________________
नवपद
वृत्ति: पू. देव. वृ. यशो
।। १७५।।
Jain Educati
अवधारणे स चाग्रे योक्ष्यते, 'निधनं' विनाशं 'नरा:' पुरुषाः 'यान्त्येव' व्रजन्त्येवेत्यक्षरार्थः । समुदायार्थयोजना तु यत्तच्छेषेणेत्थं कार्या- ये नरा मोहमोहिताः पापा: दिक्परिमाणं न कुर्वन्ति ते तिमिसगुहायां कोणिकवन्निधनं यान्तीति गाथासङ्क्षेपार्थः । व्यासार्थस्तु कथानकगम्यः, तच्चेदम्
चम्पानगर्यां श्रेणिकाराजपुत्रोऽशोकचन्द्रापरनामा कोणिकनरपतिर्बभूव स च यथा श्रेणिकराजे प्राग्भवाबद्धवैरस्तद्भार्याया एव चेल्लणाया: सुतत्वेनोत्पेदे, यथा च प्रवर्द्धमानो वैमात्रिककालादिकुमारदशकं प्रत्येकं राज्यैकादशांशैष (शार्प) णेन सहायीकृत्य स्वपितरं श्रेणिकं बद्ध्वा राज्यं स्वीकृतवान्, यथा च विषभक्षणेन पितर्युपरते तच्छोकेनैव राजगृहनगरं परित्यज्य चम्पापुरीं राजधानीं चकार, यथा च स्वसहोदरहल्लविहल्लव्यतिकरात् समं स्वमातामहचेटकराजेन सङ्ग्राममङ्गीकृत्य कालादिषूपरतेषु संगृहीतसमस्ततद्बलो बहोः कालात् महाकष्टेन वैशाली नगरी जग्राह यथा च चेटकराजस्य देवलोकगमने सर्वत्राप्रतिस्खलिताज्ञैश्चर्यो महाराजो भूत्वा भूयश्चम्पानगर्यामाजगाम तथा सविस्तरं सप्रसङ्गं च मूलावश्यकटीकादितोऽवसेयं, इह तु प्रस्तुतगाथार्थघटनाय किञ्चिदेव कथ्यते, तस्य महामहीपतेरसाधारणपराक्रमाक्रान्तसमस्तसामन्तचक्रस्य चक्रस्वस्तिकादिसल्लक्षणक्षणपाणिपादाद्यवयवस्य प्राग्भवोपात्तप्रधानपुण्योदयसम्पाद्यमानासमानसकलराज्याङ्गस्य | समं पद्मावतीप्रमुखान्तःपुरेण जीवलोकसारं पञ्चप्रकारं विषयसुखमनुभवतोऽतिचक्रमुः कियन्तोऽपि वत्सराः, अन्येद्युश्च घुसदः शतसहस्रकोटिसंततोपसेव्यमानपादपङ्कजः पादपङ्कजसंस्पर्शपवित्रितसकलेलातलः सकलेलातलप्रतीतबालकालप्रभृतिमेरुपृष्ठकम्पाद्यनेकाकार
| चारुचरित:
चारुचरितवर्णनासमयशक्रसमुदाहृतदीयसत्वाधिकत्वगुणश्रवणसमुत्पन्नरोषातिरेकसङ्गमकविरचितविचित्रषाण्मासिकोपसर्गवर्गाप्रतिहतप्रवृद्धनिरर्गलशुभध्यानानलानिर्दग्धकर्मेन्धनः तस्यामेव चम्पापुर्यां श्रीमन्महावीरतीर्थकरः समवसृतः, उद्यानपालकादिविदिततदागमनवृत्तान्तः कोणिको निश्चक्राम महाविभूत्या वन्दनार्थं, प्राप्तः समवसरणदेशं, परित्यक्तच्छत्रचामरादिराज्यालङ्कारः प्रदक्षिणात्रयविधानपूर्वं भक्तिभरावनम्रमस्तको विधिवदभिवन्द्य भगवत्पादारविन्दद्वन्द्वं उचितभूप्रदेशे समुपविवेश, प्रारब्धायां च भगवता धर्मदेशनायामुपदर्शिते धर्माधर्मफलविभागे प्रस्तावोचितं पप्रच्छ कोणिकः - भगवन् ! यत्त्वया धर्मफलमुपवर्णयता देवादिवर्णनं कृतं, तत्र चक्रिणोऽपि धर्ममाहात्म्येन भवन्तीति कथितं, ते चानिवृत्तकामभोगा एव यदि म्रियन्ते तदा क्वोत्पद्यन्ते ?, भगवानुवाच - सप्तमनरकपृथिव्यां कोणिको जगाद अहं क्व यास्यामि ?, परमेश्वरोऽव्रवीत्-त्वं षष्ठपृथिव्यां राजा बभाण - किमिति ?, तीर्थकरो बभाषे त्वं चक्रवर्त्ती न भवसि नृपतिनाऽभ्यधायि - ननु कोऽयं नियम 2, किं चक्रवर्त्तिन एव सप्तमपृथिव्यामुत्पद्यन्ते अथवा चक्रवर्त्तिनः | सप्तमपृथिव्यामेव जायन्ते ? यद्वा चक्रिणस्तस्यां भवन्त्येव ?, तीर्थाधिपतिरुवाच अमुक्तकामा अमी सप्तमीमेव गच्छन्ति, मुक्तकामास्तु देवलोकं
For Personal & Private Use Only
national
www
|॥१७५॥
brary.org