________________
नवपदवृत्ति: मू. देव. वृ. यशो
॥ १७१ ॥
विज्ञाय परिग्रहपरिमाणे यतितव्यमिति गुणद्वारोपदर्शकगाथाभावार्थ: ।। यतनाद्वारमिदानीमभिधीयते
संभरइ वारवारं, मुक्कलतरगं व गेण्हइस्सामि । एवं वयं पुणोऽविय मणेण न य चिंतए एवं ॥ ६२ ॥
गृहीतपरिग्रहपरिमाणस्य श्रावकस्येयं यतना-यदुत 'संस्मरति चिन्तयति 'वारं २' भूयो भूयः एतावन्मात्रं परिग्रहपरिमाणमेतावन्तं कालं यावन्मया गृहीतमित्येवं, तथा कथञ्चित्संक्षिप्ते गृहीते चतुर्मासादिनियमे न प्रचुरव्यवहाराद्याकाङ्क्षया 'मुक्तलतरकं' प्रचुरतरकमेव वाशब्दस्यैवकारार्थत्वाद् 'ग्रहीष्यामि' उपादास्ये, एतत्समाप्त्युत्तरकालमिति शेषः, 'एतत्' परिग्रहपरिमाणलक्षणं 'व्रतं' नियमं 'पुनः ' भूयोऽपि चशब्दो यतनाप्रकारान्तरसमुच्चये 'मनसा' चेतसा 'न च' नैव 'चिन्तयेत्' ध्यायेत् ' एवं ' अमुना प्रकारेणेति गाथार्थः । व्याख्यातं यतनाद्वारमधुनाऽतिचारद्वारमस्यैवोच्यतेखेत्ताइहिरण्णाईधणाइदुपयाइकुप्पमाणकमे । जोयणपयाणबंधणकारणभावेहि नो कुणइ || ६३ ||
क्षेत्रादिहिरण्यादिधनादिद्विपदादिकुप्यमानक्रमानिति, क्षेत्रमादिर्यस्येत्येवं सर्वपदेष्वात्मीयादिशब्देन बहुव्रीहिं कृत्वा सर्वपदानां कुप्यान्तानां द्वन्द्वे सति मानक्रमशब्देन षष्ठीसमासे च प्रत्येकं सम्बन्धो विधेयो, यथा क्षेत्रादेर्मानक्रमो हिरण्यादेर्मानक्रम इत्यादि, मानक्रमश्च प्रमाणातिक्रमो भण्यते, 'तंनो करोती' ति चरमपादान्ते क्रिया, गृहीतक्षेत्रादिपरिमाणः श्रावक इति सामर्थ्याद् गम्यं, कैर्न करोतीत्याह-योजनप्रदानबन्धनकारणभावैः, अत्र योजनादिपदानि पञ्च कृतद्वन्द्वानि तृतीयान्तानि यथासङ्ख्येन चैषां सम्बन्ध:, तेन क्षेत्रादिप्रमाणातिक्रमं योजनेन 'नो करोति' न विधत्ते इत्याद्यवगम्यमिति गाथासमुदायार्थः । अवयवार्थश्चायं क्षेत्रं- सस्योत्पत्तिभूमिः तच्च सेतुकेतूभयभेदात्रिधा पूर्वोक्तिम्, आदिशब्दाद्वास्तुग्रहो, वास्तु च अगारं ग्रामनगरादि च तत्रागारं त्रिप्रकारं प्रागुदितमेव, एतयोश्च क्षेत्रवास्तुनो: प्रमाणस्य योजनेन क्षेत्रान्तरादिमीलनेनातिक्रमोऽतिचारो भवति, तथाहि किलैकमेव क्षेत्रं वास्तु वेत्यभिग्रहवतोऽधिकतरतदभिलाषे सति व्रतभङ्गभयात्प्राक्तनक्षेत्रादिप्रत्यासन्नं तद् गृहीत्वा पूर्वेण सह तस्यैकत्वकरणार्थं वृत्त्याद्यपनयनेनं तत्तत्र योजयतो व्रतसापेक्षत्वात्कथञ्चिद्विरतिबाधनाच्चातिचार इति, तथा हिरण्यं रजतमादिशब्दात्सुवर्ण तत्परिमाणस्य प्रदानेन वितरणेनातिक्रमो भवति, यथा केनापि चतुर्मासाद्यवधिना हिरण्यादिपरिमाणं विहितं तत्र च तेन तुष्टराजादेः सकाशात्तदधिकं तल्लब्धं तच्चान्यस्मै व्रतभङ्गभयात्प्रददाति, पूर्णेऽबाधे ग्रहीष्यामीति भावनयेति व्रतसापेक्षत्वादतिचार:, तथा धनं-गणिमधरिममेयपरिच्छेद्यभेदाच्चतुर्विधं पूर्वं व्याख्यातमेव, आदिशब्दात् धान्यं व्रीह्यादि २४ ॥ १७१ । एतत्प्रमाणस्य बन्धनतोऽतिक्रमो भवति, तथाहि किल कृतधनादिपरिमाणस्य कोऽपि लभ्यमन्यद्वा धनादि ददाति, तच्च व्रतभङभयाच्चतुर्मासादिपरतो
41
For Personal & Private Use Only
Jain Educationational
rary.org