SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥२०८॥ जिनबिम्बचैत्यालयादिकारणादिरूपः पुण्यव्यापार: प्राणिसार्थदुर्गतिपातवारणसुगतिस्थापनाम्यां तदर्थं तत्प्रयोजनं, इन्द्रियाणि - स्पर्शनादीनि तत्तुष्टिनिमित्तं स्पर्शादिविषया अपीन्द्रियशब्देन विवक्षिताः, विषयविषयिणोरभेदोपचारात् तत्प्रयोजनमिन्द्रियार्थं, स्त्रीभोजनताम्बूलाद्यर्थमिति तात्पर्य, स्वो जनः स्वजन:पितृमातृभ्रात्रादिस्तन्निमित्तं स्वजनार्थ, पित्रादिपुष्ट्यादिकृते इति हृदयं, 'जं कज्जं' ति यत्कार्यं दलानयनपृथ्वीखननकृषिवाणिज्यराजसेवाकरणादि शक्यानुष्ठानरूपं विधीयत इति शेषः 'तं तु होइ अट्टाए' तद् 'भवति' जायतेऽर्थाय सार्थकं सप्रयोजनमर्थदण्ड इत्यर्थः, 'विवरीयं तु'-त्ति विपरीतं यत्त्रयाणामेकमपि न साधयति, तुः पुनरर्थे अनर्थाय निष्प्रयोजनमनर्थदण्ड इति योऽर्थः, तृणलताछेदनकृकलाशमारणादिवत् 'तव्विरइ गुणव्वयं तइयं' ति तस्य अनर्थदण्डस्य विरमणं विरति:- परिहार:, किम् ? गुणव्रतम् - अनर्थदण्डव्रतनामकं तृतीयं 'तिण्णि गुणव्वयाणि, तंजहा- दिसिव्वय' मित्यादिसूत्रक्रमप्रामाण्यात् तृतीयस्थानवर्त्ति स्वरूपतो ज्ञेयमिति शेष इति गाथार्थः । इतोऽस्यैव भेदद्वारगाथा - पावोवएस १ हिंसप्पपाण २ अवझाण ३ गुरुपमायरियं ४ । भेया अणत्थदंडस्स हुंति चउरो जिणक्खाया ॥८५॥ पापोपदेशं हिंस्रप्रदानं अपध्यानगुरुप्रमादाचरितमिति अपध्यानं च गुरुप्रमादश्च तयोराचरितम् - आचरणम् अपध्यानगुरुप्रमादाचरितं, पापोपदेशश्च हिंस्रप्रदानं च अपध्यानगुरुप्रमादाचरितं चेति पुनर्द्वन्द्वस्तस्य च स्वपदप्रधानत्वादाचरितशब्दस्य प्रत्येकसम्बन्धनादपध्यानाचरितगुरुप्रमादाचरितलक्षणभेदद्वयाक्षेपाद्, ‘भेदाः’ विकल्पाः ‘अनर्थदण्डस्य' अप्रयोजनप्राणातिपातादिव्यापारस्य 'भवन्ति' जायन्ते 'चत्वारः' चतुः सङ्ख्या: 'जिनाख्याता:' सर्वज्ञोदिता इति गाथासङ्क्षेपार्थ:, विशेषार्थस्त्वयं पापोपदेशो नाम निष्कारणमाभीरादिलोकस्य कथञ्चिज्जल्पसंभवे वाह्यन्तां शकटानि दम्यन्तां गोरथका आरभ्यन्तां कृषिकर्माणि प्रवर्त्यन्तां विवाहाद्युत्सवा इत्यादिरूपप्रेरणं, हिंस्रप्रदानं विषाग्निशस्त्रादिवितरणम्, अपध्यानाचरितं चार्तरौद्रचिन्तानुगतं, यथा- जायन्तां मम लक्ष्म्यः संपद्यन्तामभीष्टशब्दाद्याः । म्रियतां वैरिकवर्गो भद्रं वा यन्मृतोऽयमिह ॥ | १ || गुरुप्रमादाचरितं तु गुडघृततैलादिदुःस्थगनादिकरणं मद्यद्यूतव्यसनविषयलाम्पट्यकषायवशवर्त्तितादि वा एतेषु च निदर्शनानि सिद्धान्तसिद्धान्यप्यत्र सूत्रे नोपात्तानि विस्तरभीत्या, अस्माभिस्तु स्थानाशून्यार्थं लिख्यन्ते तत्र पापोपदेशे यथाऽरिमर्दनराजेन तडागः खानितः, तत्र च जलं नावस्थिति धत्ते अनेकेष्वप्युपायेषु विधीयमानेषु, अन्यदा कोरण्टकनामा कपालभिक्षुर्नैमित्तिको राजसभामुपस्थितः राज्ञा चासौ पृष्टः यथा केन विधिनाऽस्मत्कारितसरसि पानीयस्थैर्य संपत्स्यते ?, तेनोदितं यदि कपिलकेशो विषमदन्तो वक्रनासो बृहत्कर्णश्च ब्राह्मणोऽत्र दीयते तत उदकमत्रावतिष्ठते, नृपेण च तदर्थिना तथाविधपुरुषानयनाय नियुक्ताः स्वभृत्याः, न च तैस्तादृशः For Personal & Private Use Only Jain Educhternational स्वरूपभेदद्वारे गा. ८४ ८५ ॥२०८॥ Melibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy