________________
नवपद
वृत्ति: मू. देव. वृ. यशो
॥२०३॥
च प्रतिलाभितः प्रवर्द्धमानशुभाध्यवसायेन प्राशुकैषणीयाहारप्रकारैः, अत्रान्तरे भक्तिसमागतैर्गगनतलवर्त्तिभिर्देवादिभिः कृता सहिरण्या गन्धोदकपुष्पवृष्टिः, मिलितस्तत्र सकलो नगरीलोकः, शिवकुमारोऽपि जनादवगततद्वृत्तान्तः समागतस्तत्र, विलोक्य यतीश्वरं पूर्वभवानुवेधेन तदुपरि समुत्पन्नस्नेहातिशयो ववन्दे भावसारं मुनिस्तु दत्त्वा धर्मलाभं गृहीताहारो गतस्तदेवोद्यानं, शिवकुमाप्रभृतिलोकश्च मुहुः श्रेष्ठिप्रशंसां मुहुः साधुस्तुतिं विदधानो गत्वा स्वस्थानानि पुनः पारणकावसाने सागरदत्ताचार्यस्य वन्दनाय ययौ प्रदक्षिणात्रयकरणपूर्व प्रणम्य भगवत्पादारविन्दद्वयमुपविवेश च स्वोचितभूप्रदेशे, सूरिणा तु धर्मलाभपुरःसरं संभाष्यैनमारब्धा धर्मदेशना, यथा-भो ! भो ! जन्मजरामृत्युरोगोपद्रुतदेहिनाम् । शरणं नास्ति संसारे, मुक्त्वैकं जिनशासनम् ॥१॥ एतदाराधनापूर्व, दग्ध्वा कर्मवनं यतः । विलङ्घ्य भवकान्तारं प्राप्ता मोक्षं महाधियः ॥ २॥ अपिच-यथा जीवदयाऽमुत्र, प्रोक्ता जीवादिविस्तरम् । प्ररूप्य सदुपायेन, तथा नान्यत्र कुत्रचित् ॥ ३॥ अत एवैतच्छासनव्यवस्थिताः न खलु न खलु सन्तः सत्त्ववन्तोऽल्पवीर्यान्, निजसुखलवलोभाद्देहिनो दुःखयन्ति । मदमलिनकपोलस्तुच्छमेरण्डदण्डं, श्रयति किमु करीन्द्रो गण्डकण्डूयनाय ? ॥४॥ एतदाकर्ण्य शिवकुमारश्चिन्तयामास- सत्यमिदमुपदिष्टं भगवता, केवलं परिपूर्णं जिनाज्ञाकरणमन्तरेण न जीवदया निर्वाहयितुं पार्यते, न च गृहस्थावस्थायां संपूर्णजिनाज्ञा संपादयितुं शक्या, तत्पितरौ मोचयित्वा करोमि व्रतोपादानं, किञ्च न तथा मम पित्रोरप्युपरि स्नेहा यथा सकृद् दृष्टेऽप्यत्राचार्ये, अतो व्रतग्रहणे ममैतत्सेवा निर्विघ्ना संपत्स्यते, अपिचएतावतो महास्नेहानुबन्धनिबन्धनस्य ममैतद्दर्शने नयनमनः सुखसन्दोहानुभवस्य किं कारणमिति प्रष्टव्यो भगवानिति पर्यालोच्य कथाविच्छेदे विज्ञप्तं शिवकुमारेण भगवन् ! किं कारणमतितृष्णोऽहं युष्मद्दर्शनस्य ? यतश्चिरकालवियुक्तसहोदरमिवावलोक्य भवन्तं प्रवर्द्धमानस्नेहामृतेन सिच्यमानस्येव मम मनः परमानन्दसन्दोहमनुभवति, भगवता च विहितावधिज्ञानोपयोगेन विज्ञाय कथितः पूर्वभववृत्तान्तः, ततोऽस्येहापोहमार्गणपरायणस्योदपादि जातिस्मरणं, ततः संजातयथाऽवस्थितावबोधो बभाण सूरिं प्रभो ! एवमेतद् यथाऽऽदिष्टं पूज्यपादैः तदिदानीमापृच्छ्य पितरौ मोचयित्वा तत्पार्श्वादात्मानं करोमि भवत्समीचे जिनदीक्षाग्रहणेन जन्मसाफल्यं, आचार्येणोक्तं-देवानुप्रिय ! मा प्रतिबन्धं विधासी:, ततो वन्दित्वा गुरुं प्रविष्टो नगरीं, बभाषे च जननीजनकौ, यथा श्रुतो मयाऽद्य सागरदत्तगुरुसमीपे जिनेन्द्रदेशितो धर्म:, ततो विरक्तं मे विडम्बनामात्रसारस्य किंपाकफलतुल्यपरिणतेर्नारकादिभवासातोपचयहेतोर्विषयस्योपरि चेत:, अतो विसर्जयत मां येन सागरदत्तसमीपे भवभयप्रणाशिनीं स्वीकरोमि प्रव्रज्यां तच्छ्रुत्वा मूर्छया छिन्नमूलस्तम्बाविव द्रुमौ निपेततुर्भुवः पीठे तौ |॥२०३॥ शोकाकुलमानसौ-कथञ्चिच्चेतनां लब्ध्वा प्राहतुस्तनुजं प्रति । द्वितीयवारं नो वत्से !, श्रावणीयमिदं वचः ॥ २॥ ततस्तदाग्रहं ज्ञात्वा, मौनमादाय
Jain Educatimational
For Personal & Private Use Only
www.prary.org