________________
नवपदवृत्ति:मू.देव. व. यशो ॥१७२॥
यतना अतिचारश्च गा.६४६५
गृहगतधनादिविक्रये वा कृते ग्रहीष्यामीति भावनया बन्धनेन-नियन्त्रणेन रज्जवादिसंयमनेन सत्यङ्कारदानादिरूपेण स्वीकृत्य तद्गृह एव तत्स्थापयतोऽतिचार:, तथा द्विपदं-पुत्रकलवदासीदासकर्मकरशुकसारिकादिरूपम्, आदिशब्दाद्गवादिचतुष्पदपरिग्रहः, तेषां यत्परिमाणं तस्य कारणेन-गर्भाधानविधापनेनातिक्रमोऽतिचारो भवति, यथा किल केनापि संवत्सराद्यवाधिना द्विपदचतुष्पदानां परिमाणं कृतं, तेषां च संवत्सरमध्य एव प्रसवेऽधिकद्विपदादिभावाद् व्रतभङ्गः स्यादिति तद्भयात्कियत्यपि काले गते गर्भग्रहणं कारयतो गर्भेस्थद्विपदादिभावेन बहिर्गततदभावेन च कथञ्चिद् व्रतभङ्गादतिचारः, तथा कुप्यम्-आसनशयनादिगृहोपस्करस्तस्य यन्मानं तस्य भावेन-तत्पर्यायान्तररूपेणातिक्रमो भवति, यथा किल केनापि दश करोटकानीति कुप्यस्य परिमाणं कृतं, ततस्तेषां कथञ्चिद् द्विगुणत्वे सति व्रतभङ्गभयात्तेषां द्वयेन द्वयेनैकैकं महत्तरं कारयत: पर्यायान्तरकरणे सङ्ख्यापूरणात् स्वाभाविकसंख्याबाधनाच्चातिचारः, अन्ये त्वाहुः-भावेन-तदर्थित्वलक्षणेन | विवक्षितकालावधे: परतोऽहमेतद्ग्रहीष्याम्यतो नान्यस्मै देयमिति पराप्रदेयतया व्यवस्थापयत इति, एते चातिचारा मूलसूत्र एवमभिधीयन्ते 'खेत्तवत्थुपमाणाइक्कमे हिरण्णसुवण्णपरिमाणाइक्कमे' इत्यादि, यथाश्रुतत्वेन चैषामभ्युपगमे भङ्गातिचारयोर्न विशेष: स्यादिति तद्विशेषोपदर्शनार्थमाचार्येण योजनप्रदानेत्यादिभावना | दर्शिता, एतद्भावनोपदर्शनादेवान्येषां सहसाभ्याख्यानादीनामतिचाराणामनुपदर्शितभावनानामपि भावनोत्प्रेक्षणीया, सा च यथाबोधं केषाञ्चिद्दर्शितैवास्माभिः, यच्च क्षेत्रादिपरिग्रहस्य नवविधत्वेन तत्सङ्ख्यातिचारप्राप्तौ पञ्चसङ्ख्यत्वमुक्तं तत्सजातीयत्वेन शेषभेदानामत्रैवान्तर्भावात्, शिष्यहितत्वेन च प्राय: सर्वत्र मध्यगतेर्विवक्षितत्वात्पञ्चकसङ्घययैवातिचारपरिगणनमतश्चतुः-षडादिसङ्ख्याऽतिचाराणां गणनमुपपन्नमिति गाथार्थः ॥६३।। गतमतिचारद्वारमधुना भङ्गद्वारमुच्यते
जइ जाणंतो गेण्हइ अहियं धण्णाइ तो भवे भंगो। अइसंकिलिट्ठचित्तस्स तस्स परिणामविरहाओ॥६४॥
'यदि' चेत् 'जानान:' अवबुध्यमान: 'गृह्णाति' आदत्ते 'अधिक' अर्गलम्, अङ्गीकृतपरिमाणादिति गम्यते, किं तत् ? इत्याह-धान्यादिधान्यधनद्विपदादि ‘तत:' तस्मात्, किं ?- भवेत्' जायेत ‘भङ्गः' सर्वाभावरूपः, कस्य ? इत्याह-'तस्य' आभोगेन स्वीकृतपरिमाणातिरिक्तग्राहिणः, इदं चानन्तरपदादुपरिवर्त्यपि अत्र योज्यते अर्थानुगुण्यात्, किंविशिष्टस्येत्याह-अतिशयेन सङ्क्लिष्टं चित्तं यस्य स तथा तस्य-अतिरौद्राध्यवसायिचेतसः, कस्मात् ? -'परिणामविरहात्' व्रतपरिणत्यभावादिति गाथार्थः ॥६४।। भावनाद्वारमधुना
चत्तकलत्तपुत्तसुहिसयणसबंधवमित्तवग्गया, खेत्तसुवण्णदविणधणधण्णविवज्जियसयलसंगया ।
देहाहारवस्थपत्ताइसु दूरुज्झियममत्तया, चिंतसु सुविहियावि तं सावय ! मोक्खपहमि पत्तया ॥६५॥ ernational
R॥१७२॥
Jain Educa
&
For Personal & Private Use Only
ww
&
brary.org