________________
नवपदतिमदेव वृ. यशो ॥२०॥
॥१॥ हरगलगवलच्छायैर्जलदैराच्छादितं तथा गगनम् । उदयास्तमयौ लोकैर्यथा न तरणे: प्रतीयेते ।।२।। निनाथमिवेलातलमशेषमनुताप्य मद्वियोगेऽसौ। क्व नु यास्यतीति मेघो गर्जति तज्जेतुमिव निदाघम् ।।३।। क्षणदृष्टनष्टरागास्तडिल्लता: खलजनस्य मैत्र्य इव । न तथा प्रकाशतोषं जनयन्ति यथा समुद्वेगम् ।।४।। एवंविधघनसमयेऽतिक्रान्ते च क्रमेण संप्राप्त: । कमलवनबन्धुभूतो विकाशिकाश: शरत्काल: ।।५।। यस्मिन्नुत्फुल्लकुवलयाक्षी विकशितसत्कुमुदहासिनी जाता । अनुरागाद्भूमिवधूः प्रियमिव लब्ध्वा शरत्समयम् ॥६।। उच्छलितविमलतारकदशनोज्ज्वलकिरणपूरितदशाशम् । हसितं शारदलक्षम्या सद्यो निजदयितसङ्ग इव ॥७।। ईदृक्षशरत्समये सागरदत्तो निजप्रियायुक्तः । प्रासादशिखरवर्ती क्रीडनवलोकयाञ्चके ।।८।। विद्रुमवर्ग क्वचिदपि शिखिकण्ठसमप्रभं क्वचित्क्वापि । उत्तप्तसुवर्णनिभं कुत्रापि शशाङ्कबिम्बसमम् ।।९।। इत्थं विचित्रवर्णकरमणीयमदभ्रमाभ्रसङ्घातम् । क्षणमात्रेण विलीनं ज्ञात्वा तं चिन्तयामास ॥१०॥ यथाऽयं मेघसङ्घातो, दृष्टनष्टो नभोऽङ्गणे । तथा सांसारिका भावाः, सर्वेऽमी क्षणनश्चराः ।।११।। तदेषु नोचिता कर्तुं, क्वचिदास्था विवेकिभिः । किन्तु नि:शेषसद्धर्मकर्मण्येव शिवप्रदे ।।१२।। एवं चिन्तयतोऽस्य विलोक्य वैराग्यविच्छायवदनकमलमुक्तं सप्रणयं प्रणयनीभि:-प्रियतम ! किमेवं मुहूर्त्तमात्रेणैवोद्विग्न इव विरक्त इव निर्विण्ण इव मुनिरिव कृतमौनव्रतो लक्ष्यसे ?, सागरदत्तेनाभाणि-विलोक्य शारदं मेघमुत्थितं गगनाङ्गणे । क्षणेन विलयं यान्तं, भीतोऽहं भवविस्तरात् ।।१।। यत:-देहः स्वजनसम्बन्धो, यौवनं राज्यसम्पदः । पश्यतामेव संसारे, ध्वंसमायान्ति देहिनाम् ।।२।। तदनेन शरीरेण, क्षणनश्वरधर्मणा । जिनदीक्षां गृहीत्वा चेत्क्रियते निर्मलं तपः ॥३।। तदैव जन्मसाफल्यं, मन्येऽहमिति | तद्वचः । श्रुत्वा ता आहुरेवं चेद्विलम्बः क्रियते किमु? ॥४|| विज्ञाय यतो धीरा: पटुपवनविधूतजलधिजलतरलम् । जीवितमनिधनशिवसुखकृताभिलाषाश्चरन्ति तपः ।।५।। सागरदत्त: प्राह-यद्येवं तर्हि विमोच्य पितरौ कुर्म एवं, ततो गतो मातृपितृसमीपं, महाकष्टेन मोचयित्वाऽऽत्मानममृतसागरसूरिसमीपे जग्राह सह प्रियाभिर्दीक्षां, स्वल्पकालेनैवोपातद्विविधशिक्षोऽशेषश्रुतोदधिपारप्राप्तो निलोल्लासितावधिज्ञानो निवेशितो गुरुणा निजपदे, व्याजहार शिष्यगणसंपरिवृत: प्रतिबोधयन् भव्यलोकसनातं, इतश्च-भवदेवसाधुजीवो देवायुष्कं सौधर्मकल्पे स्वोचितमनुभूय स्थितिक्षयेण ततश्च्युतः पुष्कलावतीविजये वीतशोकायां KB नगर्यां पद्मरथस्य राज्ञो वनमालाया महादेव्या गर्भऽवततार, तदनुभावाच्च, सा दानपरा सत्त्वेषु सुप्रसादा परिजने विनीता गुरुषु अनुकूला यतिषु दयापरा जीवेष्वधिकलावण्योपचयेनात्यन्तविराजमानदेहाभोगा समनि, कदाचिच्च परिपूर्णदिनेषु विजाता तनूजं, निवेदितं तज्जन्म प्रियंवदाभिधानचेट्या राज्ञः, तेन च परितोषवशोपजायमानरोमाञ्चकञ्चुकोद्गाढमवतार्य स्वाङ्गलग्नाभरणजातं दत्तमस्यै, प्रारब्धं च महाविभूत्या वर्दापनकं, तत्र चाक्षतपान!
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org