________________
कथमन्यथाऽक्षतमूर्तिरवमेषोऽव संतिष्ठते?, ततो निकटीभूतो विषधरं तथास्थितं वीक्ष्य काष्ठलेष्ट्वादिप्रक्षेपैः परीक्ष्यैकान्तोपशान्तं दुग्धघृतादिभिरभ्यर्चयामास, अतिचार नवपदवृत्ति:मू.देव.
तद्गन्धेन च कीटिकादिभिरनिशमेव भक्ष्यमाण: सम्यगधिषह्य तां वेदनां पञ्चदशे दिने मृत: सहस्रारकल्पे महर्धिकसुरत्वेन समुत्पन्नः, तदेवमसौ दृग्विषो भुजङ्गमो द्वारं
निरुद्धदृष्टिमनोवाक्कायो यथेह लोके पूजायाः परत्र च देवलोकसुखानामाभागी संपन्नः, एवं प्रतिपन्नदिक्परिमाण: श्रावकोऽपि निरुद्धात्मा सकलसुखभागी जायत गा.७२ MON इति मत्वाऽत्र यतितव्यमित्युपदेशगर्भो गाथाभावार्थः । यतनेदानी प्रक्रम्यते
फलसंपत्तीवि धुवा जीवाणं तहवि जत्थ उवघाओ। पंचिंदियमाईणं तस्य न गच्छंति ते कहवि ॥७॥
‘फलसम्प्राप्ति:' कार्यनिष्पत्ति: अपि: संभावने 'ध्रुवा' निश्चिता, ध्रुवमिति वा पाठः, 'जीवानां' प्राणिनां प्रक्रमात्स्वीकृतदिनपरिमाणानां यद्यपीति गम्यते, अथवा 'जीवानां पञ्चेन्द्रियादीनामित्यत्र संबध्यते, 'तथाऽपि' एवमपि 'यत्र' क्षेत्रे 'उपघात:' उपपीडा पञ्चेन्द्रियादीनां मकारोऽलाक्षणिक: पञ्चेद्रियायेकेन्द्रियान्तानां पश्चानुपूर्व्या 'तत्र' तस्मिन् परिमितक्षेत्राभ्यन्तरेऽपीति भाव: 'न गच्छन्ति' नो यान्ति जीवा: 'कथमपि' केनापि प्रकारेणेत्यवयवार्थः, समुदायार्थस्त्वेवम्-यद्यपि विहितदिक्परिमाणानां जीवानां परिमितक्षेत्राभ्यन्तरेऽपि क्वचिदभिलषितफलप्राप्तिरवश्यंभाविनी संभाव्यते तथाऽपि यत्रोपघात: पञ्चेन्द्रियादीनां तत्र ते व्रतातिक्रमाभावेऽपि न गच्छन्तीति यतना, यथा मण्डूकिकाटोलकीटिकाद्याकुलमार्गे, अन्यथा दिक्परिमाणकरणस्य किं फलं स्याद् ४ AT?, जीवोपमर्दस्य तन्मध्येऽपि भावादिति तात्पर्य, पञ्चेन्द्रियादीनामित्यत्र चादौ पञ्चेन्द्रियग्रहणं पञ्चेन्द्रियातिपातस्य प्रभूतप्रायश्चित्तविषयत्वेन महादोषख्यापनार्थम्, अन्यथैकेन्द्रियादीनामिति पूर्वानुपूव्यव निर्दिशेदिति गाथार्थ: ।। अतिचारद्वारमित: प्रस्तूयते
उड़े अहे य तिरियं अतिक्कम तहय खेत्तवुद्धिं च । सइअंतरद्धमत्थं वज्जेज्जा पंच अइयारे ॥७२॥ 'ऊर्ध्व' पर्वतशिखरादौ 'अध:' कूपादौ 'च:' समुच्चये 'तिर्यक्' पूर्वादौ 'अतिक्रम' उल्लङ्घनम्, अङ्गीकृतयोजनादिपरिमाणस्येति गम्यते, 88 वर्जयेदिति पश्चिमपादाक्रियाऽभिसंवध्यते, तथा क्षेत्रस्य-प्राच्यादिदिग्गृहीतयोजनादिलक्षणस्य वृद्धि:- वर्द्धनमपरदिग्गृहीतक्षेत्रप्रमाणप्रक्षेपेण दीर्धीकरणं क्षेत्रवृद्धिस्तां च वर्जयेत्, अत्र तथाशब्दः प्रकारे, तस्य चैवं भावना-यथोधिस्तिर्यगतिक्रममतिचारतया प्रतीतं वर्जयेत् तथा क्षेत्रवृद्धि च, च:
प्राक्तनपदापेक्षया समुच्चये, तथा चेति चकारोऽग्रे योज्य:, स्मरण स्मृति:-उपयोगस्तस्या अन्तर्धानमन्तभ्रंशः स्मृत्यन्तर्धा तां च 'अत्र' अस्मिन्नतिचारप्रक्रमे ॥१५ KA 'वर्जयेत्' त्यजेत् ‘पञ्चातिचारान्' पञ्चसङ्ख्यदिग्वतातिक्रमभेदान्, एतेषां चाद्यत्रयस्यातिक्रमादिभिरतिचारत्वमन्यथाप्रवृत्तौ तु भङ्गरूपतैव, क्षेत्रवृद्धिस्तु KA
Jain Educa M
emational
For Personal & Private Use Only
ww.yobrary.org