________________
B) यटुक्तं- “तो बंधमणिच्छंतो कुज्जा सावज्जजोगविणिवित्तिं । अविसयअणिवित्तीएऽसुहभावा दढयरं स भवे ॥१॥" तत: कर्मबन्धमनिच्छन् । नवपद
भेदाउत्पवृत्ति:मू.देव.
कुर्यात् सावद्ययोगविनिवृत्तिम्, अविषय:-स्वयम्भूरमणादिस्तस्मिन्नप्यनिवृत्या-विरत्यकरणेनाशुभभावात्-क्लिष्टाध्यवसायाद् दृढतरं स बन्धो भवेद्, अतोऽनिवृत्तिरेवत्तिदोषिश्च वृ. यशो
प्रवृत्तिरिति सिद्धं, इतिहेतोः, यद्वा इत्येवं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया या दिशासु-आशासु विरति:-गमनं प्रति विरमणं गुणव्रतमाद्यमिति शेष:, ॥१४॥ तदिह ज्ञातव्यमिति, कोऽर्थ: ?-दिग्व्रतनामकमाद्यगुणव्रतमत्र व्रतविचारेऽवगन्तव्यं स्वरूपेणेति गाथार्थ: ।। भेदद्वारमधुना
पुव्वावरउत्तरदाहिणेण उड्डूं अहे ये परिमाणं । छच्चेव तस्स भेया गुणव्वयस्सेह नायव्वा ॥६७॥
इह दिग्वताभिधानगुणव्रतस्य दिक्षट्कसम्बन्धेन षड् भेदा उच्यन्ते, तथा चाह-पूर्वापरोत्तरदक्षिणेनोर्ध्वमधश्च परिमाणं, तत्र प्राग्दिग्भाग: पूर्वः, पश्चिमदिग्भागोऽपरः, उदग्दिग्भाग उत्तरो, याम्यदिग्भागो दक्षिणः, समाहारद्वन्द्वश्चात्र, तत: पूर्वादिदिग्भागेनैतावन्मया गन्तव्यं, एवं यत्परिमाणं तच्चतुर्दिगपेक्षया चतुर्विधं जातं, न केवलं पूर्वादिदिग्भागेन परिमाणं, तथोर्ध्वमधश्च-उपर्यधस्ताच्च ‘परिमाणं' परिमितिः, अनेन च द्वयेन सह षोढा, नामग्राहं चैते भेदा एवं वाच्या:-पूर्वदिक्परिमाणं अपरदिक्परिमाणं उत्तरदिपरिमाणं दक्षिणदिक्परिमाणं ऊर्ध्वदिक्परिमाणमधोदिक्परिमाणमिति, अत एवाह-'षट् चैव तस्य भेदा:' षडिति सङ्ख्या चशब्दोऽनुक्तसमुच्चयार्थ: तेनान्यचतुर्विदिप्रक्षेपण दश वा भेदास्तस्य, कस्येत्याह-'गुणव्रतस्य गुणाय व्रतं गुणवतं, प्राणातिपाताणुव्रतादिपालनाय वृत्तिकल्पं तस्य ‘इह' अत्र भेदप्रक्रमे ज्ञातव्याः ‘बोद्धव्या इति गाथार्थ: ।। यथा जायत इदं तथाऽधुनोच्यते
परिमियखेत्ताउ बहिं जीवाणं अभयदाणबुद्धीए। दिसिवयगहपरिणामो उप्पज्जइ तिव्वसङ्घस्स ॥६॥
परिमितक्षेत्रात्-पूर्वादिदिक्षु दशस्वपि प्रत्येकमेतावन्ति योजनानि मया गन्तव्यमित्येवं परिच्छिन्नभूदेशलक्षणाद् ‘बहिः' बाह्यस्थाने 'जीवानां' जन्तूनां 'अभयप्रदानबुद्ध्या' जीवितरक्षावितरणधिया 'दिग्व्रतग्रहपरिणाम:' पूर्वादिदिग्गमनविरत्यादानपरिणति: ‘उत्पद्यते' जायते 'तीव्रश्रद्धस्य' उत्कटप्रधानभावस्येति । गाथार्थ: ।। दोषद्वारमधुना प्रतिपाद्यते
दिसि परिमाणं न कुणंति कहवि मोहेण मोहिया पावा। तिमिसगुहाए जह कोणिओ हु निहणं नरा जंति ॥६९॥
दिशि-दिशाविषये परिमाणं-परिमितत्वं 'न कुर्वन्ति' नो विदधति 'कथमपि' 'केनापि प्रकारेण, कीडशा: सन्त: ? इत्याह-'मोहेन' अज्ञानेन ॥१७४॥ 'मोहिता:' मूढीकृताः, पुन: कथम्भूता:?-'पापा:' गुरुकर्माण: "तिमिसगुहायां' तिमिसाभिधानवैताढ्यकन्दरायां 'यथा कोणिकः' अशोकचन्द्र इवेत्यर्थः, 'हु:k
Jain Educationalerational
For Personal & Private Use Only
www.elibrary.org