________________
नवपदवृत्ति: मू. देव.
वृ. यशो
॥ १७७॥
विचिन्त्य तदा मौनमेवशिश्रियद् इतरस्तु भिक्षामादाय स्वोपाश्रये गुर्वालोचनादिपूर्वं भोजनादिव्यापारावसाने सायंतनावश्यकवेलायां यावदालोच्योपवेष्टुमारेभे तावत् काल एष स्मरणाया इति विचिन्त्य क्षुल्लकः क्षपक ! मण्डूकिकामालोचयेति स्मरयामास, सोऽप्यहं मध्येसाधूपहसितोऽनेन तद्दर्शयाम्यमुष्य दुर्विनयफलमिति संक्रुद्धमानसः समादाय स्वोपवेशनपीठं प्रधावितो यावत्तस्योपरि तावदन्तराल एवापतितः स्तम्भे मृतो मर्माघातेनोदपादि विराधितश्रामण्यो ज्योतिष्केषु, स्वायुःक्षये ततञ्चयुतोऽत्रैव भरतक्षेत्रे कनकखलाभिधानतापसाश्रमे पञ्चशतसङ्ख्यतापसाधिपतिभार्यायारतापस्या उदरे उत्पेदे, जातश्चोचितसमये, गतो वृद्धि कालक्रमेण स्वभावतश्चण्डः कौशिककुलश्चेति चण्डकौशिकनामा लोके प्रसिद्धिमगमत्, अन्यदा च परलोकान्तरिते पितरि स एव कुलपति: संवृत्तो, वनखण्डमूर्छया न ददाति तापसवर्गस्य फलपुष्पकन्दाद्यादातुं ततो गतोऽन्यवनमसौ, अपरेद्युश्च नातिदूरे श्चेतव्या नगर्या राजकुमारकाञ्चण्डकौशिकस्य प्रयोजनान्तरेणाटवीं गतस्य समागत्याश्रमं भङ्क्त्वा वनखण्डं बीजपूरकादिफलानि गृहीतवन्तः, ततो गोपालदारकैः कथिते चण्डकोशिकोऽतिरोषपूरितः परशुहस्तः प्रधावितस्तद्बधाय, सर्वेऽपि प्रपलायिता दिशोदिशम् एषोऽपि वेगेनागच्छन् प्रस्खलितः कथञ्चित् पपात भूमौ तेनैव कुठारेण विदारितमस्तको जगाम यममदिरं, जज्ञे तत्रैव दृष्टिविषसर्पत्वेन, तापसा अपि तं मृतमाकर्ण्य भूयोऽपि समाजग्मुस्तमेवाश्रमं सर्पस्तु कतिपयदिन रूपरूढप्रौढविषशक्तिः | पूर्वाभ्यासेन तत्रैव वने गाढं मोहमुपगतः परिभ्रमन् सर्वतो यत् किमपि चटककपोतादि पश्यति तद्विषापूर्णलोचनाभ्यामवलोक्य भस्मसाक्तरोति, ततस्ते तापसाः केचित्तेन दग्धाः केचिद्वनं दृष्ट्वा (च्च नंष्ट्वा) गताः, इत्थं चासौ द्वादशयोजनप्रमाणं क्षैत्रमुद्वास्य प्रतिदिनमुभयसन्ध्यं पर्यट्य उटजमण्डपिकाबिले तिष्ठन् सुखमास्ते स्म इतश्च भगवान् महावीरश्छद्मस्थकाले प्रथमं वर्षाकालं शूलपाणियक्षायतने विधाय लोकेन निवार्यमार्णोऽपि तमाश्रममुपेत्य समीपे | तदीयमण्डपिकाया: कायोत्सर्गेण तस्थौ, तद्गन्धेन निर्गतो बिलादहिः, दृष्ट्वा भगवन्तं मदीयमण्डपिकाऽभ्यर्णवत्र्त्येष कश्चिन्निर्भयस्तिष्ठतीति चिन्तयन्नत्यन्तं क्रुद्धस्तद्दिधक्षया विलोक्य सूर्यं यथा २ निभालयामास भगवत्संमुखं तथा २ निर्विषीभूते विलोचने, ततो दंष्ट्राभिर्दष्ट्वा विषवेगविघूर्णितो मा ममैवोपरि पतिष्यतीति बुद्ध्या दूरमपसृत्य यावदीक्षाञ्चक्रे तावद्दंशस्थाने गोक्षीरधवलमाकलय्य रुधिरपूरमाकर्ण्य च भगवदुक्तम् 'उपशाम्य भो चण्डकौशिक ! उपशाम्ये 'ति वचनमीहापोहामार्गणतः समुद्भूतजातिस्मरणः क्षमकभवाद्यनुभूतकोपफलं परिभाव्य भगवत्समीपे विरचितानशनप्रतिपत्तिर्बिलप्रक्षिप्तवदनः |सकलसत्त्वक्षामणाध्यवसायी विहितकषायजयोऽर्द्धमासं तस्थौ, भगवानपि मा कश्चिदेनमुपद्रोष्यतीतिबुद्ध्या तत्रैव तथैवासाञ्चक्रे, लोकेऽपि स्वामिन: सुखदुःखवार्त्तानिरूपणार्थं वृक्षाद्यन्तरितो यावत्तथैव तच्चेष्टामैक्षिष्ट तावदेवमकृत चेतसि - नूनमेष लोचनविषो दंदशूकः कथञ्चित्तेनैवोपशमं ग्राहितः,
For Personal & Private Use Only
Jain Education International
॥॥ १७७॥
www.jainelibrary.org