________________
नवपदवृत्ति: मू. देव. वृ. यशो
॥ १७६॥
मोक्षं चेति नियमः, पृथ्वीपतिरवोचत् अहं कथं न चक्री ? स्वाम्यभिदधौ य एवोत्पन्नचतुर्दशमहारत्नः पूर्वादिदिग्विजयक्रमेण प्रसाधितषट्खण्डभरतक्षेत्रः स एव चक्री, त्वं तु न तथा ततस्तत्प्रभृत्येव स्वकल्पनया कृत्रिमरत्नान्युत्पाद्य कथञ्चिद्वैताढ्यादर्वाग्वर्त्ति खण्डत्रयं वशीकृत्य परभागवर्त्तिखण्डत्रितयविजयाय तिमिसगुहामयासीत्, तस्यां च किरिमालकं गुहापालकमादिदेश- यथा भो ! भो! किरिमालक ! अहमशोकचन्द्रनामा चक्रवर्ती वैताढ्यपरभागवर्त्तिखण्डत्रयजिगीषया तिमिसगुहामुद्घाटयामि तदुद्घाटयेमामिति आदिष्टोऽसावभाणीत् भो ! भो ! अस्यामवसर्पिण्यां द्वादश चक्रिणो भरताद्या ब्रह्मदत्तपर्यन्ताः, ते च सर्वेऽप्यतिक्रान्ताः, ततः कोणिकोऽभणत्-अहं त्रयोदशश्चक्री, किरिमालिकः प्राह-भो ! भो ! मा विनाशभाग् भूः, गच्छ स्वस्थानं, किमनेनाशक्यानुष्ठानेन भवत: प्रयोजनं ?, ततोऽसौ निवार्यमाणोऽप्येवं किरमालकेन यावद्भूयो भूयः स्वाग्रहं न मुमोच तावत्कुपितेनानेनाहत्य चपेटया कपोलदेशे नीतः पञ्चत्वं, गतः षष्ठपृथ्वीं तमः प्रभाख्यां एवं चाकृतदिक्परिमाणानां विज्ञायेहलोक एव दोषं तत्परिमाणकरण एव बुधैर्यत्नो विधेय इति गाथाभावार्थ: ।। गुणद्वारस्येदानीमवसरोऽतस्तन्निगद्यते
जह चंडकोसिओ खलु निरुद्धदिठ्ठीमणोवईकाओ । तह अन्नोऽवि सउन्नो सव्वसुहाणं इहाभागी ॥७०॥
‘यथा' येन प्रकारेण ‘चण्डकोशिकः' चण्डकोशिकाभिधानतापसजीवसर्पः 'खलु' निश्चये वाक्यालङ्कारे वा निरुद्धा-निवारिता दृष्टिमनोवच: काया:नयनमानसवचनदेहा अवलोकनचिन्तनभणनहिण्डनानि प्रतीत्य येन स निरुद्धदृष्टिमनोवचः काय:, अत्र च प्राकृतलक्षणेन 'दिट्ठी' ति दीर्घत्वं यद्वा ‘निरुद्धदिट्ठी’-त्येतदेव विशेषणपदं, मनोवच: काय इति च प्राकृतत्वेन विभक्तिवचनव्यत्ययाभ्यां मनोवचः कायैः सुखभाक् संवृत्त इति साध्याहारं योज्यं, 'तथा' तेन प्रकारेण 'अन्योऽपि' अपरोऽपि 'सपुण्यः' पुण्योदयवान् 'सर्वसुखानां समस्तसौख्यानामिह जगति आभागी भागी भाजनं भवति, गृहीतदिक्परिमाण: श्रावक इति गम्यते इति गाथाक्षरार्थः, समुदायार्थस्त्वेवं यथा चण्डकौशिको निरुद्धदृष्टिमनोवचः कायो यद्वा निरुद्धदृष्टिर्मनोवचः कायैः सर्वसुखानां भागीभृतस्तथाऽन्योऽपि सपुण्य इति गाथासङ्क्षेपार्थः, विस्तरार्थस्तु कथानकज्ञेयस्तच्चेदम्
एकस्मिन् गच्छे क्षपको वर्षाकाले मासोपवासपारणकदवसे क्षुल्लकेन सह भिक्षाचर्यायां प्रविष्टः कथञ्चिदनुपयोगतो मण्डूकिकां पादेनाक्रान्तमात्रां प्राणेभ्यः पृथक्कृतवान्, ततः क्षुल्लकेनोदितः क्षपकर्षे ! त्वया मण्डूकिका व्यापादिता, क्षपक इतस्ततस्तत्स्थानवर्तिनीरन्या अपि मृतमण्डूकिकास्तस्योपदर्श्य रे रे दुष्टशैक्ष! किमेता अपि मया व्यापादिता: ? इति जजल्प, क्षुल्लकस्तु क्षुत्क्षाम एषः नायं समयोऽस्य प्रतिप्रेरणायां, प्रस्तावान्तरे स्मरयिष्यामीति
Jain Educaternational
For Personal & Private Use Only
गुणद्वारं गा. ७०
॥१७६॥
www.jalneibrary.org