________________
नवपद
तुलादण्डमध्यग्रहणन्यायेनाद्यन्तग्रहणमपि बोध्यमित्यन्दीयगाथार्थः ।। वृत्तिःमू.देव.
आवश्यकचूायुक्तसामाचारी त्वियम्-सामायिकं श्रावकेण कथं कार्य ?, तत्रोच्यते-श्रावको द्विविध:- अनृद्धिप्राप्त ऋद्धिप्राप्तश्च, तत्राद्यश्चैत्यगृहे वृ. यशो
साधुसमीपे पौषधशालायां गृहे वा यत्र वा विश्राम्यति पृच्छति (तिष्ठति) च निर्व्यापारस्तत्र करोति, चर्तुषु तु स्थानेषु नियमेन करोति-चैत्यगृहे साधुमूले ॥२२३॥
पौषधशालायां गृहे वाऽऽवश्यकं कुर्वाण इति, एतेषु च यदि चैत्यगृहे साधुमूले वा करोति तत्र यदि केनापि सह विवादो नास्ति यदि भयं कुतोऽपि न विद्यते यदि कस्यापि किञ्चिन्न धारयति मा तत आकर्षापकर्षों भूतां यदिवाऽधमर्णमवलोक्य न गृह्णीयात् मा भाक्षीदितिबुद्ध्या यदिवा गच्छन्न किमपि व्यापार व्यापारयेत् तदा गृह एव सामायिकं गृहीत्वा चैत्यगृहं साधुमूलं वा यथा साधुः पञ्चसमितिसमितस्त्रिगुप्तिगुप्तस्तथा याति, आगतश्च | त्रिविधेन साधूनमस्कृत्य तत्साक्षिकं सामायिकं पुन: करोति-'करेमि भंते ! सामाइयं सावज्जं जोगं पच्चक्खामि दुविहं तिविहेणं जाव साहुं पज्जुवासामी' त्यादि सूत्रमुच्चार्य, तत ईर्यापथिकी प्रतिक्रामत्यागमनं चालोचयति, तत आचार्यादीन् यथारत्नाधिकतयाऽभिवन्द्य सर्वसाधून उपयुक्तोपविष्टः पठति पुस्तकवाचनादि वा करोति, चैत्यगृहे तु यदि साधवो न सन्ति तदेर्यापथिकीप्रतिक्रमणपूर्वमागमनालोचनां विधाय चैत्यवन्दनां करोति ततः पठनादि विधत्ते, साधुसद्भावे तु पूर्व एव विधिः, एवं पौषधशालायामपि, केवलं यथा गृहे आवश्यकं कुर्वाणो गृह्णाति तथैव गमनविरहितं, न चावश्यकं श्रावकस्य न संभवतीति वाच्यं, "समणेण सावएण य अवस्स कायव्वं हवइ जम्हा'' इत्यादिवचनप्रतिष्ठितत्वादस्य, मुखवस्त्रिकाप्रत्युपेक्षणपूर्व । च सर्वत्र सामायिकं साध्वादिसमीपे विधिना ग्राह्यमिति । ऋद्धिप्राप्तस्तु चैत्यगृहं साधुमूलं वा महद्ध्यैवैति येन लोकस्यास्था जायते, चैत्यानि साधवश्च सत्पुरुषपरिग्रहेण विशेषपूज्यानि भवन्ति, पूजितपूजकत्वाल्लोकस्य, अतस्तेन गृह एव सामायिकमादाय नागन्तव्यम्, अधिकरणभयेन हस्त्यश्वाद्यनानयनप्रसङ्गात्, आयातश्च चैत्यालये विधिना प्रविश्य चैत्यानि च द्रव्यभावस्तवेनाभिष्ट्रय यथासंभवं साधुसमीपे मुखपोतिकाप्रत्युपेक्षणपूर्वं 'करेमि भंते ! सामाइयं| सावज्जं जोगं पच्चक्खामि दुविहंतिविहेणं जाव नियमं पज्जुवासामीत्याधुच्चार्येर्यापथिकादि प्रतिक्रम्य यथारात्निकतया सर्वसाधूंश्चाभिवन्द्य प्रच्छनादि करोति, सामायिकं च कुर्वाण एष मुकुटमपनयति कुण्डलयुगलनाममुद्रे च पुष्पताम्बूलप्रावरणादि च व्युत्सृजति, किञ्च-यद्येष श्रावक एव तदाऽस्यागमनवेलायां
न कश्चिदुत्तिष्ठति, अथ यथाभद्रकस्तदाऽस्यापि सन्मानो दर्शितो भवत्वितिबुद्ध्याऽचार्याणां पूर्वरचितमासनं धियते, अस्य च, आचार्यास्तूस्थिता Kएवेतस्ततश्चक्रमणं कुर्वाणा आसते तावद्यावदेष आयाति, तत: सममेवोपविशन्ति, अन्यथा तूत्थानानुत्थानदोषा विभाष्याः, एतच्च प्रासङ्गिकमुक्तं,
॥२२३॥
JainEducari mational
For Personal Private Use Only
Jobrary.org