________________
नवपदवत्तिमदेव. वृ. यशो १७॥
__ शृणोति-आकर्णयति संप्राप्तदर्शनादिगुणो यतिभ्यः सकाशात्सामाचारीमिति श्रावकस्तस्य सम्बोधनं हे श्रावक-हे श्राद्ध ! 'त्वं' भवान् श्री 'चिन्तयस्व' परिभावय, कान् ?- सुविहितान्' शोभनं विहितं येषां ते तथा तान्, सदनुष्ठानान् यतीनित्यर्थः, किंभूतान् ? -मोक्षस्य पन्था मोक्षपथस्तस्मिन् । | मोक्षपथे प्राप्तान्' लग्नान्, सम्यग्ज्ञानदर्शनचारित्ररूपमुक्तिमार्गे समासक्तानिति भावना, पुनः किंविशिष्टान् ? इत्याह-त्यवतकलत्रपुत्रसुहृत्स्वजनसबान्धवमित्रवर्गान्'
अत्र सह बान्धवैः बन्धुभिर्वर्तन्ते इति सबान्धव: स चासौ मित्रवर्गश्चेति कर्मधारयं कृत्वा कलत्रादिपदानां सर्वेषामपि द्वन्द्वः कार्य:, पश्चाच्च त्यक्तशब्देनान्यपदार्थो बहुव्रीहिः, एषां चायं विशेष:-कलत्रं-भार्या पुत्र:-तनयः सुहृत्-स्नेहविषयपात्रे प्रतिकूलकारिण्यपि न दौर्मनस्यकारी स्वजन:-एकजात्यादिसम्बद्धः प्रतिपन्नको वा बान्धवो-भ्रात्रादि: मित्र-सहपांशुक्रीडितादिः, अनेन सचित्तद्विपदस्वरूपपरिग्रहपरित्यागोऽभिहितो, न चैतावतैव क्षेत्रादिसद्भावे निष्परिग्रहत्वमुपजायत इत्युपदर्शनाय विशेषणान्तरमाह-क्षेत्रसुवर्णद्रविणधनधान्यविविर्जितसकलसङ्गान्' क्षेत्रं-सस्योत्पत्तिस्थानं सुवर्ण-हेम द्रविणं-द्रम्मरूपकादि द्रव्यं धनं-गवादि धान्यं-शाल्यादि एतेषां द्वन्द्वे एतान्येव विविर्जित:-त्यक्तः सकल:-सर्वसङ्गहेतुत्वात् सङ्गः-अभिष्वङ्गहेतुर्यैस्ते तथा तान्, एतेन त्वपदचतुष्पदपरिहार: प्रतिपादितः, सत्यपि च कलत्रक्षेत्राद्यभावे देहादौ मूर्छासद्भावात् सपरिग्रह एवेत्यतो विशेषणान्तरमाह-'देहाहारवस्त्रपात्रादिषु दूरोज्झितममत्वान्' नेह:| शरीरं आहारो-भोजनं वस्त्रं-वास: पात्रं-भाजनम् आदिशब्दात्कम्बलपादप्रोञ्छनदण्डकादिनि:-शेषधर्मोपकरणग्रहः, 'सुविहियावि' त्ति अपिशब्दोऽत्र योज्यते तत आस्तामन्येष्वधिकरणेषु गृहादिकेष्वपि धर्मोपकरणेषु दूरम्-अतिशयेनोज्झितं-त्यक्तं ममत्वं-न मे इति बुद्धिर्यैस्ते तथा तान्, एवंविधान् सुविहितान्' चिन्तयस्वे' त्यनुमन्यस्व, अनुमत्या चैतत्सूचितं-यद्यपि श्रावको विषयसुखपिपासाद्याकुलितचित्तवृत्तिः सकलसङ्गपरित्यागं
कर्तुमसमर्थस्तथाऽप्येवंविधसाधुपरिभावनया जनिततद्बहुमानातिशयोच्छलितजीववीर्यः कुर्यादपीलापुत्रन्यायेनेति द्विपद्यर्थः । भणितं भावनाद्वार, तद्भणनाच्च र समाप्तं नवभिरपि द्वारैः पञ्चमाणुव्रतं, तत्समाप्तौ गतानि पञ्चणुव्रतानि, अधुना गुणव्रतानामवसरः, तानि च त्रीण्यपि प्रत्येकमेतैरेव नवद्वारैर्व्याख्येयानि, अत आदौ प्रथमं दिग्व्रतनामकं गुणव्रतमाद्यद्वारेणाह- ..
तत्तायगोलकप्पो, अप्पा अणिवारिओ वहं कुणई। इइ जा दिसासु विरई, गुणव्वयं तमिह नायव्वं ॥६६॥ _ 'तप्तायोगोलकल्प:' वह्निप्रतप्तलोहपिण्डतुल्य: 'आत्मा' जीव: ‘अनिवारितः' अप्रतिषिद्धः, दिशापरिमाणेनानियन्त्रितदिग्विभाग इत्यर्थः ॥१७३॥ ‘वधं विनाशं जीवानामिति गम्यते 'करोति' विदधाति, तप्तायोगोलकल्पत्वं च जीवस्य प्रमत्ततया यथा तथा हिंसाहेतुत्वाद् अनिवृत्तिरेव प्रवृत्तिरितिवचनाद्वा,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org