________________
नवपदवृत्ति: मू. देव. वृ. यशो
॥२०५॥
तत्र शिवजन्मविरचितमहातपञ्चरणफलमेतत्, एतच्च भगवतो महावीरस्य श्रेणिकाग्रे निवेदयतः श्रुत्वा वचनं जम्बूद्वीपाधिपो जम्बूवृक्षविहितनिवासोऽनादृताभिधानो देव: अहो ! ममोत्तमं कुलमिति त्रिपद्यास्फालनपूर्व जम्बूवृक्षहस्तोऽनेकयक्षयक्षिणीपरिवारो नर्त्तितुमारेभे ततः श्रेणिकेनोक्तं-कोऽयं किंनिमित्तं च नृत्यति ?, भगवानुवाच श्रेणिक ! शृणु अत्रैव नगरे बभूव मूर्त्तिमतिर्नामेभ्यः, तत्पुत्रौ वृषभदत्तजिनदत्तावभूतां, तयोश्च जिनदत्तोऽतिव्यसनी वृषभदत्तश्च शिष्टः, ततः पित्रा स एव गृहस्वामी विहितः, इतरश्च निष्काशितः सकलजनसमक्षं स्वगृहात्, ततोऽसौ द्यूतादिप्रसक्तः कदाचिद् द्यूतशालायां द्यूतकारैः समं रममाणक्वचिद्विसंवादे हतः क्षुरिकयैकेन द्युतकारेण मर्मदेशे, ज्ञातो वृषभदत्तेन नेतुमारब्धः प्रतिजागरणाय स्वगृहं, न च गतोऽसौ ततस्तत्रैव दत्तानशनो नमस्काराद्याराधनाकारणपूर्वं नियमित उदपादि जम्बूद्वीपस्वामी यक्षनिकायेऽनादृतनामा यक्षः, अयं चात्मीयभ्रातृजस्य जम्बूस्वामिनो भाविनीं कल्याणमालिकां निशम्य हर्षातिरेकादेवं नृत्यति पुनः श्रेणिक उवाच भगवन् ! विद्युन्मालिदेवस्य प्राग्जन्मगुरुर्जन्मान्तरभ्राता सागरदत्ताचार्यो व्रतमनुपाल्य क्व गतः ?, स्वामिना निरदेशि-उत्पाद्य विमलकेवलमवबोध्य विशिष्टभव्यसङ्घातम् । सिद्धिपुरीं सम्प्राप्तो व्यपगतकर्मा महात्माऽसौ ||१|| प्रकृतोपयोगिशिवभवसम्बन्धेनात्र लेशतः कथितम् । चरितं जम्बूनाम्नस्तच्चरिताद्विस्तरो ज्ञेयः ॥ २॥ उक्तमुपभोगपरिभोगपरिमाणकरणे गुणद्वारम् अधुनाऽस्यैव यतनाद्वारमुच्यतेजत्थ बहूणं घाओ जीवाणं होइ भुज्जमाणंमि । तं वत्युं वज्जेज्जा अइप्पसंगं च सेसेसु ॥ ८० ॥
'यत्र' यस्मिन् वस्तुनीत्याद्यर्थसम्बन्धाद्गम्यते 'बहूनां' प्रचुराणां 'घात' विनाश: 'जीवानां' प्राणिनां 'भवति' जायते 'भुज्यमाने' आसेव्यमाने ‘तद्वस्तु’ तं प्रदार्थं ‘वर्जयेत’ परिहरेत्, 'अतिप्रसङ्गं च' अतिशयासक्ति च 'शेषेषु', अन्येषु, एतदुक्तं भवति यत्र वस्तुनि त्रससंसक्तफलादौ भुज्यमाने प्रभूतसत्त्वव्यापत्तिस्तद्वस्त्वेव परिहार्य, शेषे त्वसंसक्तेऽल्पपापे पुष्पफलादौ नात्यासक्तिः कार्येति गाथार्थ: ।। अतिचारद्वारमिदानीम्
सच्चित्तं पडिबद्धं अपउलदुप्पउलियं च आहारं । तुच्छोसहीण भक्खणमिह वज्जे पंच अइयारे ॥ ८१ ॥
इह गृहीतोपभोगपरिभोगव्रत: श्रावक उत्सर्गेण निरवद्यमेवाहारमभ्यवहरति, तदप्राप्तौ कृतादिदोषदुष्टमपि निश्चेतनं, तदसंभवे तु बहुबीजानन्तकादिरहितं सचित्तमपि, यस्तु प्रथममेव सचित्तमनाभोगादिभिरभ्यवहरति तदपेक्षयाऽमी अतिचाराः संभाव्यन्त इत्यत उच्यते- सचित्तं' सचेतनं मूलकन्दादि, तथा 'प्रतिबद्धं' संबद्धं स्वयमचेतनमेव चेतनावद्वृक्षे गुन्दादि पक्वफलादि वा, तथा 'अपडलं' त्ति अपक्वम (क्वं स ) चित्तं यन्मूलत एवाग्निना न संस्कृतं 'दुप्पउलियं च ' ति दुष्पकं च- अर्द्धस्विन्न, आहारमिति सर्वत्र योज्यते, तेन सचित्तमाहारं सचित्तप्रतिबद्धमाहारमित्यादि, तुच्छा:- असारा औषधयस्तुच्छौषधयो
For Personal & Private Use Only
Jain Education International
॥२०५॥
www.jainelibrary.org