________________
तच्छुत्वा प्रमदान्त, भीषणाकारधारित याद । ईशिषे स्यात्तवाणी, दर्दुराङ्क: परीक्षित भूपस्तु निश्चलो
नवपद
k जिनो भूप !, बद्धायुर्नरके भवान् । प्रागेव तेन तेऽवश्यं, गतिस्तत्र भविष्यति ।।२०॥ अवश्यभाविनो भावाः, न च शक्या महीपतेः ! । अन्यथा सेडुबक वृत्ति:मू.देव.
| कर्तुमस्माभिरन्यैर्वाऽमरनायकैः ।।२१।। केवलं-भविताऽसि त्वमन्यस्यामहत्पङ्क्तौ जिनोत्तमः । महापद्माभिधो राजन् !, माऽतस्त्वमधृतिं कृथाः ॥२२॥
| तच्छुत्वा प्रमदोत्कर्षप्रफुल्लनयनाम्बुज: । प्रणम्य श्रेणिको भूपः, प्रोवाचेदं विचक्षणः ।।२३।। किं कश्चिदस्त्युपायोऽत्र, स्वामिन् ! येन न गम्यते । दृष्टान्तः ॥१९०।
| नरकेऽस्माभिरत्यन्तं, भीषणाकारधारिणि ।।२४|| भगवान् प्राह भो भूप !, कपिलां ब्राह्मणी यदि । भिक्षां दापयसि प्रीत्या, तपस्विभ्य: कथञ्चन ।।२५।। कालसौकरिकं चापि, शूनां त्याजयितुं यदि । ईशिषे स्यात्ततो मोक्षस्तेऽन्यथा नेति चिन्त्यताम् ।।२६।। इत्यस्तसंशयो राजा, प्रणम्य परमेश्वरम् । स्थिरधी: शासने जैने, चचाल स्वगृहं प्रति ।।२७।। प्रस्तावेऽत्र स गीर्वाणो, दर्दुराङ्कः परीक्षितुम् । सम्यक्त्वविभ्रमं राज्ञः, पुरत: कृतवानिमम् ।।२८।। एकत्र दर्शितः साधुरकार्यं विदधत् पुरः । तथा यथा मनोऽन्यस्य, दृष्ट्वा धर्मात् पृथग्भवेत् ।।२९।। भूपस्तु निश्चलो धर्मे, भावयन् कर्मचित्रताम् । निवार्य प्रत्युत प्रीत्या, तमलक्ष्यं ययौ पुरम् ॥३०॥ भूयोऽपि गर्भिणी साध्वी, दर्शिता तेन तामपि । सङ्गोप्य शासनस्योच्चैररक्षल्लाघवान्तरम् ।।३१।। एवं यदा न राजेन्द्रः, कथञ्चिदपि चाल्यते । प्रत्यक्षीभूय देवेन, तदैवं किल भाषितम् ॥३२॥ भो भोः ! श्रेणिक ! यादृक्षस्त्वमिन्द्रेण परीक्षित: । तादृक्ष एव जैनेन्द्रशासनेऽसिस सुनिश्चलः ।।३३।। तद्गृहाण विभो ! हारं, गोलकद्वितयं तथा । क्रीडार्थमिति गीर्वाणो, ब्रुवंस्तस्मै तदर्पयत् ।।३४॥ त्रुटितं च तथा हारं, योऽमुं सन्धास्यते पुमान् । न जीविष्यत्यसावेवमुक्त्वा सोऽन्तर्दधे सुरः ।।३५।। नृपेणापि गृहं गत्वा, भणिता कपिला किल । देहि भिक्षां तपस्विभ्यस्तुभ्यं रामीप्सितं धनम् ॥३६।। कालसौकरिकोऽप्येवं, प्रोचे भूमिभृता भृशम् । शूनां त्यज धनं येन, प्रचुरं ते ददाम्यहम् ।।३७।। अभव्यत्वान्न तत्ताभ्यां, प्रत्यपद्यत भूपते: । वचनं नाथवाऽपुण्यैरमृतं लभ्यतेऽशितुम् ।।३८।। इदं प्रासङ्गिकं सर्वं, कथितं प्रस्तुतं पुन: । दुःखं सेटुबकः प्राप्त, उपभोगाकृतप्रमः ।।३९।। ज्ञात्वा सेटुबकस्यैवं, चरितं बहुविस्तरम् । अत्यासक्तिमुपभोगे, मा कृतात्यन्तदुःखदाम् ।।१४०।। अथ सुबन्धुकथानकं चैतत्
पाटलिपुत्रे नगरे गुरुतरप्रतापदहनसंशोष्यमाणशत्रुसीमन्तिनीसंमदरसस्योदायिमहाराजस्य मरणानन्तरमुपविष्टे नापितनन्दराजे तदन्वयपर्यन्ताधायिना चाणिक्येनोपस्थापितस्य चन्द्रगुप्तराजस्य राज्यचिन्तानियोगवाहिना महामन्त्रिणा तेनैव चाणिक्येन नवमनन्दसम्बन्धी महत्तम: सुबन्धुनामा निष्कासितः, स च भवितव्यतावशेन देवभूयंगते चन्द्रगुप्ते तत्पुत्र एव बिन्दुसारे प्रतिपालयति राज्यसम्पदं वृद्धीभूते च चाणक्यमन्विणि तच्छिद्रान्वेषणपरो भूयोऽपि कथञ्चिल्लब्धप्रसरोऽन्यदा रहसि बिन्दुसारनरपतिं व्यजिज्ञपद्, यथा-देव ! वयं भवदीयराज्ये यद्यप्यवगीता एव तथाऽपि यदत्यन्तविरुद्धं तन्न शक्नुम: सोदुमित्यतोऽभिदध्महे-तव.
Jain Educa
M
emaboral
For Personal Private Use Only
would
brary.org