________________
नवपदवृत्ति: मू. देव. वृ. यशो
॥१८८॥
वीक्ष्य सम्पदम् । चिन्तितं दर्शयाम्येनां, स्वलोकाय वपुः श्रियम् || ६४ || किं तया सारयाऽप्यत्र, जातया संपदा नृणाम् । यां न पश्यन्ति लोकाः स्वे, प्रमोदोत्फुल्ललोचनाः ? ।।६६॥ यादृशीं वा भवेत्तेषामवस्था पापकारिणाम् । पश्यामि तादृशीं गत्वा, संचिन्त्येत्थं ययौ पुरम् ॥६७॥ पृष्टः पुरं विशन् लोकैः, प्रत्यभिज्ञाय स द्विजः । केन कुष्ठं तवापास्तं, तादृशं भीमदर्शनम् ? ॥ ६८ ॥ सोऽब्रवीद्देवता भक्त्या, मयाऽवलगिता वने । तया कुष्ठमपास्याहमीदृशो जनितोऽचिरात् ॥ ६९ ॥ ततश्चाहो ! द्विजो धन्यः, प्रसन्ना यस्य देवता । स्तूयमानो जनैरित्थं प्रविवेश स्वमन्दिरम् ॥७०॥ दृष्ट्वाऽसौ तत्र कुष्ठेन, शटिताङ्गान् निजाङ्गजान् । प्रोवाच मदवज्ञाया, भवद्भिर्वेद्यतां फलम् ॥ ७१|| ते ऊचुस्तात ! किं न्वेतत्त्वयाऽस्मान् प्रत्यनुष्ठितम् ? । स प्राह मां विना कस्य, शक्तिः स्यादीदृशी भुवि ? ॥ ७२ ॥ आः पाप ! किं त्वयेदृक्षं, विरुद्धं धर्मलोकयोः । निस्त्रिंशेन समाचीर्णमत्यूचुस्ते पुनः सुताः ॥ ७३ ॥ स प्राह यत्तु युष्माभि जनके मय्यनुष्ठितम् । तत्किं सयुक्तिकं ? को वा, स्वदोषानीक्षते जनः ? ||७४ || महतोऽपि स्वदोषान् नो, परदोषांस्त्वणूनपि । पश्यत्यपूर्वमन्धत्वमहो लोकस्य दृश्यते ॥ ७५ ॥ तमेवं तैः समं विप्रं रटन्तं वीक्ष्य सन्ततम् । अपरोऽपि जनोऽजस्त्रं, प्रारेभे तत्र निन्दितुम् ॥७६॥ ततोऽपवादभीतोऽसौ पुरं राजगृहं गतः । जीविकार्थं निरालम्बो, द्वारपालमशिश्रियत् ॥७७॥ उत्पन्नकेवलज्ञानः, पूज्यमानः सुरासुरैः । अत्रान्तरे जिनो वीरः, पुरे तत्र समाययौ ।।७८।। ततो दौवारिकेणासावुक्तो भद्राहमीक्षितुम् । भगवन्तं व्रजिष्यामि, त्वया त्वत्रोपविश्यताम् ॥७९॥ न चेतः क्वापि गन्तव्यं तावद्यावत्समागतः । नाहमत्रेति संभाष्य, ययौ तेन जिनान्तिकम् ॥८०॥ एवमस्त्विति तेनापि प्रतिपद्य द्विजन्मना । द्वारदुर्गानिवेद्यानि, भुञ्जानेनासितं चि (व)रम् ||८१॥ ततो लाम्पट्यतस्तस्माद्बहुशो बलिभोजनात्। पिपासाऽभूद् भृशं ग्रीष्मकालत्वाच्चातिबाधिका ॥८२॥ दौवारिकभयाच्चान्यं, मुक्त्वा पानाय नागमत् । ध्यातवान् केवलं धन्याः, जलजन्तव ईदृशम् ॥८३॥ ईदृग्ध्यानं समापूर्य, पिपासावेगतो रटन् । तिर्यगायुर्नियम्यासौ, वराकोऽगात्परासुताम् ||८४।। ततोऽत्रैव पुरे वाप्यां, दर्दुरोऽजन्यसौ क्षणात् । इदं मत्वा कथं युक्तः, कर्तुं जातिमदो नृणाम् ? ॥८५॥ अत्रान्तरे पुनस्तत्र, महावीरः समाययौ । वन्दनार्थं जनास्तस्य, पुरद्वारेण निर्गताः ॥ ८६ ॥ तेषां च निर्यतां श्रुत्वा, तत्कथाश्रयमारवम् । चिन्तितं दर्दुरेणाहो, श्रुतपूर्वो ध्वनिर्मम ॥८७॥ क्व पुनः स्याच्छ्रुतपूर्वो, मयेहापोहमीदृशम् । सञ्ज्ञित्वात् कुर्वतस्तस्य जातिस्मरणमुद्ययौ ॥ ८८॥ अहो ! मां द्वारि संस्थाप्य द्वारपालो यदन्तिकम् । आसीद्गतः स एष स्यादागतो भगवानिति ।। ८९ ।। अतो यथा व्रजन्त्येते, लोकास्तं प्रणिनंसवः । तथाऽहमपि यामीति, निरगात्तं विवन्दिषुः ॥९०॥ उत्प्लुत्योत्प्लुत्य तत्पार्श्व, यावदायातुमुद्यतः । तावच्छ्रेणिकसैन्याश्वखरेणाक्रम्य चूर्णितः || ११|| ततोऽसौ दर्दुरो मृत्वा विशुद्धाध्यवसायः
For Personal & Private Use Only
Jain Educatenational
सेडुबक द्विज
दृष्टान्त:
॥१८८॥
www.jXibrary.org