________________
नवपद
वृत्ति: मू. देव. वृ. यशो
॥ १९२॥
समुद्गकः, तमप्युद्घाट्य यावत्पश्यति तावदवलोकयामास सुगन्धीन् वासान्, दत्त्वा नाशाग्रे किमेतावता यत्नेनामी धृता इति चिन्तयन् सूक्ष्मेक्षिकया यावदीक्षाञ्चक्रे तावद् दृष्टिपथमवततारास्य तन्मध्यवर्त्ति लिखितं भूर्यखण्डं, वाचितं च- "आघ्राय य इमान् वासान् ब्रह्मचर्यादिसेवया । नासिष्यते व्रतीवाशु, स यास्यति यमान्तिकम् ॥१॥’” ततोऽसौ मरणभयमीतो लिखितपरीक्षानिमित्तं पुरुषमेकं तान् गन्धानाम्राय्य स्नानादिपूर्वं स्त्रीसेवां कारयामास तं च तद्गन्धव्याकुलितचेतनं | क्षणमात्रेण परासुतामापन्नं विलोक्य चिन्तितवान्- अहो ! दारुणता चाणक्यस्य येन स्वयं प्रियमाणेनोपायतो वयं मारिताः, तदनन्तरं च स्वप्राणरिरक्षिषया विधाप्य निजतुण्डमुण्डमुण्डनकं तस्थौ यतिवत्त्यक्त्वा स्नानादि समस्तभोगाङ्गम् ।। समाप्तं सुबन्धुकथानकं, भट्टिनीसंविधानकं चेदम्
एकस्मिन् प्रत्यत्यन्तग्रामे ब्राह्मणस्यैकस्य भार्या नवे वयसि वर्त्तमाना स्वभर्त्तारं कनकचूडकाद्यलङ्कारं ययाचे, तेन च सुवर्णकारस्य सुवर्णमर्पयत्वा कारितो यथोद्दिष्टो भूषणविशेषः, समानीतो गृहं, प्रशस्तदिवसे पिनद्धः स्वकरादौ, भणिता च भट्टिनी, यथा- प्रत्यन्तग्राम एष म्लेच्छादयोऽत्रापतन्ति, तस्मान्न यदा कदाचिदेतस्य परिधानं कार्यं, किन्तु विशिष्टतिध्यादावेव, शेषकालं तु गर्त्तादिगतो धार्य:, तयोदितं किमेवमाकुलः ?, प्रथममेवैतस्य कारितस्यैतदेव फलं यदनारतं परिभोगो, यदा च धाट्यादिभयं भविष्यति तदा विमुच्य गोपयिष्यामि, एवं च भर्तृवचनमवगणय्य यदिवसात्प्रभृति परिहितमाभरणं तद्दिनाद्रात्र्यादावपि न मुमोच, अन्यदा चाज्ञातैवाकस्मात्कृतोऽप्यागता म्लेच्छधाटी, तया लुण्टितुमारब्धे ग्रामे केचिल्लुण्टाकास्तस्यैव ब्राह्मणस्य गृहमनुप्रविष्टाः, भट्टिन्या च मांसोपचितहस्तया न पारितमुत्तारयितुमाभरणं दृष्ट्वा तत्तैरौत्सुक्येन हस्तच्छेदं विधाय गृहीतं, नीतं च स्वधाम, जाता च सा दुःखभागिनी ।। एवं चानिवृत्ता उपभोगपरिभोगयोः प्राणिनोऽसातोदयभाजो भवन्तीति विज्ञायैतत्परिमाणकरणे यत्न आस्थेय इति गाथाभावार्थ: ।। अत्र च सेडुबकसुबन्धुकथानके आहारपुष्पाद्युपभोगविषये नित्यमण्डितभट्टिन्युदाहरणं च परिभोगविषयमिति विभागख्यापनार्थमुदाहरणत्रयमिति । ये । पुनरिह कृतपरिमाणास्तेषां गुणोपर्दशनायाह
गुणद्वार
गा. ७९
शिवकुमार
कथा
पोग्गलपरिमाणं चिंतिऊण भोगेहि जे विरज्जति । सिवजम्मे जह जंबू, वंदिज्जंते बहुजणेणं ॥ ७९ ॥
॥ १९२॥
‘पुद्गलपरिणामं’ पूरणगलनधर्मकस्कन्धपरिणतिं 'चिन्तयित्वा' पर्यालोच्य यथा य एव पुद्गला अत्राशुभवर्णा विरूपास्ते एव संस्कारवशाच्छुभवर्णादिभाजो जायन्ते, यथा खातिकोदकं कुथितकलेवरादिपूतिगन्ध्यतिकलुषस्वभावमपि सुबुद्धिमन्त्रिणा विशिष्टसंस्कारवशान्मनोहारिवर्णगन्धरसस्पर्श सम्पादितं, ये चात्र शोभनरूपादिमन्तस्तेऽपि पदार्थान्तरसंसर्गवशाद्रिरूपगन्धादिमत्त्वमवाप्नुवन्ति यथा मादकप्रियकुमारस्य प्रधानभोजनाङ्गरागादयः शरीरसंपर्कव
For Personal & Private Use Only
Jain Education International
www.jahelibrary.org