________________
नवपद
वृत्ति: पू. देव. वृ. यशो
॥ १९९ ॥
Jain Educati
प्रवर्त्तमानस्यास्यातिचक्राम प्रभूतः कालो, मरणपर्यवसानतया जीवलोकस्य कदाचिदुपरता भट्टिनी, तद्वियोगदहनदंदह्यमानमानसश्च भूतापहृतहृदय इव सन्निपातविचेतनीकृत इव किंकर्त्तव्यतामूढः स्थितः कानिचिद्दिनानि अन्येद्दुश्चिन्तितमनेन यस्य धर्मार्थकामानामेकोऽपि न हि विद्यते । अजागलस्तनेनेव, जन्मना तस्य को गुणः ? ॥१॥ तदिदानीं मे सकलजन्तुनिकृष्टस्य प्रियप्रणयिनीविप्रयुक्तस्यापुण्यचडामणेर्मरणमेव श्रेयः अथवाऽकृतसुकृतानां मरणेनापि किं ?, तस्मात्तावद्विदधामि नानाविधतीर्थावलोकनं, तेषु च पुण्यस्थानेषु स्नातो विधूतपापो यदि मरणमाराधयामि तथाऽपि न दोष इति विचिन्त्य यथाप्राप्ति प्रदाय कन्याफललिप्सया ब्राह्मणदारकेभ्यः स्वपुत्रिकाः समं तेन लघुना तनयेन चलितस्तीर्थयात्रायां, लघुकर्मतया च कथञ्चित्तथाविधभवितव्यतावशेन जातं तस्य कदाचित्क्वचित्साधुभिः सह दर्शनं श्रुतस्तत्समीपे धर्मः परिणतो भावसारं, गृहीता दीक्षा सहैव पुत्रेण पालयत्युद्यतविहारेण गच्छत्सु दिनेषु क्षुल्लकोऽपि प्राप्तो यौवनं कर्तुमारब्धो विचित्रविकारान्, याचितुं प्रवृत्तो यतिजनानुचितानेकवस्तूनि, पुत्रस्नेहाच्च यतनया संपादयति तत्पिता, तथाहि यदा वक्ति आर्य ! न शक्नोमि प्रथमालिकया विनाऽऽसितुं तदा तामप्यानीय ददात्याचार्यानुज्ञया, यदा ग्रीष्मकाले ब्रवीति-न पारयामि रविकरनिकरप्रतापमधिषोढुं, तदा सूरीननुज्ञाप्य कारयत्युपानत्परिभोगं शिरसि च कल्पं, एवं च मन्दपरिणामतया प्रतिदिवसोपचीयमानविविधेच्छानिर्वर्त्तनेनानुवर्त्यमानोऽपि पित्रा पितृसङ्क्लेशभीत्या धार्यामाणोऽपि साधुभिर्मदनशरधोरणीविध्यमानमानसो निर्लज्जतामवलम्ब्य बभाषे पितरम्-आर्य ! नाहमलमविरतिकां विना स्थातुं, ततौऽसौ तत्पिता न योग्योऽयं चारित्ररत्नमहालाभस्य अनुचितः सम्यग्ज्ञाननिधानस्य अभाजनं सुगतेः पात्रं दुर्गतेः ?, किं बहुना, भाव्यमनेनैहिकामुष्मिकानेकदुःखदन्दोलिनिकेतनेन तस्माद् व्युत्सृजाम्येनमिति विचिन्तयन्नब्रवीत् न त्वया नः किञ्चित्प्रयोजनं व्रजात्मयोगेन तत्र यत्र कुत्रापि प्रतिभाति भवतो, व्युत्सृष्टस्त्वमस्मत्परिग्रहात् इत्याद्यभिधाय साधुजनसमक्षं निष्काशितः स्वगच्छात्, ततः परित्यक्तसाधुलिङ्गोऽसावपि भोगाङ्गोपार्जनार्थं करोत्यनेकनिन्द्यकर्माणि, न च वराटिकामात्रमपि क्वापि प्राप्नोति, केवलं भिक्षया दिनावसानसंपाद्यमानोदरपूरणामात्राहारो महता क्लेशेन निनाय कियन्तमपि कालं, अन्यदा दष्टः सर्पेण आर्त्तवशेनोत्पेदे महिषत्वेन, सोऽपि तत्पिता तदीयवैराग्येण विशेषेण परिपाल्यं निष्कलङ्कं श्रामण्यं विध्याराधितमरणः समुत्पन्नो देवलोके देवत्वेन, सञ्जातावधिज्ञानविज्ञाततद्वृत्तान्तो ददर्श महिषभववर्तिनमेनं महाभाराक्रान्तं कुट्यमानं लगुडादिभि:, ततः सञ्जातकरुणः सुतस्नेहेन समागत्य मर्त्यलोकं विकृत्य दैशिकवणिग्रूपं समुपदर्श्य विचित्रभाण्डापूरितविकटशकटसमूहं प्रभूतार्थप्रदानेन मोचयामास तं तत्स्वामिनः, ततोऽतिभारशकटे नियोज्यैनं २४ ॥ १९९॥ देवशक्तया तद्वहनासामर्थ्यपतितं च विलोक्यानेकतोत्रकशालगुडादिप्रहारजर्जरितं कुर्वन्नेकतोऽन्यतो जनकरूपेण प्रतिपादयामास यथा 'क्षान्त ! न
national
For Personal & Private Use Only
www.
TXX
brary.org