SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ नवपद द्वारं वृत्ति:मू.देव. वृ. यशो ॥२२॥ ___ कर्मणो-देशचारित्रावरणीयद्वितीयकषायलक्षणस्य क्षयोपशम: कर्मक्षयोपशमस्तेन कर्मक्षयोपशमेन ‘कृतसामायिकः' विहितसमभावरूपाद्यशिक्षाव्रतो उत्पत्ति 'यतिरिव' साधुरिव, यतो भवतीति शेषः, अत: 'स:' श्रावक: 'सम्यक्' अवैपरीत्येन 'इय' एवं लाभस्य दर्शनं तेन लाभदर्शनेन 'पुन: पुनः' भूयो भूयः 'करोति' विदधाति सामायिक, एतदुक्तं भवति-यो हि गृही कर्मक्षयोपशमेन कृतसामायिक: साधुरिव भवति तस्यैवंविधफलदर्शनेन भूयो भूय: गा. ९५ सामायिककरणेच्छा संपद्यते, तया च सामायिकं जायत इति, यदुक्तं-“सामाइयंमि उ कए समणो इव सावओ हवइ जम्हा । एएण कारणेणं विधिगाथा वहुसो सामाइयं कुज्जा ॥१॥' अत्र च यतिरिवेति शब्देन श्रावकस्य सामायिकवतोऽपि साक्षाद् यतित्वं निषिद्धं, तस्यानुमतेरनिवाररितत्वाद् अनियतकालत्वाच्च, यतेस्तु त्रिविधं त्रिविधेन निवृत्तत्वाद्यावज्जीविकत्वाच्चेति गाथार्थ: ।। एतच्च सामायिकं यो यत्र यथा करोति तथाऽन्यकर्तृकगाथाव्याख्यानेन समयसामाचार्या च सोपयोगत्वात्प्रदर्श्यते, तत्र गाथा चेइहरसाहुगिहमाइएसु सामाइयं समो कुज्जा । पणिवायाणंतर साहु वंदिउं कुणइ सामइयं ॥१॥ चैत्यगृहसाधुगृहादिकेषु मकारस्यालाक्षणिकत्वात् सामायिकं समः कुर्यात् प्रणिपातानन्तरं साधून् वन्दित्वा करोति सामायिकमित्यक्षरार्थः, पदार्थस्त्वयं-चैत्यानि-अर्हत्प्रतिमाः प्रशस्तभावचित्तहेतुत्वात् चित्तमेव चैत्यमिति व्युत्पत्या कथ्यन्ते तेषां गृहं चैत्यगृहं-जिनायतनं, साधयति-निष्पादयति मोक्षलक्षणं पदार्थमिति साधु:-यति:, गृह्यतेऽनेन संसारनिबन्धनकर्मणा जीव आत्मीयभावगृहीतेनेति गृह-वेश्म, चैत्यगृहं च साधुश्च गृहं च चैत्यगृहसाधुगृहाणि XA तान्यादिर्येषां पौषधशालादीनां तानि तथा तेषु 'सामायिक' प्राग्निरूपितशब्दार्थ 'सम:' रागद्वेषयोर्मध्यस्थ: अविकृतो वा 'कुर्यात्' विदध्यादिति यो यत्रेति कथितं, यथा करोतीत्येतदुच्यते-प्रणिपात:-प्रणिपातदण्डको 'नमोत्थु ण' मित्यादिस्तस्मादनन्तरं 'साधून वन्दित्वा' यतीनभिवाद्य करोति सामायिकं, क्वचिच्च ‘पणिवायाणंतरसाहुवंदणं'ति पाठः, तत्र प्रणिपातानन्तरं साधुवन्दनं यत्र सामायिककरणे तत्तथेति क्रियाविशेषणं दृश्यम् । अयं च विधि: श्रीवसुदेवसूरिभिर्व्याख्यातः, परं न प्राय: सामाचार्येवं दृश्यत इति, तदनुसारेणैवं व्याख्या-प्रणिपतन: प्रणिपातः सामान्येन प्रणाममात्रं, स च । साध्ववग्रहसूचनादत्र साधूनामेव द्रष्टव्यः, तस्मादनन्तरं साधुवन्दनं कृत्वा सामायिकं करोति, यद्वा प्रणिपातानन्तरमित्यनेनार्हच्चैत्यासन्नविधिरभिहितः,8 साधून वन्दित्वेत्यनेन तु साध्वासन्नविधिः, यतो यत्रार्हच्चैत्यानि तव तद्वन्दनापूर्व सामायिकं ग्राह्य, चैत्यवन्दना तु प्रणिपातदण्डकपूर्विकेति, अनेन च ॥२२२॥ चैत्यसाधुसमीपलक्षणस्थानद्वयानुसारेण शेषाण्यपि गृहादिस्थानानि सूचितानि, प्राग्व्याख्यापक्षे तु साधुसमीपमेव मुख्यत उक्तं, केवलमनेनैव 2 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy