________________
'द्विविधं त्रिविधेन' न करोमि न कारयामि मनसा वाचा कायेनेत्येवंभङ्गकेन 'गुणव्रतं' प्रस्तावादुपभोगपरिभोगपरिमाणलक्षणं, तुशब्दो नवपटवभिङ्गकान्तरगृहीतस्याप्यस्योपदेशदानादिना भङ्ग इति विशेषणार्थः, 'घेत्तूणं' ति गृहीत्वा उपादाय 'ददाति' वितरति 'उपदेशं' तद्विषयं, यथा कुरुतेदं यूयं, वृ. यशो
अधिक वा' अर्गलं वा गृहीतप्रमाणापेक्षया परिभुङ्क्ते' अभ्यवहरति 'जानानः' अवबुध्यमानः 'तो'त्ति तत: 'भवेद्भङ्गः' जायेत व्रतविनाश:, एतदुक्तं ॥२०७॥
भवति-द्विविधत्रिविधभङ्गकेन रात्रिभोजनमांसभक्षणादिनियममादाय यो जानान एवान्यस्मै रात्रौ भुक्ष्व पिशितं वा खादेत्याधुपदेशं ददाति स्वयं वा नप्रमाणातिरिक्तं भुङ्क्ते तस्यैतद्वतभङ्ग एव, आकुट्टिप्रवृत्तत्वादिति गाथार्थ: ।। भावनाद्वारमिदानीम्
मलमइलजुन्नवत्यो परिभोगविवज्जिओ जियाणंगो। कइया परीसहच{ अहियासंतो हु विहरिस्सं ॥८३।।
मलेन मलिनं मलमलिनं-मालिन्योपहितं जीर्ण च-पुरातनं वस्त्रं-वासो यस्य स मलमलिनजीर्णवस्त्र: परिभोगेन-स्त्र्यादिविषयसेवालक्षणेन विशेषेणमनोवाक्कायैः कृतकारितानुमतिलक्षणैवर्जितो-रहितः परिभोगविवर्जितः, यद्वा परिभोगो विवर्जितो येनेति बहुव्रीहिः, न चात्र क्तान्तस्य पूर्वनिपातः प्रेयः, अग्न्याहितादिषु दर्शनात्, तथा जित:-पराभूतोऽनङ्ग:-कामो येन स जितानङ्गः, विशेषणद्वारेण परिभोगविवर्जितत्वे हेतुरेषः, भावना चैवं-परिभोगवर्जितः | कुत:?, यतो जितानङ्गः, यद्वा परिभोगविवर्जित इत्यनेन मदनकामरहितत्वमुक्तं, जिताऽङ्ग इत्यनेन त्विच्छाकामत्यागः, एवंभूत: सन् ‘कदा' कस्मिन् काले । कर्मनिर्जरार्थं परिषोढव्याः परीषहा:-क्षुत्पिपासादयो द्वाविंशतिः, यदुक्तम्-"खुहा पिवासा सीउण्हं, दंसाचेलाऽरइथिओ। चरिया निसीहिया ४ सेज्जा, अक्कोस वह जायणा ॥१॥ अलाभ रोग तणफासा, मल सक्कारपरीसहा । पण्णा अण्णाण सम्मत्तं, इय बावीस परीसहा ॥२॥" एत एवातिदुर्जयत्वात् चमू:-सेना परीषहचमूस्ताम् 'अहियासंतो' त्ति अधिषहमानस्तयाऽभज्यमान इति भावार्थः 'हु:' पूरणे विहरिष्यामि' विचरिष्यामि, सुसाधुक्रियायुक्तो गुरुभिः सह संयमानुष्ठानपरायणः क्षुधादिपरीषहाच्यावितसत्त्व: कदा चर्यां करिष्यामीति भावनेति गाथार्थः ।। उक्तं नवमं द्वार, तत्प्रतिपादनाच्चोपभोगपरिभोगाख्यं द्वितीयं गुणव्रतं, साम्प्रतमनर्थदण्डाख्यतृतीयगुणव्रतस्य प्रस्तावः, तदप्येतैरेव नवद्वारैर्वाच्यम्, अत: प्रथमेन तावदाह
धम्मिदियसयणट्ठा जं कज्जं तं तु होइ अट्ठाए। विवरीयं तु अणट्ठा तव्विरइ गुणव्वयं तइयं ॥८४॥
इहार्थदण्डप्ररूपणायां तद्विपर्ययरूपोऽनर्थदण्ड: सुखावसेयो भवतीतिबुद्ध्या पूर्वार्द्धनार्थदण्डं प्ररूप्य शेषेणानर्थदण्डातिदेशपूर्वं प्रस्तुतगुणव्रतस्वरूपमाहKधर्मेन्द्रियस्वजनशब्दानां कृतद्वन्द्वानामर्थशब्देन बहुव्रीहिः, ततोऽर्थशब्दो द्वन्द्वात्परस्थ: प्रत्येकं संबध्यते, धर्मार्थमिन्द्रियार्थं स्वजनार्थमिति, तत्र धर्मो
Jain Education International
For Personal & Private Use Only
www.
brary.org