________________
नवपदवृत्ति: मू. देव. व. यशो
॥ २२० ॥
उपयुक्ताः दत्तावधानाः तदुपयुक्ताः, 'सम्यक्' अवैपरीत्येन ये तान् 'साधून्' श्रमणान् 'नमस्यामि' नमस्करोमि । अयमत्र समुदायार्थ:- ये सम्यक्चन्तनाद्युपयुक्ता यतनया चिन्तनादिकमपि कुर्वन्ति तान् साधून् नमस्यामि, तंत्र चिन्तनोपयोग उपयोगलक्षणोऽनादिनिधनः शरीरादर्थान्तरभूतः स्वयं कर्मणः कर्त्ता तत्फलोपभोगी च जीवो मया चिन्तनीयः, अजीवादिर्वा तल्लक्षणाद्युपेतो, अयं चाप्रवृत्तचिन्तस्योपयोगः, प्रवृत्तचिन्तस्य त्वेवं- किमहं शुभं चिन्तयाम्यशुभं वा ?, तत्र यदाऽनाभोगादिनाऽशुभं चिन्तयति तदा मिथ्यादुष्कृतदानपूर्वमनुतापगर्भमशुभं परित्यज्य शुभमेव पुनश्चिन्तयेत्, शुभचिन्तायामप्यपरापरपदार्थेषु गच्छच्चितं निवार्यम्, एकस्मिन्नेव वस्तुनि सूक्ष्मसूक्ष्मतरोपयोगेन धार्यामिति, करणोपयोगोऽपि एतत् चैत्यवन्दनाप्रतिक्रमणादि निरवद्यानुष्ठानं शास्त्रोक्तविधिना मया कार्यं, न पुनः सावद्यव्यापाररूपम्, अयमप्रवृत्तव्यापारस्योपयोगः, प्रवृत्तव्यापारस्य त्वहं न किञ्चित्सावद्यमाचरामि, अनुपयोगादिना सावद्याचरणेऽपि मिथ्यादुष्कृतदानपूर्वमनुतापगर्भं तत्त्यक्त्वा निरवद्यमेवानुष्ठातव्यं, तत्रापि तदुपरतये शक्तौ सत्यामभिग्रहसारं कायोत्सर्गादि विधेयमिति, शयनोपयोगस्त्वनागतो गुरुसकाशे मुखवस्त्रिकाप्रत्युपेक्षणपूर्वकं संस्तारकमनुज्ञाप्य बाहूपधानेन वामपार्श्वशायिना मया शयनीयं शयनप्रवृत्तौ तु न निसृष्टं शेते, सङ्कोचितपाणिपादस्तु
सितुं न शक्नोति तदा कुक्कुटीन्यायेन पादप्रसारणादि करोति, प्रत्युपेक्ष्य प्रमृज्य च स्थाने मुञ्चति, अविधिशयनादौ तु मिथ्यादुष्कृतादि पूर्ववदिति, यानोपयोगस्तु युगमात्रन्यस्तदृष्टिनाऽव्याक्षिप्तचित्तेन दृष्टिपूतपदन्यासं त्रसाद्यसंसक्तमार्गेणोत्पन्ने गुर्वादिकार्ये मया गन्तव्यं, प्रवृत्तगमनोपयोगस्तु यथाचिन्तितनिष्पादनमेवोपयुक्ततया, अनाभोगादिनाऽन्यथाकरणे मिथ्यादुष्कृतादि पूर्ववदेतत्, अतिप्रसङ्गनिवारणाय च तनूत्सर्गाभिग्रहोत्रापीति, जल्पनोपयोगः पुनः षोडशवचनविधिज्ञेनात्मपरहितमकर्कशमनवद्यं मया भाषणीयं तदपि कार्यापतितमेव, न निष्प्रयोजनम्, अन्यथात्वे तु पूर्ववद्, अतिप्रसङ्गनिवारणार्थ तु शुभाध्यवसायस्य मौनाभिग्रहग्रहणमिति गाथार्थ: ।। गतं भावनाद्वारम् एतद्भणनाच्च नवभिरपि द्वारैर्व्याख्यातमनर्थदण्डविरतिव्रतम्, अस्य व्याख्यायां च समाप्तानि त्रीण्यपि गुणव्रतानि, अधुना शिक्षाव्रतानां शिक्षापदाख्यद्वितीयनामवतामवसरः तानि च सामयिकादीनि चत्वारि, तान्यपि च यादृशादिनवद्वारैरेव प्रत्येकं वाच्यानि, अतः प्रथमं सामायिकव्रतं प्रथमद्वारेणाह
सावज्जजोगवज्जण निरवज्जस्सेह सेवणं जं च । सव्वेसु य भूएसुं समायाभावो य सामइयं ॥ ९३ ॥
सहावद्येन गर्ह्येण वर्त्तन्ते सावद्या: ते च ते योगाश्च व्यापाराः सावद्ययोगास्तेषां वर्जनं-त्यागः अनुस्वारलोपश्चात्र प्राकृतशैल्या, निरवद्यस्य ‘निष्पापव्यापारस्य पठनादेः 'इह' अस्मिन् शासने लोके वा 'सेवनं' अभ्यसनं यच्च तथा 'सर्वेषु' समस्तेषु 'च: ' पूरणे 'भूतेषु' प्राणिषु शत्रुमित्रादिरूपेषु
Jain Education ternational
For Personal & Private Use Only
स्वरूपद्वारं गा. ९३
॥२२०॥
Melibrary.org