SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ नवपद वृत्तिः मू.देव. वृ. यशो ॥२२॥ 'समाताभावश्च' तुल्यतापरिणामश्च य: तत् 'सामायिक मिति सम्बन्धः, समो-रागद्वेषवियुक्तस्तस्याऽऽयो-लाभो ज्ञानदर्शनचारित्रवः समाय: स एव । सामायिक, स्वार्थ इकण, चकारो भूतव्यतिरिक्तानुक्तमणिलेष्टुकनकादिपदार्थसमुच्चयार्थः, तत: सर्वेषु भूतेषु मण्यादिषु च समताभाव: सामायिकमिति गाथार्थ: ।। भेदद्वारमिदानीम् सम्मत्तसुयं तह देसविरइ तिविहं गिहीण सामइयं । इत्तरियमावकहियं अहवा दुविहं तयं नेयं ॥९४॥ सम्यक्त्वं च-तत्त्वार्थश्रद्धानरूपं श्रुतं च श्रुतज्ञानं सम्यक्त्वश्रुतं, समाहारत्वादेकत्वनपुंसकत्वे, तथाशब्द: समुच्चये, न केवलं सम्यक्त्वश्रुतं, & तथा देशविरतिः, प्राकृतत्वाल्लुप्तविभक्तिको निर्देश:, विरमणं विरति: देशस्य देशेन वा विरतिर्देशविरति:-स्थूलप्राणातिपातादिविरतिलक्षणा, एतत्, 'विविधं त्रिप्रकारं 'गृहिणां' वेश्मवतां 'सामायिक' प्राग्निरूपितशब्दार्थ, अयमत्र भावार्थ:- श्रावकाणां त्रिविधं सामायिक, तद्यथा-सम्यक्त्वसामायिक श्रुतसामायिकं देशविरतिसामायिकं च, यद्यपि च सर्वविरतिसामायिकमपि चतुर्थमस्ति तथाऽपि गृहिणां तस्यासम्भवात्रिविधमुक्तं, ननु सामायिकं नाम समभावरूपं प्रागाख्यातं, सम्यक्त्वश्रुतयोश्च श्रद्धानज्ञानरूपयोः कीदृशी समभावता?, ब्रूमः, यथावस्थितश्रद्धानज्ञानरूपे हि सम्यक्त्वश्रुते, यथावस्थितं च श्रद्दधानो जानानश्च समभाव एव, विषमभावनायां तु यथावस्थितत्वमेव श्रद्धानज्ञानयो स्ति, यद्वा रागद्वेषविच्युतस्य यो लाभ: स सामायिक, स च ४ सम्यक्त्वश्रुतयोरपि सतोर्निश्चयतो भवत्येव, यदुक्तमाचाराङ्गे-"जं मोणंति पासहा तं सम्मति पासहा । जं सम्मति पासहा तं मोणंति पासहा ॥१॥" ज्ञानेऽप्युक्तं-“तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रत: स्थातुम् ? ॥शा' इति, व्यवहारतस्तु सम्यक्त्वश्रुतयोरुपचरितमेव समभावत्वमिति । 'इत्तरिय' मित्याधुत्तरार्द्ध, अब च 'अथवा' प्रकारान्तरसूचनार्थः, तच्चेदं'द्विविध' द्विप्रकारं 'तत्' सामायिकं 'ज्ञेयं' ज्ञातव्यं, कथं द्विविधमित्याह-इत्वरं यावत्कथिकं च, तत्रेत्वरं-परिमितकालिकं यावत् साधून नियमं वा पर्युपासे । इत्यादि विहितकालावधि, यावत्कथिकं चोपसर्गप्राप्त: सामायिकं करोति, प्रियमाणेनापि न मया सावद्यमासेवनीयं, उपसर्गकारिण्यपि न क्रोधवशगेन | | भाव्यमित्यादिरूपमिति गाथार्थः ।। साम्प्रतं च यथा जायत इदं तथा कथ्यते ॥२२॥ कम्मक्खओवसमेण कयसामइओ जइव्व सो सम्मं । इय लाभदंसणेणं पुणो पुणो कुणइ सामइयं ॥१५॥ Jain Education international For Persona Private Use Only www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy