SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ नवपद | पालकेन-देव ! श्रमणकाभास एष रूकन्दको व्रतपराभग्न: समममीभिः साधुवषावश्वसनीयै राजपुत्रैः पुरन्दरयशोदेवीसङ्केतितो भवद्ग्रहणार्थमायात:, यदि अग्निदाने पनि प्रत्येषि तदाऽवलोकयैतदावासभूमौ निखातशस्त्रसमूह, ततो भूपालेन तद्वचनसंभाव्यमवधारयता प्रत्ययितनरव्यापारणेन सत्यापिते शस्त्रसमूहे कोपवशात् स्कन्दक व पालक एवादिष्ट:- यथैतेषां भ्रष्टाचाराणामुचितनिग्रहेण त्वमेव निग्रहं कुरु, ततो भूमिपतेरेतद्वचनं लब्ध्वा स पापात्मा रात्रावेवानाय्य मनुष्यपीलनयन्त्राणि वृत्तम् | पीलितुमारेभे वतिन:, आचार्यस्तु सोऽयं भगवत्तीर्थकरादिष्टः प्राणान्तिक उपसर्ग उपस्थितो भवतामिति सम्यग्भावेन सह्यताम् "अक्कोसहणणमारणधम्मभंसाण बालसुलभाणं । लाभं मण्णइधीरो जहुत्तराणं अलाभंमि ॥१॥" इति सिद्धान्तार्थमनुस्मद्भिर्भवद्भिरिति प्रतिपाद्य स्वसाधून् कारयामास आलोचनाव्रतोच्चारक्षामणादिविधि, किं बहुना ?, संपादयामास तेषां भावसमाधि, ततस्तेन पील्यमानानाममीषां प्रवर्द्धमानविशुद्धाध्यवसायसमुपारूढक्षपकश्रेणिक्षपित-घातिकर्मणामुदपादि केवलं, तत्क्षणमेव समुल्लसति जीववीर्यातिरेकसमासादितशैलेश्यवस्थानां च समजनि निर्वाणगमनं, सकलसाधुपर्यन्ते च लघुक्षुल्लकपीलनोद्यतं पालकं बभाण सूरि:- यथैते भवता मत्साधवः पञ्चशतसङ्ख्या : पीलिताः, केवलं संहननादिबलोपेतैरेतैः सम्यक् सोढस्त्वदपसर्गः, अयं च बाल: पील्यमानः किमपि करिष्यतीति न जानामि, तदेष तिष्ठतु तावन्मामेव प्रथमं पीलय येन न पश्याम्यहमेतद्दुःखं, ततोऽसाववगणय्य सूरिवचनं यथा महदुःखमस्य भवति तथा मया कर्त्तव्यमिति बुद्ध्या क्षुल्लकमेव पीलयामास, तत: कोपमुपागता: सूरयः पश्य दुष्टात्मनाऽनेन मदीयमेकमपि वचनं न कृतं तदस्ति यदि मनुचीर्णतपस: किञ्चित्फलं तदाऽहमागामिभवे भवेयं न केवलमेतद्वधाय, किन्तु राज्ञोऽपि सपौरपरिजनस्य, यतो राजाप्ययमेवंप्राय एव य एवंविधानां पापकर्मणामवकाशं ददाति, लोकोऽपीदृश एव य एवं कुसङ्गतिपरायणस्य नरपतेर्नगरे प्रतिवसति, एवं च कृतनिदानस्तेन पीलितो मृत्वाऽग्निकुमारेषूत्पन्न:, क्षुल्लकस्तु शेषसाधुवदाराधकः संवृत्तः, प्रभाते च तदीयरजोहरणं शकुनिकया रुधिरदिग्धं करभ्रान्त्या समुत्क्षिप्य नीयमानं भवितव्यतावशेन निपतितं पुरन्दरयशोदेवीभवने तदग्रतो, दृष्टं तया, हा न कुशलं मदीयभ्रातुरिति विचिन्तयन्ती यावदीक्षाञ्चक्रे तावदसावष्यग्निकुमारो भवप्रत्ययविभङ्गविज्ञातपूर्ववृत्तान्तो विकृत्य संवर्तकमहावातमष्टादशयोजनमध्यवर्तितृणकाष्ठकचवरद्विपदचतुष्पदादि नगरमध्ये प्रक्षिप्य प्रदाय प्रतोली लवामास ज्वलनं, पुरन्दरयशा अपि मम भगवान् मुनिसुव्रतस्वामी शरणमिति जल्पन्ती समुच्चिक्षिपे देवतया, नीता तीर्थकरसमीपं, गृहीत्वा प्रवज्यां क्रमेण प्राप्ता सुरलोकम्, इतरोऽपि ददाह तदशेषं नगरं, जातं च तत्र महादण्डकारण्यमिति । K80॥२१०॥ तदेवमस्य सद्विपदचतुष्पदादिविषयमग्निदानं तहिंस्रप्रदानमनर्थदण्डः, अयं च न कर्त्तव्य एव, बहुपापकारणत्वात्, तथा चान्यैरप्युक्तम्-"नादेयानि Jain Educatiemational For Personal & Private Use Only Trainasbrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy