________________
ka केनचिच्छ्रावकेण पूर्वापरदिशो: प्रत्येकं योजनशतं गमनपरिमाणं कृतं, स चोत्पन्नप्रयोजन एकस्यां दिशि नवति व्यवस्थाप्यान्यस्यां तु दशोत्तरं योजनशतं नवपदवृत्ति:मू.देव.
करोति, तदभिप्रायेण द्विधाऽपि योजनशतद्वयपरिमाणस्याव्याहतत्वात्, एवमेकत्र क्षेत्रं वर्द्धयतो व्रतसापेक्षत्वादतिचारः, स्मृत्यन्तर्धा च केनचित्किल पूर्वस्यां वृ. यशो
दिशि योजनशतरूपं परिमाणं कृतमासीद्, गमनकाले च कथञ्चिद्व्याकुलत्वप्रमादित्वमत्यपाटवादिना न स्पष्टतया स्मरति-किं शतं परिमाणं कृतमुत ॥१७९॥
| पञ्चाशत् ?, तस्य चैवं पञ्चाशतमतिक्रामतोऽतिचार: शतमतिक्रमतो भङ्गः, सापेक्षत्वान्निरपेक्षत्वाच्चेति गाथार्थः ।। वृद्धसम्प्रदायश्चायम्-ऊर्ध्वं यत्परिमाणं कृतं तस्योपरि गिरिशिखरे तरुशिखरे वा मर्कट: पक्षी वस्त्रमाभरणं वा गृहीत्वा व्रजेत्तत्र तस्य न कल्पते गन्तुं, यदा तु तत्ततः स्वयमेव पतितमन्येन वाऽऽनीतं तदा कल्पते ग्रहीतुं, एतत्पुन: उज्जयन्तादिषु भवेद्, एवमध: कूपादिषु विभाषा, तथा यत्तिर्यक्परिमाणं गृहीत् तत्रिविधेन करणेन नातिक्रमितव्यं, क्षेत्रवृद्धिश्च न कार्या, कथम् ?, असौ पूर्वेण भाण्डं गृहीत्वा गतो यावत्तत्परिमाणं, तत: परतो भाण्डमधं लभते इतिकृत्वाऽपरेण यानि योजनानि तानि पूर्वदिक्परिमाणे | प्रक्षिपति, यद्यनाभोगात्परिमाणमतिक्रान्तो भवेत्तदा निवर्त्तितव्यं, ज्ञाते वा न गन्तव्यमन्यो वा न विसर्जनीयः, अनाज्ञया कोऽपि गतो भवेत्तदा यत्तेन लब्धं स्वयं विस्मृत्य वागतेन यत् तन्न गृह्यत इति ।। उक्तमतिचारद्वार, सम्प्रति भङ्गद्वारमावेद्यते
दुविहं तिविहेण गुणव्वयं तु घेत्तूण पेसए अन्नं । तल्लाभं वा गेण्हइ तस्स धुवं होइ इह भंगो ॥७३॥
द्विविध' योजनविंशते: परत: स्वयं न गच्छामि नान्यं प्रेषयामीत्येवं 'त्रिविधेन' मनसा वाचा कायेन 'गुणवतं' प्रस्तावाद् दिक्परिमाणं 'गृहीत्वा' आदाय 'प्रेषयति' प्रस्थापयति 'अन्य' अपरं, प्रयोजनोत्पत्ताविति गम्यते, प्रेक्षावतां निष्फलवृत्तेरसंभवात्, न केवलमन्यं प्रेषयति 'तल्लाभं वा X गृह्णाति' तस्मिन्-दिपरिमाणातिक्रमे लाभस्तल्लाभस्तं, वाशब्द: पक्षान्तरसमुच्चये, 'गृह्णाति' आदत्ते, जानान उपत्यकरणेन 'तस्य' गृहीतदिक्परिमाणस्य । 'ध्रुवं' निश्चितं भवति' संपद्यते 'इह' प्रस्तुतव्रते लोके वा 'भङ्गः' सर्वविनाशरूप इति गाथार्थ: ।। भावनाद्वारमेतर्हि कथ्यते
इरियासमियाए परिब्भमंति भूमण्डलं निरारंभा । सव्वजगज्जीवहिया ते धन्ना साहुणो निच्चं ॥७४।।
ईरणमीर्या तस्यां सम्यगयनं समितिरीर्यासमिति:- अव्याक्षिप्तचेतसो युगमात्रान्तरन्यस्तलोचनस्य निरवद्यमार्गेण गमनं तयेर्यासमित्या, समिता इति गम्यते, 'ये परिभ्रमन्ति' यत्तदोर्नित्याभिसम्बन्धाद् ये पर्यटन्ति, किं तत् ? इत्याह-'भूमण्डलं' महीवलयं, कीदृशा: ?-'निरारम्भाः' आरम्भेभ्यो निर्गता: ॥१७९॥ Kनिरारम्भा:- आरम्भविवर्जिताः, यत एवैवमत एव 'सर्वजगज्जीवहिता:' सर्वे च ते जगज्जीवाश्च सर्वजगज्जीवास्तेभ्यो हिताः, नि:शेषचतुर्दशरज्जवा
Jain Education
Rational
For Personal & Private Use Only
www.jdolary.org