________________
नवपद
व. यशो ॥१८६॥
K
द्विजः । प्रोचे तुष्टोऽस्मि ते भट्ट !, ब्रूहि त्वं यत्प्रदीयनाम् ॥१०॥ अन्ये तु सूरय: पाहुस्तस्यावलगतो नृपम् । यावत्कालोऽतिचक्राम, कियानप्यतिभक्तित: K सेडुबक | ॥११।। तावत्प्रद्योतनृपतिरुज्जयिन्या: समागतः । महता सैन्यवृन्देन, शतानीकजिघृक्षया ।।१२।। शतानीकस्तु तं ज्ञात्वा, रोधसज्जा पुरी निजाम् ? | KA विधाय स्थितवानश्वविग्रहावहितः स्वयम् ।।१३।। यवसेन्धनपानीयग्राहिणोऽपि प्रमादिनः । उपद्रवनवस्कन्दबलेनारिगतान् बलान् ।।१४।। प्रचुरैरपि दिनैरेवं दृष्टान्तः (दिनैः प्रचुरैरप्येवं) ग्रहीतुं न शशाक ताम् । प्रद्योतो नगरी यावत्तावदुच्चलितोऽन्यदा ।।१५।। अत्रान्तरे-पुष्पावचयकार्येण, पुष्पवाट्यां समागतः । ददर्श चलितं सैन्यं, तत् स्वां सेटुबकः पुरीम् ।।१६।। ततो निवेदयामास, शतानीकमहीपते: । लग्न: स पृष्ठतस्तस्योपद्रूय बलमागतः ।।१७।। अश्वादिग्रहतुष्टोऽसौ, KA पारितोषिकदित्सया । राजा सेडुबकं प्राह, ब्रूहि किं ते प्रदीयताम् ? ॥१८।। तेनाभ्यधायि राजेन्द्र !, पृष्ट्वाऽहं भट्टिनी निजाम् । गदिष्यामि भणित्वेद,
भट्टिन्यन्तमगादसौ ।।१९।। गत्वाऽब्रवीत्प्रसन्नोऽद्य, भूभृद् भट्टिनि ! मेऽधिकम् । ब्रवीति दीयते किं ते ?, वद किं प्रार्थते तत: ? ।।२०।। स प्राहाग्रासने 1 राज्ञो, भट्ट ! याचस्व भोजनम् ! दीनारदक्षिणां चैव, तथैकान्तं दिने दिने ।।२१।। गत्वाऽथ प्रार्थितस्तेन, तथैव नृपतिर्मुदा । ऋजुतां तस्य विज्ञाय, राज्ञाऽपि प्रत्यपद्यत ।।२२।। ततः प्रभृति तत्सर्वं, कुर्वाणं वीक्ष्य भूभुजम् । चिन्तयामासुरन्येऽपि, भूपते: पार्श्ववर्तिनः ।।२३।। महाप्रसादमेतस्य, कुरुते प्रत्यहं नृपः । यतोऽतो वयमप्येनं, पूजयामः प्रयत्नतः ।।२४।। इति संचिन्त्य तैः सर्वैः, स प्रीत्या भोज्यते द्विजः । स्वगृहे ग्राह्यते नित्यं, दक्षिणां च प्रयत्लतः ।।२५। ततोऽसौ तादृशाल्लाभादचिरेण महर्द्धिकः । समभूत्पुत्रपौत्रादिसन्तत्या प्रससार च ।।२६।। केवलं दक्षिणालोभाद्भुञ्जानस्य गृहे गृहे । वमनं कुर्वतश्चास्य, त्वग्दोषोऽभूभयानकः ।।२७।। शीर्णघाणो व्रणाघातः, प्रस्रवत्पूयगन्धतः । मक्षिकावेष्टितः कष्टामवस्थां प्राप्तवांस्तत: ।।२८।। तथाऽपि पूर्ववद्राज्ञो, बुभुजेऽग्रासने स्थितः । कुष्ठी वर्तेऽहमित्येवं, शशङ्के न मनागपि ।।२९।। उपेक्षितश्च स व्याधिः, क्रमेण ववृधेऽधिकम् । संपर्को दुर्जनस्येव, तस्य ! पीडाविधायकः ॥३०॥ दृष्ट्वा तं तादृशं राजा, विज्ञप्तो मन्त्रिभिर्भयात् । देव ! व्याधिरयं बाढं, संचरिष्णुरियं श्रुतिः ॥३१।। यत:-एकत्र भोजनात्स्पर्शादेकशय्याऽऽसनादित: । सङ्क्रान्तिर्जायते व्याधेरिति शास्त्रेऽपि भाष्यते ॥३२।। अतो निवार्यतामेष, भुञ्जानोऽग्रासने द्विजः । तत्स्थानेऽस्य सुताः सन्तः, स्थाप्यन्तां नीरुजस्त्वया ।।३३।। ततश्च-एवमस्त्विति भभा, प्रतिपन्ने स मन्त्रिभिः । प्रोक्तोऽद्यप्रभृति पुत्रैर्भोक्तव्यं राजमन्दिरे ॥३४।। ततस्तेन स्वपुत्राणामनुजज्ञे तदाज्ञया । स्वनियोगः स्वयं गेहे, संतस्थे दुर्मना मनाक् ।।३५।। कालेनोत्कटतां याते, तत्र व्याधौ हिया सुतैः । तैस्तस्य कारयाञ्चक्रे, बहिर्गेहात् कुटीरकम् ।।३६।। ततो वधूजनोऽप्येतं, दृष्ट्वा निष्ठीवति क्षणात् । नाज्ञां च कुरुते कश्चिल्लपतोऽपि मुहुर्मुहुः ।।३७।। भोजनाद्यपि
६॥
Jain Educat
national
For Personal & Private Use Only
Blorary.org