________________
नवपद
वृत्ति: मू. देव.
वृ. यशो
॥ २०२॥
(ग्रं. ६०००) वस्त्राभरणमाल्यादिव्यग्रहस्तः समागन्तुं प्रवृत्तः पुरजनो, हर्षभरनिर्भरो गीतनृत्तादिचेष्टाः कर्त्तुमारब्धो विलासिनीसार्थः, अपिच दीयमानघनदानसमूहं, मुच्यमानबहुबन्धनगेहम् । तोष्यमाणविविधार्थिविशेषं, रच्यमानगुरुदेवसुतोषम् ||१|| एवंविधवर्द्धनकं नृपतिर्द्वादश दिनान्यनुविधाप्य । गर्भस्थितेऽत्र शिवमजनितेन शिवनाम तस्य ददौ ॥ २ ॥ क्रमेण च प्रवर्द्धमानो देहोपचयेन समुपात्तनि: शेष कलाकलापः प्राप्तस्तारुण्यं सह वयस्यैरभिरममाणस्य प्रीत्या जगाम कियानपि कालः, अन्यदा सकलसुरासुरमनुष्यविद्याधरादिलोकप्रवर्त्तितविविधोत्सवः समायातो वसन्तसमयो, यत्र- कोकिलकुलकलरवगीतजनितजननिवहमानसानन्दा | सहकारमञ्जरीरेणुरञ्जिताभाति मधुलक्ष्मीः || १ || तस्मिंश्च शिवकुमारो निजमित्रवृन्दसमन्वितः क्रीडानिमित्तं ययौ चन्द्रकिरणोद्यानं, तत्र चापश्यत् कनककेतो राज्ञः प्रियङ्गुश्यामाया महादेव्याः कनकवतीदुहितरं, या च निःशेषाङ्गोपाङ्गप्रतिष्ठितप्रवरलक्षणशरीरा । अपहरति मनो नूनं विलोकिता मुनिजनस्यापि ||१|| तस्या दर्शनमात्रेणैव शिवकुमार ः स्मरशरप्रहारजर्जरितमानसो विचिन्तयामास यथा यथाऽसौ प्रविलोक्यमाना, विवेश मे मानसमस्तदोषा । तथा तथा चापनिवेशितेषुः करोत्यनङ्गो निखिलाङ्गबाधाम् ||१|| अत्रान्तरे तयाऽप्यपरापरतरुविलोकनकुतूहलेन परिचरणमाचरन्त्या चन्दनलतागृहान्तरितो मूर्त्तिमानिव मकरध्वजो ददृशेऽसौ तदनन्तरं कुसुमकेतुरोपपञ्चकोपघातविवशीकृता साऽपि लक्षिता सखीजनेन कथंकथमपि नीता गृहं ज्ञापितश्चायं वृत्तान्तस्वज्जनन्याः तया च स्वभर्तुः, ततः क्रमेण द्वयोरपि गाढानुरागजायमानसङ्गमाभिलाषयोः कनककेतुना गत्वा पद्मरथसमीपं प्रदाय स्वसुतां शिवकुमारस्य प्रशस्ततिथिकरणलग्नमुहूर्तेषु कारितं महाविभूत्या पाणिग्रहणं, तया सह विषयसुखमनुभवता परिणीता अन्या अप्युदग्रयौवना निरुपमरूपलावण्यादिगुणगणोपेता अनेका महासामन्तदुहितरः, ताभिः सहानेकप्रकारजीवलोकसारक्रीडाविकारपरायणस्यान्यदा समाजगाम श्रमणसमूहसमन्वितस्तन्नगर्यामेव सागरदत्तसूरिः, आवासितो लक्ष्मीनन्दनाभिधानोद्याने, प्रारब्धं च तत्र तेन मासक्षपणं, इतश्च तस्यामेव नगर्यामासीत् निजविभवपरितुलितवैश्रमणः कामसमृद्धो नाम सार्थवाहः, तस्यान्यदा भोजनसमये समुदपादीयं चिन्ता, यदुत - अस्मत्सदृशाः केचन दूरपरित्यक्तमरणसंत्रासा: । अजरामरा इवोच्चैः कुर्वन्ति धनार्जनं मूढाः ||१|| अगणितशीतोष्णभयास्तरन्ति जलधिं धनाशया पुरुषाः । प्रविशन्ति च भटसङ्कटसङ्ग्रामेऽत्यन्तभयजनके ॥ २ ॥ किं बहुना ? दुष्करतरमिह यत्तत् सर्वमेव विभवार्थी । विदधाति भवति चासौ प्रहीणलाभान्तरायस्य || ३ || अपिच एवं कष्टोपार्जितमपि यदि तद्भवति साधुलोकस्य । उपकाराय द्रव्यं तद् भवेत्सफलमेवैतत् ||४|| यतः किं प्रचुरयाऽपि लक्ष्म्या तया न या यतिजनोपयोग्या स्यात् । कृपणप्राणप्रियया संसारविवृद्धिकारिण्या ॥५॥ एवं च चिन्तयतोऽस्य भवितव्यतानियोगेन समाजगाम मासोपवासपारणार्थं सागरदत्तमुनिवरो गृहद्वारं, दृष्टः प्रमोदोत्फुल्ललोचनेनासौ, अनेनाभ्युत्थायाभिवन्द्य
J॥ २०२॥
For Personal & Private Use Only
Jain Educaternational
शिवकुमारवृत्तं
library.org