SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्तिःमू.देव. व. यशो ॥१८७॥ दूरस्थैश्चण्डालस्येव नीरसम् । क्षिप्यते कपरे तस्यावृतघ्राणैर्जुगुप्सया ॥३८॥ तद् दृष्ट्वा चिन्तितं तेन, मत्प्रभावाद्य ईदृशीम् । आरूढा: पदवीं पश्य, तेषां कीदृग्विचेष्टितम् ? ॥३९।। अथवा-यासामेव पिबन्त्यम्बु, नदीनां वृषभास्तृषा । तासामेव तटीघ्नन्ति, कृतघ्नाः शृङ्गकोटिभिः ।।४०॥ यस्य पत्रपुटे भुक्त्वा, छायायां शेरते मुहुः । मूलं खनन्ति तस्यैव, पलाशस्य पुलिन्द्रकाः ।।४१।। यत्प्रभावादवाप्ता श्रीः कुमुदैर्मुदितैरिव । सैवोपहस्यते चान्द्री, चन्द्रिका स्वरुचा निशि ॥४२।। एवमेतेऽपि पापिष्टाः, मच्छ्रिया वृद्धिमागताः । मामेवाभिभवन्त्येवं धिक् पुत्रान् दुर्जनानिव ।।४३।। अतोऽवज्ञाफलं तूर्णं, मूर्येषां पातयाम्यहम् । इति क्रोधात् समालोच्य, प्रोक्ताः पुत्रा द्विजन्मना ।।४४॥ भो भो पुत्रा: ! वयं बाढमुद्विग्ना: प्राणितव्यत: । कृत्वाऽत: स्वकुलाचारं, वाञ्छामो मर्तुमञ्जसा ।।४५।। तच्छ्विाऽतो झटित्येष, प्रियते चारु जायते । इति प्रहष्टचित्तास्ते, प्रोचुः किं कुर्म उच्यताम् ॥४६।। स प्राहास्मत्कुले पत्राः, ? क्रमोऽयं यन्मुमूर्षुभिः । मन्त्रोक्षित: पशुर्देयः, स्वबन्धुभ्यो हितैषिणा ।।४७।। ततोऽतिबलवान् बस्त:, सुप्रमाण: सुदर्शन: । आनीयतां कुटरिऽस्मिन्, कुलक्रमविधित्सया ॥४८॥ येन तं संस्कृतं मन्त्रैः, खादयित्वा स्वबान्धवान् । हितार्थ विधिना दध्मश्चित्तं कार्ये निराकुला: ।।४९।। तैरप्यज्ञाततद्भावैर्मुग्धत्वात्तत्कुटीरके । बबन्धे तादृशो बस्तो, वचनानन्तरं मुदा ॥५०॥ ततोऽसौ ब्राह्मणस्तस्मै, पशवे स्वं शरीरकम् । उद्वयं व्याधिसङ्क्रान्त्यै, नित्यमुद्वर्तनी ददौ ।।५१।। तांश्चाश्नन्नचिरेणैव, कुष्ठी छागोऽप्यभूदलम् । यदा तदा स्वपुत्रेभ्यो, हत्वा भोज्यार्थमर्पितः ।।५२।। तैरप्यज्ञाततच्चेष्टैस्तत्र भुक्ते पशौ पुन: । उवाच साम्प्रतं पुत्राः!, तीर्थे त्यक्ष्यामि जीवितम् ।।५३।। येन तत्र मृतस्यान्यजन्मन्यपूतिनिन्दितम् । ईदृग् न जायते भूयो, वपुर्मे व्याधिपीडितम् ।।५४।। इति ब्रुवंस्ततस्तूर्णं, निर्गत्य मुदितो द्विजः । विवेशोर्ध्वमुखोऽरण्यं, भीषणाकारदर्शनम् ।।५५।। तत्रासौ तृषितोऽत्यर्थं, जलमन्वेष्टुमादरात् । इतश्चेतश्च बभ्रामादप्रभूधरगह्वरम् ।।५६।। ततः कथञ्चिदेतेन, भ्रमता दैवयोगतः । ददृशेऽने(दृष्टं नै) कद्रुमाकीर्णप्रदेशे । लघु पल्वलम् ।।५७।। तीरवृक्षावले: पत्रैः, फलैः पुष्पैश्च सन्ततम् । पतद्भिः कल्कवज्जातं, यत्राम्बु ग्रीष्मतापतः ।।५८।। तद् दृष्ट्वा (पीत्वा) हृदयं । तस्य, समुच्छश्वास तक्षणात् । इन्द्रियाणि च जातानि, स्वार्थग्रहपटून्यलम् ।।५९।। ततश्च तेन विश्रम्य, कल्काकारं जलं मुदा । आरेभे पातुमश्रान्तं पिपासाविगमार्थितः ।।६०।। ततश्च-यथा यथा पपावेष, तज्जलं कलुषाकृति । तथा तथा ऽस्य संजज्ञे, विरेक: कृमिभिः सह ।।६।। एवं कतिपयैरेव, वासरैस्तच्छरीरकम् । चक्रे रसायनेनेव, नीरुक् तेनाम्बुनाऽधिकम् ।।६२।। या न चिन्तयितुं शक्या, न कर्तुं नापि भाषितुम् । साऽप्यवस्था भवत्युच्चैर्विधावभिमुखे ॥१ सति ।।६३।। दृष्ट्वा तत्तादृशं तस्य, नीरुक्त्वं संभवातिगम् । आपत्स्वपि गतैः सद्भिः, कथं मोहो विधीयते? ॥६४|| अथ तेन स्वदेहस्य, तादृशीं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy