाभूतानामपि परस्परनिश्रया सम्यगरूपत्वात्, तथाचोक्तम्-'"एवं
सव्वेऽवि नया मिच्छट्ठिी सपक्खपडिबद्धा । अण्णोऽण्णनिस्सिया पुण लहंति सम्मत्तसब्भावं ॥१॥" अत एव च सर्वनयसमूहमयं जिनमतमभिधीयते, यथोक्तम्-"सोउं सद्दहिऊण य णाऊण य तं जिणोवएसेणं । तं सव्वनयविसुद्धं समत्यनयसम्मयं जं तु ॥१॥" उक्तं यथा जायते सामायिकम्, अधुना जातमप्येतद् यदि न पाल्यते तदा दोष: ? इत्याह
सामाइयं तु पडिवज्जिऊण भंजंति कम्मदोसेण । ते कंडरीयसरिसा भमंति संसारकंतारे ॥९६॥ _ 'सामायिकं' उक्तशब्दार्थ 'तुः पुनरर्थे तस्य चाग्रे योजना प्रतिपद्य' अङ्गीकृत्य ‘भञ्जन्ति' विनाशयन्ति पुन: 'कर्मदोषेण' चारित्रावरणीयादृष्टापराधेन । 'ते' सामायिकप्रतिपत्तारः, प्रस्तुतश्रावकाः किमित्याह-'कण्डरीकसदृशाः' कण्डरीकाभिधानराजपुत्रतुल्या: 'भ्रमन्ति' पर्यटन्ति संसरन्त्यस्मिन् प्राणिन इति संसारो-नारकतिर्यड्नरामरगतिलक्षणः स एव चतुरशीतियोनिलक्षगहनत्वाज्जरामरणादिभयाकुलत्वाच्च कान्तारम्-अटवीं संसारकान्तारं तस्मिन् । नन्वत्र देशविरतश्रावका: प्रस्तुताः कण्डरीकस्तु प्रतिपन्नसर्वविरति: अतः कथं सोऽत्र दृष्टान्ततया सङ्गच्छते ?, सत्यं, सर्वविरतेरपि सामायिकभेदत्वेन तच्छब्दवाच्यत्वादित्यदोष इति गाथाऽक्षरार्थ: ।। भावार्थस्तु कथानकगम्यः, तच्चेदम्
18॥२२४॥ अस्ति समस्तशस्तवस्तुस्तोमनामासङ्ख्येयद्वीपसागरमध्यवर्ती हिमवदादिषट्संख्याविख्यातवर्षधरगिरिवरविरचितभरतादिसप्तक्षेत्रीविशेषो
JainEducXTemational
For Person
Private Use Only
famelibrary.org