________________
जे पुण अणत्यदंडं न कुणंति कयंपि कहवि निदंति । ते अंगरक्खसट्टो व्व सावया सुहनिही हुँति ॥८८॥ नवपदवृत्तिःमू.देव.
ये पुनरनर्थदण्डं निष्कार्यं शस्त्रप्रदानादि ‘न कुर्वन्ति' नो विदधति, ‘कृतमपि' रचितमपि 'कथमपि' अनुपयोगादेः 'निन्दन्ति' जुगुप्सन्ते ते वृ. यशो
'अङ्गरक्षणश्राद्ध इव' शरीररक्षानियुक्तकश्रावक इव 'श्रावका:' (ग्रं. ६५००) श्रमणोपासका: 'सुखनिधयः' सद्वेद्योदयनिधानानि भवन्ति' जायन्त इति | ॥२१७॥
गाथाऽक्षरार्थ: ।। भावार्थ: कथानकगम्यः, तच्चेदम्
पृथिवीप्रतिष्ठितनगरे गुरुप्रतापप्रसाधितप्रचुरमण्डलोरिदमनो राजा, तस्य जिनपालचन्द्रपालनामानौ सम्यग्मिथ्यादृष्टौ(ष्टी) अङ्गरक्षकावभूतां, तयोश्च खड्गव्यग्रकरयोः सततमेव राज्ञः शरीरेऽप्रमत्ततया रक्षाविधानमाचरतोरतिक्रान्त: कियानपि काल:, अन्यदा च नरपतिर्विजययात्रार्थ कटकनिवेशं कृत्वा नगराद्वहिर्व्यवस्थितः, तत्र च रात्रिप्रयाणकसञ्जाताकस्मिकसैनिकलोकसंभ्रमे कथञ्चित्तयोर्विस्मृतौ स्वस्वखड्गौ, अर्द्धपथप्रयातयोश्च स्मृतिमार्गमवतीर्णी, ततो जजल्यतुः परस्परं-आवयोस्तत्र विस्मृतौ कृपाणदण्डौ, तत: सम्यग्दृष्टिनोक्तं-भो चन्द्रपाल ! प्रत्यावृत्य पश्याव: पुनस्तत्स्थानमालभेवहि तत्स्थावेव तावसी, चन्द्रपालोऽब्रवीत्-न मे नृपतिप्रसादेन किञ्चिदूनमस्ति, यदि विस्मृतौ विस्मरतु नाम अन्यो भव्यतरो भविष्यति, ततो जिनपालेन चिन्तितंसत्यमेतदसौ ब्रूते, यदन्योऽपि भविष्यसि । नृपतिप्रसादतः खड्गः, किन्त्वसौ वेत्ति नेदृशम् ।।१।। पञ्चेन्द्रियवधप्रौढं, शस्त्रमेतदतोऽमुत: । महाऽनर्थोऽविधित्यक्तादिहामुत्र च संभवी ।।२।। तस्मादज्ञानतिमिरतिरोहितविवेकलोचनो यद्येष निर्ग्रहणतां करोति करोतु नाम, मम त्वनुजिनागमोपदेशसदौषधनिराकृताज्ञानतमस्तते: न युक्ता महानर्थहतोरेतस्योपेक्षा, ततो गतस्तत्स्थानं गवेषित: सर्वत्र पृष्टाश्च तत्प्रदेशवर्त्तिनो जना: न लब्धा काऽपि तच्छुद्धिः, ततो व्युत्सृज्यात्मीयपरिग्रहान्मण्डलाग्रं तत्स्थानासनवर्त्तिजनसमक्षं समागतो भूयोऽपि स्वकीयकटकदेशं, कालान्तरे च विजितप्रतिपक्षेण राज्ञा सह समाजग्मतुस्तौ स्वनगरमगरक्षौ, इतश्च-20 देशान्तरीयैः कैश्चित्प्राप्तौ खड्गौ, परिश्रमन्तश्च ते समाजग्मुस्तदेव नगरं, ददृशुश्च क्वचिद्रहःस्थितं कथञ्चित्प्रमत्तं राजपुत्रं, प्रारब्धो बन्दिग्रहेण ग्रहीतुमसौ | तैः, ततो विज्ञाततद्भावेन नरेन्द्रतनयेनारब्धं तैः सह प्रधनं, अन्योऽन्यप्रहारैश्च नृपसूनुस्ते च प्राप्ता निधनं, मिलितस्तत्र प्रभृतो लोकः, केनचिच्च राजपुरुषेण । ददृशाते तौ जिनपालचन्द्रपालनामाङ्कौ कृपाणौ, प्रच्छन्नीकृत्यार्पितौ नरपतेः, कथिता च पुत्रमरणवार्ता, विलोक्य तत्रामाङ्काविमौ आहूत: प्रथमं जिनपाल:
क्षितिपतिना, प्रदर्श्य भणितं-गृहाण स्वकीयं खड्ग, तेनोक्त-न मामकीनोऽयं, राज्ञा कथितं-कथं ?, तेनोक्तं-आत्मपरिग्रहान्मया व्युत्सृष्टत्वात्, ततो ॥२१७॥ KA निवेदित: प्राचीनवृत्तान्त:, तुष्टेन भूभुजा पूजितोऽयं, तत आकारितश्चन्द्रपालः, सोऽप्येवमेवोक्तो, न चासौ सूक्ष्मेक्षिकां कृतवान्, केवलं मदीयमेतदित्युक्त्वा
Jain Education international
For Persona
Private Use Only
www.jainelibrary.org