SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ P नवपदवृत्ति:मू.देव. वृ. यशो ॥२०९॥ कोऽपि प्राप्तः, समागत्य निवेदितं नरेन्द्राय, गदितं चैकेन-देव ! यथोक्तगुणोऽयमेव विद्यते, ततः स एव तत्स्थानयोग्यः, आदिष्टो नरपतिना, नीतोk नियुक्तकैर्निहतस्तत्र, तत:-पापोपदेशवीक्षितदोषः प्रत्यक्षमेव कश्चिदपि । निजगाद जनस्याग्रे वैराग्यसमागतस्वान्तः ।।१।। यथा-हितं न वाच्यं त्वहितं न वाच्यं, हिताहितं नैव च भाषणीयम् । कोरण्टको नाम कपालभिक्षुर्हितोपदेशाद्विवरं प्रविष्ट: ।।२।। हिंस्रप्रदाने विष तावदुदाहरणम्-एकस्याश्चौरपल्लया: तस्करा विनिर्गत्य क्वचित्स्थाने धाटी पातितवन्तः, तत: प्रभूतं गोधनं गृहीत्वा स्वस्थानमागन्तुं प्रवृत्ताः, अन्तराले चास्तंगमनवेलायां प्राप्ता ग्राममेकं, तत्र केचिद्ग्राममध्यं मद्यमण्डकादिनिमित्तं गताः, केचिच्च बहिरेव लावकादिव्यापत्तिं कृत्वा मांसं प्रगुणितवन्त:, तदा च तेषामित्थं मन:परिणामोऽभवद्-यदि मध्यगता मार्यन्ते तदाऽस्माकमेव केवलानामिदं गोधनं भवति, मध्यगतानामप्ययमेव सङ्कल्पोऽभवद-यदि द्वारवर्त्तिनो विनाश्यन्ते तदाऽस्माकमेवेद गोधनं जायते, तत उभयैरपि परस्परमारणाध्यवसायेन स्वस्वपार्श्ववर्तिमद्यमण्डकमांसेष्वर्द्धार्द्धमात्रेषु विषं प्रक्षिप्य रात्रौ गोष्ठी कृता, समर्पितं च स्वस्वपदार्थार्द्ध विषसंयोजितं परस्परं, तदास्वादनेन च प्राप्ता मरणं, तन्मध्ये च कैश्चिद्रात्रिभोजननिवृत्तिः कृताऽभूत् ते तत्र न मृताः, गोधनस्य च तस्य स्वामिनो बभूवुः, सञ्जातधर्मप्रत्ययाश्च विशेषेण व्रतायुद्यता भूत्वा सुगतिभाजनं संवृत्ता इति । अग्नौ तु दृष्टान्त: श्रावस्तयां नगर्यां जितंशत्रुपुत्र: स्कन्दकाभिधान: कुमारो बभूव, तद्भगिनी पुरन्दरयशाः, सा च कुम्भकारकटनगरस्वामिना दण्डकिना राज्ञा परिणीता, कदाचिच्च जितशत्रुसमीपं समुपागतः पालकना। पुरोहितो नास्तिकवादी, नास्तिकमार्गप्ररूपणां कुर्वाण: रुकन्दकुमारेण सार्वज्ञमतावदातबुद्धिना निष्पृष्टप्रश्नव्याकरण: कृत: प्रद्विष्टो बभूव, निष्काशितो जितशत्रुणा, भवितव्यतावशेन गतो दण्डकिपार्श्व, स्कन्दकस्त्वन्यदा मुनिसुव्रतस्वाम्यन्तिके सञ्जातवैराग्यो राजपुत्रपञ्चशतपरिवार: प्रतिपेदे दीक्षां, क्रमेण गृहीतद्विविधशिक्षो गीतार्थो निवेशितः सूरिपदे, तान्येव पञ्च शतानि राजपुत्राणां संपन्ना शिष्यसम्पत्, विज्ञप्तोऽन्येाः स्वामी स्कन्दकाचार्य:-यथा भगवन् ! व्रजामि | युष्मदनुज्ञया पुरन्दरयश:प्रभृतिप्रतिबोधनाय कुम्भकारकटनगरं, भगवताऽपि मुनिसुव्रतस्वामिना निरदेशि-प्राणान्तिकस्तत्रोपसर्गः, तेनोक्तं-किमाराधनाफलो विराधनाफलो वा ?, तीर्थकरेणोदितं-त्वां मुक्त्वा शेषाणामाराधनाफलः, ततश्चलितोऽसौ तत्र स्वामिनमभिनम्य, पालकेनापि कथञ्चित्तदागमनमवबुध्यानागतमेव साधुयोग्योद्यानभूमौ निखातानि नानाविधायुधानि, प्राप्ताश्च क्रमेण विकालवेलायां तत्र सूरयः, पुरन्दरयशाश्च तदागमनमवबुध्यानन्दभरनिर्भरा तां शर्वरीमनेकमनोरथशतैरतिवाह्य प्रभातसमये समं राज्ञा गता वन्दनार्थ, विधिवदभिवन्द्य च दत्तवती कम्बलरत्नमाचार्याणां, सूरिभिरपि तद्विपाद्य कृतानि निषद्यापादप्रोञ्छनानि, राजा पुरन्दरयशा: पौरलोकश्च सूरिसमीप एव धर्मदेशनाश्रवणेनातिवाह्य कियतीमपि कालवेलां गताः स्वस्थानं, तत्र च रहो व्यवस्थितस्य राज्ञो विज्ञप्नं Jain Educatarnabonal For Personal & Private Use Only wwayameterary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy