________________
नवपदवृत्ति: मू. देव.
वृ. यशो
॥१८०॥
त्मकलोकवर्त्तिप्राणिवत्सला: ‘ते' एवंगुणयुक्ताः 'धन्याः ' धर्मधनलब्धत्वात्पुण्यभाज: 'साधवः' तपस्विनः 'नित्यं' सदेति गाथार्थ: ।। भणितं प्रथमगुणव्रतमिदानीं द्वितीयं नवभेदमभिधातव्यं तत्रापि प्रथमद्वारेण तावदाह
उवभोगपरीभोगो विणिवित्ती तं गुणव्वयं बीयं । आहाराईविलयादियाइ चित्तं जओ भणियं ॥७५॥
सकृद् भुज्यत इत्युपभोगोऽन्तर्भोगो वा, पुनः पुनर्भुज्यत इति परिभोगो बहिर्भोगो वा अनयोर्द्वन्द्वैकवद्भाव उपभोगपरिभोगं तस्मिन्नुपभोगपरिभोगे । विविधा निवृत्तिः विनिवृत्ति:- अनेकधा परिणामकरणं येति गम्यं तच्छब्दसम्बन्धात् तद्गुणव्रतं 'द्वितीयं' उपभोगपरिभोगव्रतं तच्चानेकरूपमेव, कुतः ? इत्याह- 'आहारादिविलयाद्वीपादि' अशनताम्बूलप्रभृतिस्त्रीहस्तिप्रमुखं चित्रं 'यतो भणितं यतो- यस्मात्तीर्थकरगणधरैः उपभोग्याहारादिपरिभोग्य-विलयाद्वीपादिपरिमाणव्रतं प्रस्तावाद्गेम्यते ‘चित्रं’ अनेकरूपं 'भणितं' उक्तम्, एकमाहाराद्यपरं विलयाद्विपादि, तथा चोक्तम्- "उवभोगे विगईओ तंबोलाहारपुप्फफलमाई । परिभोगे वत्यसुवण्णगाइयं इस्थिहत्थाई ॥१॥" स्त्रीहस्त्यादीति गाथार्थः ॥ भेदद्वार इयं गाथा
महुमज्जमंसपंचुंबराइविरइं करिज्ज बीयंमि । असणविलेवणवत्थाइयाण परिमाणकरणेण ॥७६॥
मधु माक्षिकादिभेदं मद्यं काष्ठपिष्टनिष्पन्नं मांसं जलचरजादि चर्मादि वा त्रिभेदं पञ्चानामुदुम्बराणां समाहारः पञ्चोदुम्बरी, के पञ्चोदुम्बरा: ?, उच्यन्ते, वटोदुम्बराश्वत्थकटुम्बरिकालक्षाः सर्वेषामेषामुदुम्बरसमानजातीयत्वात्, मध्वादिपदानां च द्वन्द्वं कृत्वाऽऽदिशब्देन बहुव्रीहिः, अनेन च नवनीतघोलवटकरात्रिभोजनादयो ग्राह्याः, ततो विरतिशब्देन षष्ठीतत्पुरुषे मधुमद्यमांसपञ्चोदुम्बर्या विरतिं 'कुर्यात् विदध्यात् 'द्वितीये’ उपभोपरिभोगपरिमाणव्रते, | केन ? इत्याह- अशनविलेपनवस्त्रादिकानां परिमाणकरणेन, अशनम् ओदनादि विलेपनं-कुङ्कुमादि वस्त्रं-चीवरम्, आदिशब्दात्पानककुसुमाभरणादिग्रहः, कुत: ? इति चेद् ब्रूमः, अशनविलेपनयोरूपभोगरूपयोर्वस्त्रस्य च परिभोगरूपस्योपादानाद् एषां परिमितिः परिमाणम् इयत्ता तस्य करणं-विधानं तेन, अयमत्र भावार्थ:- यो हि उपभोगपरिभोगयोः परिमाणमादत्ते- मयेदमेतावच्च भोक्तव्यं परिभोक्तव्यं वा तेन मध्वादिनिवृत्तिः प्रथमं कार्या मध्वादिप्रवृत्तेर्बहुपापत्वेनोपभोगपरिभोगपरिमाणसाध्यनिर्जराविघातदक्षत्वात् तथा चोक्तम्- "चउरिंदियजीवाणं देहवसारुहिरमीसिअं अहमं । महु एयं भक्खणविक्कएहिं पावं विवज्जेह ॥ १ ॥ कुलबलमइगरुयत्तणसाहुक्काराई विहव ओड्डणयं । विरुवयवायविहीलणजणयं मज्जं ४ ॥१८०॥ परिच्चयह ॥ २॥ मंसं पंचिंदियवहविणिम्मियं तह पयंडपावफलं । सुक्करसरुहिरकलमलदुगंधियं मुंच भयजणयं ॥ ३॥
For Personal & Private Use Only
Jain Educaternational
स्वरूपं भेदाच
गा. ७५७६
ww.brary.org