________________
नवपद
भवदेव K शक्नोमि प्रथमालिकां विनाऽऽसितुमित्यादि यावन्नाहमलमविरतिकां विना स्थातुं' ततोऽस्य पुनः पुनस्तामेव वचनरचनामाकर्णयतोऽभूदिदं चेतसि-यथा / वृत्ति:मू.देव.
श्रुतपूर्वा मयेयं वर्णावली, रूपं चैतद्वृष्टपूर्वमिव ममाभाति, एवमीहापोहमार्गणगवेषणं कुर्वतस्तदावरणीयकर्मक्षयोपशमेन जातं जातिस्मरणं, ततो जीवसागर विज्ञातपूर्वभववृत्तान्तो गतः संवेगं, स विरक्त: संसारवासस्य, अत्रान्तरे प्रकटित आत्मा देवेन कृता धर्मदेशना परिणता भावसारं प्रतिपन्नाणुव्रत:
दत्त वृत्ते ॥२०॥ कृतभक्तप्रत्याख्यान: शुभध्यानोपगत: पञ्चनमस्कारपरायणः स्थित्वा दिनद्वयं तृतीयदिवसे मृतो जात: सौधर्मदेवलोके देवत्वेन महिषः, सुरस्तु गत:
स्वस्थानम् । एवं च ज्ञात्वा दुरन्तविषया विवर्जनीया जिनमतकुशलेन, अपिच-परत्रामुत्र च प्राप, यथाऽसौ विप्रपुत्रक: । दुखं तथा व्रतभ्रष्टो, मा प्रापस्त्वमपीदृशम् ।।१।। इत्थं संबोधितो नागिलया भवदेवसाधुर्गत: परमवैराग्यं, अत्रान्तरे नागिलयैव सह समागताया ब्राह्मण्या: सुतेन भणिता जननी, यथा-मात: ! मम वमनं भवितुकाममालक्ष्यते तदानय शीघ्रं किमपि भाजनं येन तत्र वमित्वाऽतिमिष्टं पायसं पुनक्ष्येि, ब्राह्मण्योदितं-वत्स ! नैतदुचितं, यतोऽतिमिष्टमपि यद्वान्तं न तत्परिभुज्यतेऽशुचित्वात्, तच्च श्रुत्वा भवदेवेन चिन्तितं-सुष्ठूक्तं ब्राह्मण्या-यद्वान्तं न तत्परिभुज्यते, मयाऽपि वान्ता | विषयास्तदिदानी कथं पुनरभिलषामीति विचिन्त्य प्रत्यागतसंवेग: सती प्रेरणा भवत्या सुष्ठु प्रतिबोधितोऽहं त्वयेति प्रतिपादयन् दत्त्वा मिथ्यादुष्कृतं | नागिलाया गतो गुरुसमीपं तत्रालोचितप्रतिक्रान्तो भावसारं चरित्वा चिरं तपोऽनशननमस्कारादिविधिना कालमासे कालं विरच्य सौधर्मदेवलोके शक्रसामानिको
देवो जातः । इतश्च तदीयपूर्वभवभ्राता भवदत्तजीवदेव: स्थितिक्षये च्युत इहैव जम्बूद्वीपे पुष्कलावतीविजये पुण्डरीकिण्यां नगर्यां वज्रदत्तचक्रवर्तिनः | प्राणप्रियाया यशोधरामहादेव्या: क्रियमाणेष्वनेकदेवतानां विविधोपयाचितशतेषु विचित्रमन्त्रतन्त्राद्युपायेषु विरच्यमानेषु प्रचुरबलिकर्मसु अपुत्राया: पुत्रत्वेनोत्पेदे, | गर्भगते च तस्मिन् मातुः समुद्रमज्जनकदोहदोत्पादे तत्पित्रा वज्रदत्तचक्रवर्त्तिना समुद्रप्रख्यसीतामहानदीनयनपुरःसरं तन्मज्जनककारणेनापनीतो दोहदो, निर्वृत्तमानसा च क्रमेणोचितसमये प्रसूता सुकुमारपाणिपादं दारकं, मासपरिपूर्ती च तस्य दोहदानुरूपं कृतं सागरदत्त इति नाम, धात्रीपञ्चकप्रतिचर्यमाणश्च प्राप्तो देहोपचयेन कलाकलापेन च वृद्धिम् उपारूढो यौवनं पूर्वभवाभ्यासेन जननीजनकजिनधर्मकुशलत्वेन च जातो जिनशासनभावितमतिः, परिणायितश्च
पितृभ्यामुदाररूपयौवनविज्ञानकलाकलापशालिनी, महासामन्तकन्या: समं ताभि: कदाचित्प्रहेलिकाप्रश्नोत्तरादिविनोदेन कदाचिज्जिनभवनेषु विशिष्टयात्रास्नात्राK/ दिविधापनेन कदाचिन्मुनिजनोपदिश्यमानसद्धर्मरहस्यश्रवणेन कदाचित्सकलजीवलोकसारविषयसुखनिषेवणेन निनाय सुखेनानेकवर्षकोटिलक्षान्, अन्यदा
8॥२००॥ Kच सर्वसत्त्वानन्दकारक: समाजगाम प्रथमघनसमयो, यत्र-निपतदतुच्छनिरन्तरधाराजलपूरपूरितपृथिव्याम् । निम्नोन्नता विभागा लक्ष्यन्ते नैव पथिकजनै: KH
Jain Edu
a ternational
For Personal & Private Use Only
Rapelibrary.org