SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥ २०६॥ यासां बहुतरभक्षणेऽपि स्तोकैव तृप्तिः यथा चवलकवल्लफलीप्रभृतयः तासां तुच्छौषधीनां 'भक्षणं' अभ्यवहरणं 'इह' व्रते 'वर्जयेत्' त्यजेत् ‘पञ्चाांतिचारान्’ पञ्चसङ्ख्यव्रतविराधनाविशेषान्, अत्र कश्चिदाह-यद्युत्सर्ग सचित्तवर्जक: श्रावको भवति तदा सचित्ताहारेण तस्य भङ्ग एव भविष्यति, कथमतिचारत्वमत्र ?, उच्यते यस्तु प्रथममेवेत्यादिनैवास्य प्रतिविहितत्वात्, तथाहि योऽनाभोगसहसाकाराभ्यामतिक्रमादिभिर्वा सचित्ते प्रवर्त्तते तस्य तद्वर्जकस्याप्यतिचारत्वं, सचित्तप्रतिबद्धाहारस्य त्वन्यथाऽप्यतिचारत्वं संभाव्यते, यदाऽस्थिकं त्यक्ष्यामि कटाहं तु भक्षयिष्यामीतिबुद्ध्या पक्वखर्जूरादिफलं मुखे प्रक्षिपति तदाऽऽभोगेनापि व्रतसापेक्षत्वात्सचित्तप्रतिबद्धाहारातिचारः, अपरस्त्वाह- अपक्वौषधयः सचेतना अचेतना वा ?, यदि सचेतना तदा सचित्तमित्यादिपदेनैवोक्तार्थत्वात्पुनर्वचनमसङ्गतं, अथाचेतनास्तदा कोऽतिचारो ?, निरवद्यत्वात्तद्भक्षणस्येति, अत्रोच्यते, सत्यमेतत्, किन्त्वाद्यावतिचारौ | सचेतनकन्दफलादिविषयौ इतरे तु शाल्यौ (ल्याद्यौ ) षधिविषया इति विषयकृतो भेदः, अत एव मूलसूत्रे 'अप्पउलिओसहिभक्खणया' इत्याद्युक्तं, | अतिचारत्वभावना त्वनाभोगादिना कार्या, यद्वा कणिक्कादेरपक्वतया संभवत्सचित्तावयवस्य षिष्टत्वादिनाऽचेतनमिदमितिबुद्ध्या भक्षणं व्रतसापेक्षत्वादतिचारः, दुष्पक्वौषधिभक्षणं तु पृथुकादेर्दुष्पक्वतया संभवत्सचेतनावयवस्य पक्वत्वादचेतनमितिबुद्ध्या भुञ्जानस्यातिचारो, ननु तुच्छौषधयोऽपक्वा दुष्पक्वाः सम्यक्पक्वा वा ? यद्याद्यपक्षौ तदा तृतीयतुर्याभ्यामेवास्योक्तत्वात्पुनरुक्तत्वदोषः, अथ सम्यक् पक्वास्तदा निरवद्यत्वादेतद्भक्षणस्य नातिचारत्वम्, सत्यं, किन्तु यथाऽऽद्यद्वयोत्तरद्वययोस्तुल्येऽपि सचित्तत्वेऽनौषध्यौषधिकृतो विशेष : एवमत्र सचेतनत्वौषधित्वाभ्यां समत्वेऽप्यतुच्छतुच्छत्वकृतो विशेषः, तत्र च कोमलमुद्गादिफलीफलिकाखादकोदाहरणप्रतीतविशिष्टतृप्त्यकारकत्वेन तुच्छाः सचेतना एवानाभोगातिक्रमादिना भुञ्जानस्य तुच्छौषधिभक्षणमतिचारः, अथवाऽत्यन्तावद्यभीरुतयाऽचित्ताहारताऽभ्युपगता, तत्र च यत्तृप्तिकारकं तदचेतनीकृत्यापि भक्षयतु, सचेतनस्यैव वर्जनीयत्वाभ्युपगमात्, यत्पुनस्तृप्तिसम्पादनासमर्था अप्यौषधीर्लोल्येनाचेतनीकृत्य भुङ्क्ते तत्तुच्छौषधिभक्षणमतिचारः, तत्र भावतो विरतेर्विराधितत्वाद् द्रव्यतस्तु पालितत्वाद्, एवं. रात्रिभोजनमांसादिव्रतेष्वप्यनाभोगातिक्रमादिभिरतिचारा भावनीयाः, यद्वाऽशनेऽनन्तकायसम्मिश्रं पाने मद्यादिपानं खाद्ये वृन्ताकादि स्वाद्ये त्रससंसक्तताम्बूलपत्रादि गृहीतोपभोगपरिभोगव्रतेन श्रावकेण त्याज्यमतस्तदासेवनेऽप्यनाभोगातिक्रमादिना कस्यचित्केचनातिचारा वाच्याः, विचित्रत्वाद्व्रतस्य गाथोक्तसचित्तादिपदानामुपलक्षणत्वादिति गाथाऽर्थः । अतिगतमतिचारद्वारं, भङ्गद्वारस्येतोऽवसरस्तत्रेयं गाथा दुविहं तिविण गुणव्वयं तु घेत्तण देइ उवएसं । अहियं वा परिभुंजड़ जाणंतो तो भवे भंगो ॥ ८२ ॥ Jain Educalionernational For Personal & Private Use Only भंगो भावना च गा. ८२८३ ॥ २०६॥ www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy